सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/497

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५५
यन्त्राध्याय:

रेखायां पश्चिमरेखायां वा पलज्या देया तदग्रे चिह्न कार्यम्। खस्वस्तिकात् तच् चिह्नं प्रतिनीयमानं सूत्रं त्रिज्यैव ।

 याम्यसूत्रे मेरुखमध्ययोरन्तरं लम्बज्या । यद्वा यन्त्रपृष्ठभागे पूर्वरेखातः पश्चिमरेखात ऊध्वंमेकाह्युन्नताशा नवतिपर्यन्तमङ्किताः सन्ति । तत्र पलाशतुल्योन्नतांशेषु भुजाग्रं देयम् ।

 अत्र मेरुचिह्माद्भुजाग्रमेव त्रिज्याकर्ण: । अंशवृत्तपूर्वसूत्रसम्पातादुपरि येषु भुजाग्रं लापितं तेष्वेवांशेषु पश्चिमसूत्रांशवृत्तसम्पातादग्रे चिह्नं कार्यम् । तच्चिह्नभुजाग्रचिह्नद्वयसूत्रार्द्ध लम्बज्या कोटिः ।। तत्सूत्रयाम्यसूत्रसम्पातान्मेरुकीलपर्यन्तं याम्यसूत्रं पलज्या भुजः । लम्बज्या द्वादशांशेन पलज्यापवतिता पलभा भवति । त्रिज्यायामपवतितायामक्षकणों भवति । लम्बज्याती द्वादश लभ्यन्ते ।

 एवमक्षक्षेत्राणि यन्त्रराजे वेद्यानि । अत्रेश्रोन्नताशवलयमस्यादिसम्पादितद्युज्यावृत्तयोगात्तथा लम्बः क्षितिजे पातनीयो यथाग्राग्राद्याम्यं शङ्कतलं स्यात्।

 तथा स सम्पातो धार्यो यथा लम्बसूत्रमग्राग्रतः शङ्कतलाग्रे यतेदिति भावः । उन्नतांशानां ज्या शडूर्नतांशानां ज्या दृग्ज्येति । इष्टद्युरात्रवृत्तयाम्योक्तरसूत्रसम्पाते यावदधमुन्नतवलयमस्तॆि तदुन्नतांशज्या दिनार्द्धशङ्कः । सम्पातादस्मात् क्षितिजद्युरात्रवृत्तसम्पातावधि द्युरात्रवृत्ते दिनाद्धहृतिः । इयं त्रिज्यापरिणता दिनाद्धान्त्या भवति । एवमिष्टहृत्यन्त्ये च वेद्यो ।

 कुज्याग्रादुपरिखण्डमिष्टहृतेः कला चरज्याग्रादुपरि खण्ड सूत्र भवति । उन्मण्डलशङ्क्वग्रादुपरि खण्डमिष्टशङ्कोरिष्टयष्टिः । उन्नतकालः सौम्ययाम्यगोलयोश्चरोनयुतस्तस्य ज्या सूत्रम् । नतकालोत्क्रमज्या शरः स तु दिनार्द्धान्त्याया इष्टान्त्याग्रादुपरिखण्डं भवति । इष्टहृत्यग्रादुपरिखण्डं दिनार्धहृतेः फलमिति । दिनार्द्धशङ्कोरिटशङ्क्वग्रादुपरिखण्डमूर्ध्वसंज्ञा। मेषवृतपूर्वापरसंपाताच्छङ्कमूलावधि भुजो ज्ञेयः । भुजः समवृत्तखेटविवरांशज्या । अयं भुजस्त्रिज्याहतो दृग्ज्याभत्तो दिग्ज्या स्यात् । तद्धनुर्दिगंशाः भवन्ति ।

 यन्त्रे कोणवृत्ते कायें । कोणवृत्तेष्टद्युरात्रवृत्तसम्पाते यदाऽर्कस्तदा'विदिच्छाया स्यात् । घटिकानयनं समवृत्तार्कवत् ।

 एवमक्षपत्रवदन्यपि पत्रं कार्यम् । तद्दिगङ्कितं चक्रांशाङ्कितं च कार्यम् ॥ पूर्वचिह्नादुभयतः प्रत्यंशचिह्नद्वयगसूत्राणि नवत्यंशपर्यन्तं नवतिसम्पूर्णजीवाः भवन्ति । तत्र याम्योत्तररेखाद्ध त्रिज्या । तदक्षपत्रवत्कृतपत्रकेन्द्रान्मन्दान्त्यफलज्याभिः सप्तभि: शीघ्रान्त्यफलज्याभिः पञ्चभिः वृत्तानि कार्याणि तानि भगणांशैरङ्क्यानि ॥ स्वस्वमन्दशीघ्रपरिधौ पूर्वचिहुान्मन्दकेन्द्रशीघ्रकेन्द्रभुजमुभयतो दत्त्वा तदग्रद्वयगतसूत्राद्धणि मन्दशीघ्रदोः फलानि भवन्ति । शीघ्रदोः फलाद्याम्योत्तररेखां प्रति नीयमानं तुल्यान्तरसूत्रं शीघ्रकोटिफलं स्यात् । 'त्रिज्याकोटिफलेन युक्ता हीनेत्यादिना शीघ्रकर्ण: साध्यः । स्वस्वशीघ्रदोः फलानि पूर्वकृतमहद्वृत्तव्यासाद्धरूपत्रिज्या ३४३८ गुणानि स्वस्वकणभक्तानि कायणि ।