सामग्री पर जाएँ

पृष्ठम्:पतञ्जलिचरितम्.djvu/४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४२
काव्यमाला ।

भगवन्पतञ्जलिरभून्महीतले
भवदाकृतिः प्रथयितुं निजां कृतिम् ।
इति वर्णयन्ति मुनयः पुराविदो
मम तेन भाष्यपठने मनोरथः ॥ १६ ॥

कुहरं विधाय किमपि क्षमातले
कुरु मामिहस्थमुपरिस्थितो भुवि ।
पठतश्च पाठय कृतिं पतञ्जले-
र्यदहं पठेयमनवेक्षितोऽखिलैः ॥ १७ ॥

कतमोऽपि मामपि भवन्तमन्तरा
कमनीय एव किल रश्मिरायतः ।
चलयेयमेनमथ चोद्यमस्ति चे-
न्मम तत्र भाष्यमसकृत्प्रबोधय ॥ १८ ॥

विहितं यदीत्थमतिसंहिता बुधा
निखिला भवन्ति भवति श्रुतं च मे ।
फणिभाष्यमान्तमपि चिन्त्य सिद्धये
किमपि प्रसीद मयि तत्कृपानिधे ॥ १९ ॥

इति पुत्रवाक्यमवकर्ण्य सोऽब्रवी-
दिदमेवमस्तु भवतो यथेप्सितम् ।
शृणु वत्स किंचिदवधाय मे वचो
गुरुसंप्रदायपदवीसमागतम् ॥ २० ॥

यदि गौतमस्य मतमप्रतिष्ठितं
यदि जैमिनेः श्लथयितुं क्षमं नयैः ।
यदि भिक्षुशास्त्रमिदमाविलं खलै-
र्न तथा पतञ्जलिमतं तु दुष्यति ॥ २१ ॥