प्रदर्श्यन्ते। वराहमिहिरकृतपञ्चसिध्दान्तिकायां पैतामहसिद्धान्ते ये रविभगणादयो विलिखितास्त एव ज्यौतिषवेदाङ्गीया इति (मत्कृता पञ्चसिद्धान्तिकाटीका विलोक्या) ।"
तत्रैकस्मिन् युगे रविवर्षाणि = ५ । एतावन्त एव रविभगणाः = ५ ।
सौरमासाः = ६० । सौरदिनानि =१८०० ।
चान्द्रमासाः = ६२ । चान्द्रदिनानि = १८६०
क्षयाहाः = ३०
सावनदिनानि =१८३०
भभ्रमा वा नक्षत्रोदयाः = १८३५
चन्द्रभगणाः = ६७
चन्द्रसावनदिनानि =१७६८
एकस्मिन् सौरवर्षे सावनदिनानि = ३६६
एकस्मिन् सौरवर्षे चान्द्रदिनानि = ३७२
एकस्मिन् सौरवर्षे नक्षत्रोदयाः = ३६७
अथैकस्मादयनाद्द्वितीयायनपर्यन्तं सौरदिनानि = १८० ।
एते सौरांशा एकनक्षत्रभोगेन त्रयोदशांशैः सत्र्यंशाधिकै- = र्भक्ता लब्धान्ययनयोरन्तरे नक्षत्राणि = = = । श्रविष्ठादिगणनया जातं द्वितीयमयनं श्लेषार्धेऽतउपपन्नम् । यद्वाऽयनाद्द्वितीयमयनपर्यन्तं सौरवर्षार्धं तत्र रवेः सप्तविंशत्यर्धमितानि नक्षत्राणि पूर्वागतनक्षत्रसमानि । माघे धनिष्ठागतत्वाद्रवेरुत्तरमयनम् । श्लेषार्धगतत्वेन कर्किराशिगतत्वाच्च श्रावणे मासि तस्य दक्षिणमयनमिति स्फुटम् ॥ ७ ॥
इदानीमयनयोर्दिनरात्रिमाने आह ।
- धर्मवृद्धिरपां प्रस्थः क्षपाह्रास उदग्गतौ ।
- दक्षिणेतौ विपर्यासः षण्मुहूर्त्त्ययनेन तु ॥ ८ ॥