सामग्री पर जाएँ

स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १३६

विकिस्रोतः तः


अध्याय १३६

श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल चाहल्येश्वरमुत्तमम् ।
यत्र सिद्धा महाभागा त्वहल्या तापसी पुरा ॥ १३६.१ ॥
गौतमो ब्राह्मणस्त्वासीत्साक्षाद्ब्रह्मेव चापरः ।
सत्यधर्मसमायुक्तो वानप्रस्थाश्रमे रतः ॥ १३६.२ ॥
तस्य पत्नी महाभागा ह्यहल्या नाम विश्रुता ।
रूपयौवनसम्पन्ना त्रिषु लोकेषु विश्रुता ॥ १३६.३ ॥
अस्या अप्यतिरूपेण देवराजः शतक्रतुः ।
मोहितो लोभयामास ह्यहल्यां बलसूदनः ॥ १३६.४ ॥
मां भजस्व वरारोहे देवराजमनिन्दिते ।
क्रीडयस्व मया सार्द्धं त्रिषु लोकेषु पूजिता ॥ १३६.५ ॥
किं करिष्यसि विप्रेण शौचाचारकृशेन तु ।
तपःस्वाध्यायशीलेन क्लिश्यन्तीव सुलोचने ॥ १३६.६ ॥
एवमुक्ता वरारोहा स्त्रीस्वभावात्सुचञ्चला ।
मनसाध्याय शक्रं सा कामेन कलुषीकृता ॥ १३६.७ ॥
तस्या विदित्वा तं भावं स देवः पाकशासनः ।
गौतमं वञ्चयामास दुष्टभावेन भावितः ॥ १३६.८ ॥
विदित्वा चान्तरं तस्य गृहीत्वा वेषमुत्तमम् ।
अहल्यां रमयामास विश्वस्तां मन्दिरान्तिके ॥ १३६.९ ॥
क्षणमात्रान्तरे तत्र देवराजस्य भारत ।
आजगाम मुनिश्रेष्ठो मन्दिरं त्वरयान्वितः ॥ १३६.१० ॥
आगतं गौतमं दृष्ट्वा भीतभीतः पुरंदरः ।
निर्गतः स ततो दृष्ट्वा शक्रोऽयमिति चिन्तयन् ॥ १३६.११ ॥
ततः शशाप देवेन्द्रं गौतमः क्रोधमूर्छितः ।
अजितेन्द्रियोऽसि यस्मात्त्वं तस्माद्बहुभगो भव ॥ १३६.१२ ॥
एवमुक्तस्तु देवेन्द्रस्तत्क्षणादेव भारत ।
भगानां तु सहस्रेण तत्क्षणादेव वेष्टितः ॥ १३६.१३ ॥
त्यक्त्वा राज्यं सुरैः सार्द्धं गतश्रीको जगाम ह ।
तपश्चचार विपुलं गौतमेन महीतले ॥ १३६.१४ ॥
अहल्यापि ततः शप्ता यस्मात्त्वं दुष्टचारिणी ।
प्रेक्ष्य मां रमसे शक्रं तस्मादश्ममयी भव ॥ १३६.१५ ॥
गते वर्षसहस्रान्ते रामं दृष्ट्वा यशस्विनम् ।
तीर्थयात्राप्रसङ्गेन धौतपापा भविष्यसि ॥ १३६.१६ ॥
एवं गते ततः काले दृष्टा रामेण धीमता ।
विश्वामित्रसहायेन त्यक्त्वा साश्ममयीं तनुम् ॥ १३६.१७ ॥
पूजयित्वा यथान्यायं गतपापा विमत्सरा ।
आगता नर्मदातीरे तीर्थे स्नात्वा यथाविधि ॥ १३६.१८ ॥
कृतं चान्द्रायणं मासं कृच्छ्रं चान्यं ततः परम् ।
ततस्तुष्टो महादेवो दत्त्वा वरमनुत्तमम् ॥ १३६.१९ ॥
जगामादर्शनं भूयो रेमे चोमापतिश्चिरम् ।
अहल्या तु गते देवे स्थापयित्वा जगद्गुरुम् ॥ १३६.२० ॥
अहल्येश्वरनामानं स्वगृहे चागमत्पुनः ।
तत्र तीर्थे तु यः स्नात्वा पूजयेत्परमेश्वरम् ॥ १३६.२१ ॥
स मृतः स्वर्गमाप्नोति यत्र देवो महेश्वरः ।
क्रीडयित्वा यथाकामं तत्र लोके महातपाः ॥ १३६.२२ ॥
गते वर्षसहस्रान्ते मानुष्यं लभते पुनः ।
धनधान्यचयोपेतः पुत्रपौत्रसमन्वितः ॥ १३६.२३ ॥
वेदविद्याश्रयो धीमाञ्जायते विमले कुले ।
रूपसौभाग्यसम्पन्नः सर्वव्याधिविवर्जितः ।
जीवेद्वर्षशतं साग्रमहल्यातीर्थसेवनात् ॥ १३६.२४ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अहल्यातीर्थमाहात्म्यवर्णनं नाम षट्त्रिंशदधिकशततमोऽध्यायः ॥