सर्व०--( श्रुत्वा सक्रोधम्)अयि पापाः!किमेवं भवद्भिरुदूघुप्यते । तथाहि----
सोऽयं पतङ्गाद्दहनस्य भङ्गो |
( पुनर्नेठये सगर्वम्)
निवसति वडवाग्निर्यत्र सायामधामा |
सर्व०-विशदाशय ! मम ज्ञातेर्विधुन्तुदस्य भक्ष्योऽयं, तदेनं भक्षयतो मम न दोपोऽस्ति । फवलयाम्येनम् ।
विश०--( सप्रश्रयम्) अयि दानवेश ! भवानेनं कवलयतु । भवन्निदेशेन राहुरेव वा बाढमपुनर्भवाय कवलयतु । किंतु चन्द्रतापसमीपं प्रहितः प्रतीक्ष्यतां स्फुटाक्षरः ।
( ततः प्रविशति स्फुटाक्षरः )
स्फुटा०-(सखेदम् ) अहह ! विहिविवरीददाए वैभवंपि विघरीदफलं भोदि । तंप्येव चंदतावनअरस्स रुप्यमयं पाआरं रुप्पमआइं सोहाइं एदत्सि तुसारअरसमरम्मि अइतुसारदाए अणत्थहलं संवुत्तं [१]।
सर्व०--(स्फुटाक्षरं दृष्ट्वा सप्तम्भ्रमम्) अयि दौवारिकाः ! प्रेतः कोऽप्ययं मामभ्युपैति ।
स्फुटा०--(प्तावेगम्) अपि णाह ! णहु णहु अहं पेदो भूओ वेआलो वा । अहं फुडक्सरो देवस्स चरो चंदताववुत्तन्तं णिरूविदं गुदोम्हि । तं उण मह अवत्थाए य्पेव विन्नत्तं """"""""" ए सिसिरेण समरो दिट्टो । ण कआचि मए एआरिसो तुसारसंभवो अणुभूदो । ता किंपि परित्ताणं करेदु दाणवणाहो ।[२]
- ↑ अहह ! विधिविपरीततया वैभवमपि विपरीतफलं भत्रति ! तदेव चन्द्रतापनगरस्य रूप्यमयः प्राकारः रूप्यमयानि सौधानि एतस्मिन् तुपारकरसमरे तुपारतया अनर्थफलं संवृत्तम् ।
- ↑ अयि नाथ ! न खलु न खलु अहं प्रेतो भृतो येतालो वा । अहं स्फुटाश्क्षरो देवस्य चरक्ष्चद्रधन्द्रतापवृत्तान्तं निरूपयितुं गतोऽस्मि । तन् पुनः मम अवप्ययैव विज्ञप्तम्'*****शिशिरेण समरो द्ष्टः । न कदापि मया एतादृशः तुपारसम्भवोऽनुभूतः । तत्किमपि परित्राणं करोतु दानवनाथः ।