सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/500

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५८
सिद्धान्तशिरोमणौ गोलाध्याये

 यन्त्रराजादियन्त्रैर्नक्षत्रवेधेन यद्रात्रिगतकालज्ञानमुक्त तत्पठितनक्षत्रछायाधिकारस्य नक्षत्रमध्यास्तोदयलग्नज्ञानतः सुखेन भवत्येवेति चक्रादियन्त्रदिनगतकालावयवज्ञानमुक्तम् । अत एवाधिकारारम्भे दिनगतकालावयवा इत्युक्तम् ॥ ११-१४३ ।।

अथ चापं तुर्यंगोलं चाह--
दलीकृतं चक्रमुशन्ति चापं कोदण्डखण्डं खलु तुर्यगोलम् ॥ १५।
वा० भा०-स्पष्टम् ।

 अत्र यन्त्रेषु गोलो गोल एव । नाडीवलयं विषुवद्वृत्तम् । तयोर्घटिकाज्ञाने गोलयुक्तिरेव वासना ॥ सम्यग्ध्रुवाभिमुखयष्टिके गोले धृते यथोक्ताः स्वत एव घटिका ज्ञायन्त इत्यर्थः ॥ यत्तु नाडीवलयं चक्रं कृत्वा यष्टयां प्रोतं तत् षड्वर्गाङ्कनार्थमेव । यत्तु चक्रतं तद्दूङमण्डलम् । तत्र नतोन्नताशज्ञानमेव गोलयुक्त्या भवति । दृङ्मण्डले क्षितिजादुपरि यैर्भागै रविर्भवति तैरेव पश्चिमक्षितिजादधः कीलकच्छाया लगतीत्यर्थः । ग्रहवेघे यदक्षेपधिष्ण्यद्वयं नेमिस्थं कृत्वा यन्त्रं घृतं तत् क्रान्तिवृत्ताकारावस्थानार्थम् । अतस्तत्रापि गोलयुक्तिरेव वासना । इति चापतुयें । १४३-१५ ।

 वा० वा०-चापतुर्ययन्त्रे' वदति दलीकृतं चक्रमिति। रामेण सम्यगुक्तमिदम्।


१. अत्र ब्राह्मस्फुटसिद्धान्ते ब्रह्मगुस:-

अङ्कितमंशनवत्या धनुषोऽर्धं तुर्यगोलकं यन्त्रम् ।
घटिकानतोन्नतांशग्रहान्तराद्य धनुर्वदिह ।। १७ ॥

ब्राह्मस्फुटसिद्धान्ते--

घटिका स्वशङ्कुमागैः पृथग्गतैर्लम्बभू समज्यार्धात् ।
साशीतिशतांशाडू चक्रस्यार्धं धनुर्यन्त्रम् ।। १० ॥

२२ अ० १० श्लो० ।
 

सिद्धान्तसार्वभौमे—

अथ प्रवक्ष्ये निजकल्पितं तद् वृत्तार्धरूपं धनुराख्ययन्त्रम् ।
खाटेन्दुभागाः परिधौ शरोऽस्य पूर्वापराज्योत्तरदक्षिणा दिक् ॥ ७६ ।
अग्रालवैरात्मदिशीषुजाग्रादस्तोदयौ तत्परिधौ विचिन्त्यौ ।
स्वाहर्दलान्तर्गतकल्पितैकादितुङ्गनाडीषुभुजो विधेयः ॥ ७७ ।।
अभीष्टशङ्कु गणितागतो यः पलप्रमाघ्नोऽर्क१२हृतो यमांशम् ।
फलं तु भिन्नैकदिशा वियुक्तं युक्तं क्रमेणाग्रकया स्वदिक् सः ॥ ७८ ।।

तथा च सिद्धान्तसुन्दरे--

चक्र चक्रलवाङ्कितं च परिधौ सच्छछुङ्खलाधारको,
रेखातिर्यगधोऽद्धंगात्र च युतौ कीले शलाकां न्यसेत् ।
तुर्याशेन विधाय तुर्यरचनां सूर्यो मुखेऽस्मिन् घृते छाया कीलमवा प्रयाति परिधि तत्रोन्नतांशाः कुजात् ।। २० ।।