सामग्री पर जाएँ

शब्दकल्पद्रुमः/शिवप्रिया

विकिस्रोतः तः
पृष्ठ ५/०९५

शिवप्रिया, स्त्री, (शिवस्य प्रिया ।) दुर्गा ।

इति शब्दमाला ॥

शिवमल्लकः, पुं, अर्ज्जुनवृक्षः । इति राज-

निर्घण्टः ॥

शिवमल्लिका, स्त्री, (शिवप्रिया मल्लिका ।)

वसूकः । इति राजनिर्घण्टः ॥

शिवमल्ली, स्त्री, (शिवप्रिया मल्ली ।) वकवृक्षः ।

इत्यमरः ॥

शिवरसः, पुं, त्र्यहात् पर्य्युषितरसः । तत्पर्य्यायः ।

अन्नोदकजः २ । अस्य गुणाः । दीपनत्वम् ।
मधुरत्वम् । अम्लत्वम् । असृग्दाहदत्वम् । लघु-
तर्पणत्वञ्च । इति राजनिर्घण्टः ॥

शिवरात्रिः, स्त्री, (शिवप्रिया रात्रिः ।) शिव-

चतुर्द्दशी । यथा, कालमाधवीये स्कान्दे नागर-
खण्डम् ।
“माघमासस्य शेषे या प्रथमे फाल्गुणस्य च ।
कृष्णा चतुर्द्दशी सा तु शिवरात्रिः प्रकीर्त्तिता ॥”
अत्रैकस्यास्तिथेर्म्माघीयत्वफाल्गुनीयत्वे मुख्य-
गौणवृत्तिभ्यां अविरुद्धे । ततस्तु माघ्यनन्तरा
चतुर्द्दशी शिवरात्रिः तस्यामुपवासः प्रधानम् ।
“न स्नानेन न वस्त्रेन न धूपेन न चार्च्चया ।
तुष्यामि न तथा पुष्पैर्यथा तत्रोपवासतः ॥”
इति शङ्करोक्तेः ॥ * ॥
स्कान्दे ।
“ततो रात्रौ प्रकर्त्तव्यं शिवप्रीणनतत्परः ।
प्रहरे प्रहरे स्नानं पूजाञ्चैव विशेषतः ॥”
अत्र वीप्सया प्रहरचतुष्टयसाध्यं व्रतं प्रतीयते
नरसिंहाचार्य्यधृतेश्वरसंहितायाम् ।
“शैवो वा वैष्णवो वापि यो वा स्यादन्यपूजकः ।
सर्व्वं पूजाफलं हन्ति शिवरात्रिबहिर्म्म खः ॥ * ॥
संवत्सरप्रदीपे ।
“दुग्धेन प्रथमं स्नानं दध्ना चैव द्वितीयके ।
तृतीये च तथाज्येन चतुर्थे मधुना तथा ॥”
ईशानसंहितायाम् ।
“माघे कृष्णचतुर्द्दश्यां रविवारो यदा भवेत् ।
भौमो वापि भवेद्देवि कर्त्तव्यं व्रतमुत्तमम् ॥
शिवयोगस्य यौगेन तद्भवेदुत्तमोत्तमम् ।
शिवरात्रिव्रतं नाम सर्व्वपापप्रणाशनम् ।
आचाण्डालमनुष्याणां भुक्तिमुक्तिप्रदायकम् ॥”
नागरखण्डे ।
“उपवासप्रभावेण बलादपि च जागरात् ।
शिवरात्रेस्तथा तस्य लिङ्गस्यापि प्रपूजया ।
अक्षयान्लभते लोकान् शिवसायुज्यमाप्नुयात् ॥”
पाद्मे ।
“वर्षे वर्षे महादेवि नरो नारी पतिव्रता ।
शिवरात्रौ महादेवं कामं भक्त्या प्रपूजयेत् ॥”
ईश्वानसंहितायाम्
“एवमेव व्रतं कुर्य्यात् प्रति संवत्सरं व्रती ।
द्वादशाब्दिकमेतद्धि चतुर्व्विंशाब्दिकं तथा ।
सर्व्वान् कामानवाप्नोति प्रेत्यचेह च मानवः ॥”
हेमाद्रिधृता स्मृतिः ।
“प्रदोषव्यापिनी ग्राह्या शिवरात्रिचतुर्द्दशी ॥”
प्रदोषमाह वत्सः ।
“प्रदोषोऽस्तमयादूर्द्ध्वं घटिकाद्वयमिष्यते ॥”
ऊर्द्ध्वमनन्तरम् । वायुपुराणे ।
“त्रयोदश्यस्तगे सूर्य्ये चतसृष्वपि नाडिषु ।
भूतविद्धा तु या तत्र शिवरात्रिव्रतञ्चरेत् ॥”
ईशानसंहितायाम् ।
“माघे कृष्णचतुर्द्दश्यामादिदेवो महानिशि ।
शिवलिङ्गतयोद्भूतः कोटिसूर्य्यसमप्रभः ॥
तत्कालव्यापिनी ग्राह्या शिवरात्रिव्रते तिथिः ।
अर्द्धरात्रादधश्चोर्द्ध्वं युक्ता यत्र चतुर्द्दशी ॥
व्याप्ता सा दृश्यते यस्यां तस्यां कुर्य्यात् व्रतं
नरः ॥”
अत्र ।
“महानिशा द्वे घटिके रात्रर्मध्यमयामयोः ॥”
इति देवलोक्ता महानिशा ग्राह्या ॥ घटिका
एकदण्डः । एवञ्च यद्दिने प्रदोषनिशिथो-
भयव्यापिनी चतुर्दशी तद्दिने व्रतं उभय-
व्याप्त्यनुरोधात् । कालमाधवीयेऽप्येवम् । एतेन
परदिने उभयव्यापित्वेऽपि पूर्व्वदिवसीयरात्रि-
द्वितीययामप्रभृतिचतुर्दशीसत्त्वे बहुप्रहरव्या-
पित्वेन पूर्व्वदिन एव व्रतमिति निरस्तम् । यदा
तु पूर्व्वेद्युर्निशीथमात्रव्याप्तिः परेद्युः प्रदोष-
मात्रव्याप्तिस्तदा पूर्व्वेद्युर्व्रतम् । प्रधानकाल-
व्याप्त्यनुरोधात् ।
“पूर्व्वेद्युरपरेद्युर्व्वा महानिशि चतुर्दशी ।
व्याप्ता सा दृश्यते यस्यां तस्यां कुर्य्याद्व्रतं
नरः ॥”
इतीशानसंहितावचनाच्च ॥
एतद्विषय एव भविष्यपुराणम् ।
“अर्द्धरात्रात् पुरस्तात्तु जयायोगो भवेद्यदि ।
पूर्व्वविद्धैव कर्त्तव्या शिवरात्रिः शिवप्रियैः ॥”
विष्णुधर्म्मोत्तरे ।
“जयन्ती शिवरात्रिश्च कार्य्ये भद्रजयान्विते ।
कृत्वोपवासं तिथ्यन्ते तदा कुर्य्याच्च पारणम् ॥”
तिथ्यन्ते पारणं जयन्तीमात्रपरं अत्र चतुर्दश्या-
मेव तत् ।
“ब्रह्माण्डोदरमध्ये तु यानि तीर्थानि सन्ति वै
पूजितानि भवन्तीह भूतायां पारणे कृते ॥”
इति स्कान्दात् ।
“दिनमानप्रमाणेन या तु रात्रौ चतुर्द्दशी ।
शिवरात्रिस्त सा ज्ञेया चतुर्दश्यान्तु पारणम् ॥”
इति गौतमीयाच्च ।
यदा तु पूर्व्वदिने न निशीथव्याप्तिः परदिने
प्रदोषमात्रव्यापिनी तदा परा ग्राह्या । प्रदोष-
व्यापिनीति प्रागुक्तत्वात् तिथेस्त्रिसन्ध्यव्यापि-
त्वाच्च । एतद्विषय एव लिङ्गपुराणम्
“शिवरात्रिन्रते भूतां कामविद्धां विवर्जयेत् ।
एकेनैवोपवासेन ब्रह्महत्यां व्यपोहति ॥”
अत्रामावास्यायामेव पारणम् ।
“शिवा घोरा तथा प्रेता सावित्री च चतु-
र्दशी ।
कुहूयुक्तैव कर्त्तव्या कुह्वामेव हि पारणम् ॥”
इति वचनात् ॥ * ॥
तदयं संक्षेपः । यद्दिने प्रदोषनिशीथोभय-
व्यापिनी चतुर्दशी तद्दिने व्रतम् । यदा तु पूव्व-
द्युर्निशीथव्यापिनी परेद्युः प्रदोषमात्रव्यापिनी
तदा पूर्व्वेद्युर्व्रतम् । यदा तु न पूर्व्वेद्युर्निशीथ-
व्याप्तिः परेद्युः प्रदोष व्यापिनींतदा परदिने ।
पारणन्तु परदिने चतुर्दशीलाभे चतुर्दश्यां तद-
लाभे अमावस्यायाम् । तत्र प्रयोगः ॥ * ॥
प्रातरुदङ्मुखः तत् सदित्युच्चार्य्य सूर्य्यः सोम
इति पठित्वा जलादीन्यादाय सङ्कल्पयेत् ।
“मन्त्रेणानेन गृह्नीयान्नियमं भक्तिमान्नरः ।
शिवरात्रिव्रतं ह्येतत् करिष्येऽहं महाफलम् ।
निर्विघ्नमस्तु मे चात्र त्वत्प्रसादाज्जगत्पते ॥”
इति शिवरहस्यात् शिवरात्रि इत्यादिना-
नियम्य ।
“चतुर्दश्यां निराहारो भूत्वा शम्भो परेऽहनि
भोक्ष्येऽहं भुक्तिमुक्त्यर्थं शरणं मे भवेश्वर ॥”
इति गरुडपुराणीयं पठेत् ।
रात्रौ प्रथमप्रहरे प्रतिष्ठिते लिङ्गे अप्रतिष्ठिते
वा प्रतिष्ठां विधाय पूजां कुर्य्यात् । हौँ अस्त्राय
फडिति पादघातत्रयेण विघ्नान्निःसार्य्य तेनैव
तालत्रयेण करच्छोटिकया च दशदिग्बन्धनं
कृत्वा भूतशुद्धिं विधाय हां हृदयाय नम इत्या-
दिना षडङ्गानि न्यस्य हौँ इति मन्त्रेण प्राणा-
यामं विधाय पूजयेत् । पार्थिवलिङ्गे चेत्तदा
वक्ष्यमाणपूजाविधिना पूजयेत् । तत्रायं विशेषः
हौँ ईशानाय नम इति प्रथमप्रहरे दुग्धेन
स्नापयित्वा पुनर्जलेन स्नापयित्वा ।
“शिवरात्रिव्रतं देव पूजाजपपरायणः ।
करोमि विधिवद्दत्तं गृहाणार्घ्यं महेश्वर ॥”
इत्यनेनार्घ्यं दत्त्वा गन्धादिभिः संपूज्यमूलमन्त्र
जपित्वा प्रणम्य गीतनृत्यादिभिस्तं प्रहरं नयेत् ॥
“तद्ध्यानं तज्जपः स्नानं तत्कथाश्रवणादिकम् ।
उपवासकृतौ ह्येते गुणाः प्रोक्ता मनीषिभिः ॥”
इति देवीपुराणे सामान्यतः श्रवणात् अत्रापि
तथा ॥ * ॥ द्वितीयप्रहरे तु विशेषः । हौँ
अघोराय नम इति दध्ना स्नानम् । अर्घ्यमन्त्रस्तु ॥
“नमः शिवाय शान्ताय सर्व्वपापहराय च ।
शिवरात्रौ ददाम्यर्घ्यं प्रसीद उमयां सह ॥” * ॥
तृतीयप्रहरे तु । हौँ वामदेवाय नम इति
घृतेन स्नानम् । अर्घ्यमन्त्रस्तु ।
“दुःखदारिद्य्नशोकेन दग्धोऽहं पार्व्वतीश्वर ।
शिवरात्रौ ददाम्यर्घ्यमुमाकान्त गृहाण मे ॥ * ॥
चतुर्थप्रहरे तु । हौँ सद्योजाताय नम इति
मधुना स्नानम् । अर्घ्यमन्त्रस्तु ।
“मया कृतान्यनेकानि पापानि हर शङ्कर ।
शिवरात्रौ ददाम्यर्घ्यं उमाकान्त गृहाण मे ॥”
ततो नमः शिवाय इति मूलमन्त्रं जपित्वा
प्रभातेऽविघ्नेन इत्यादिवक्ष्यमानमन्त्रान् पठेत् ॥
तथा च गरुडपुराणम् ।
“मूलमन्त्रं ततो जप्त्वा प्रभाते तत् समापयेत् ।
अविघ्नेन व्रतं देव त्वत्प्रसादात् समर्पितम् ॥
क्षमस्व जगतां नाथ त्रैलोक्याधिपते हर ।
यन्मयाद्य कृतं पुण्यं तद्रुद्रस्य निवेदितम् ॥
पृष्ठ ५/०९६
त्वत्प्रसादान्मया देव व्रतमद्य समर्पितम् ।
प्रसन्नो भव मे श्रीमन् मद्भूतिं प्रतिपद्यताम् ।
त्वदालोकनमात्रेण पवित्रोऽस्मि न संशयः ॥”
परदिने ब्राह्मणान् भोजयित्वा चतुर्दशीलाभे
तत्र तदलाभे अमावस्यायां पारणं कुर्य्यात् ।
तत्र मन्त्रः ।
“संसारक्लेशदग्धस्य व्रतेनानेन शङ्कर ।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव ॥” * ॥
तत्र पार्थिवशिवलिङ्गपूजाविधिः । तत्र शिव-
वाक्यं स्कान्दे ।
“विप्रस्य तु सदैवाहं शुचेरप्यशुचेरपि ।
गृह्वन् वलिं प्रहृष्यामि विप्राणामिव दर्शनात् ॥
वलिं पूजाम् । तथा,
“शूद्रः कर्म्माणि यो नित्यं स्वीयानि कुरुते
प्रिये ।
तस्याहमर्च्चां गृह्वामि चन्द्रखण्डविभूषिते ॥”
तथा,
“नमोऽन्तेन शिवेनैव स्त्रीणां पूजा विधीयते ॥”
एवकारेण प्रणवनिवृत्तिः । एवं शूद्रस्यापि ।
तथा नृसिंहतापनीये । “सावित्रों प्रणवं यजु-
र्लक्ष्मीं स्त्रीशूद्रयोर्नेच्छन्ति । सावित्रीं प्रणवं
यजुर्लक्ष्मीं स्त्री शूद्रो यदि जानीयात् स
मृतोऽधो गच्छति इति ।” नेच्छन्ति पर्य्यन्तं
पराशरभाष्येऽपि लिखितम् । गोविन्दभट्ट-
धृतम् ।
“स्वाहाप्रणवसंयुक्तं शूद्रे मन्त्रं ददद्द्विजः ।
शूद्रो निरयमाप्नोति ब्राह्मणः शूद्रतामियात् ॥”
गौतमः ।
“रात्रावुदङ्मुखः कुर्य्यात् दैवकार्य्यं सदैव हि ।
शिवार्च्चनं सदाप्येवं शुचिः कुर्य्यादुदङ्मुखः ॥”
सदा दिवारात्रौ । अत्र हेतुमाह रुद्रयामले ।
“न प्राचीमग्रतः शम्भोर्नोदीचीं शक्ति-
संस्थिताम् ।
न प्रतीचीं यतः पृष्ठमतो दक्षं समाश्रयेत् ॥”
यजमानः शम्भोः प्राचीमवस्थितये न समा-
श्रयेत् शम्भोर्जगत्संहारकस्याग्रतः सांमुख्यात्
पञ्चवक्त्रपक्षे प्रधानं वक्त्रं प्राच्यवस्थितम् ॥
एकवक्त्रपक्षे सुतरां तथा । तद्रूपमाह भविष्य-
पुराणम् ।
“सौम्यं मौलीन्दुभृत् त्र्यक्षं एकवक्त्रं चतुर्भुजम्
शिवरूपं गृहे कुर्य्यात् प्रासादे वाप्यनिन्दितम् ॥
अत्राग्रे पुजानिषेधात् देवाग्रे स्वस्य चाप्यग्रे
प्राची प्रोक्ता गुरुक्रमैः । इत्यस्य न विषयः ।
किन्त्वभिधानादिप्रसिद्धा प्राची ग्राह्या । एत-
दनुसाराद्वक्ष्यमाणपूर्व्वाद्याग्नेय्यन्तपूजा । अत-
एव तन्त्रान्तरम् ।
“यत्रैव भानुस्तु वियत्युदेति
प्राचीति तां वेदविदो वदन्ति ।
तथा पुरः पूजकपूज्ययोश्च
सदागमज्ञाः प्रवदन्ति तान्तु ॥”
एवञ्च देवतान्तरपूजा पूर्व्वाह्वे प्राङ्मुखेन सायं
पपिमाभिमुखेन रात्राबुदङ्मुखेन कार्य्या ।
“प्राक्पश्चिमोदगास्यस्तु प्रातः सायं निशासु
च ॥”
इति वचनात् ॥
इति वाचस्पतिमिश्राः । मैवं पूजा रत्नाकरोक्त-
भविष्यपुराणीयसप्ताक्षरसूर्य्यमन्त्रप्रस्ताव एव
प्रागादिदिङ्नियमाभिधानात् । व्यवहारोऽपि
अत्र न तथेति ॥ * ॥ लिङ्गपुराणे ।
“विना भस्मत्रिपुण्ड्रेण विना रुद्राक्षमालया ।
पूजितोऽपि महादेवो न स्यात्तस्य फलप्रदः ।
तस्मान्मृदापि कर्त्तव्यं ललाटेऽपि त्रिपुण्ड्रकम् ॥
नन्दिपुराणे ।
“आयुष्मान् बलवान् श्रीमान् पुत्त्रवान् धन-
वान् सुखी ।
वरमिष्टं लभेल्लिङ्गं पार्थिवं यः समार्च्चयेत् ।
तस्मात्तु पार्थिवं लिङ्गं ज्ञेयं सर्वार्थसाधकम् ॥”
भविष्ये ।
“मृद्भस्मगोशकृत्पिण्डं ताम्रकांस्यमयं तथा ।
कृत्वा लिङ्गं सकृत् पूज्य वसेत् कल्पायुतं दिवि ॥
वार्क्षं वित्तप्रदं लिङ्गं स्फाटिकं सर्वकामदम् ।
नर्म्मदागिरिजं श्रेष्ठमन्यदपि हि लिङ्गवत् ॥”
लिङ्गवत् लिङ्गाकारम् । कालकौमुद्याम् ।
“अक्षादल्पपरीमाणं न लिङ्गं कुत्रचिन्नरः ।
कुर्व्वीताङ्गुष्ठतो ह्रस्वं न कदाचित् समाचरेत् ॥
अक्षोऽशीतिरक्तिका । अङ्गुष्ठतः बृहत्पर्व्व-
ग्रन्थितः ।
“अङ्गुष्ठाङ्गुलिमानन्तु यत्र यत्रोपदिश्यते ।
तत्र तत्र बृहत्पर्व्वग्रन्थिभिर्मिनुयात् सदा ॥”
इति छन्दोगपरिशिष्टात् ॥
शिवधर्म्मे ।
“सहस्रमर्च्चयेल्लिङ्गं निरयं स न गच्छति ।
रुद्र्लोकमवाप्नोति भुक्त्वा भोगाननुत्तमान् ॥”
तथा ।
“वालुकानि च लिङ्गानि सहस्राणि च कारयेत्
सहस्रमर्च्चनात् सोऽपि लभते वाञ्छितं फलम् ॥”
ततश्चामुकतिथावारभ्यामुकलाभकामः सहस्र-
मितपार्थिवशिवलिङ्गपूजनमिति यथास्थाने
वाक्ये देयम् ॥ * ॥ ब्रह्मपुराणे ।
“यावन्न दीयते चार्घ्यं भास्कराय निवेदितम् ।
तावन्न पूजयेद्विष्णुं शङ्करं वा महेश्वरीम् ॥”
राघवभट्टधृतम् ।
“सर्व्वत्रैव प्रशस्तोऽब्जः शिवसूर्य्यार्च्चनं विना ॥”
अब्जः शङ्खः । अग्निपुराणे ।
“तल्लिङ्गैः पूजयेन्मन्त्रैः सर्व्वदेवान् पृथक् पृथक् ।
ध्यात्वा प्रणवपूर्वन्तु तन्नाम्ना सुसमाहितः ।
नमस्कारेण मन्त्रेण पुष्पाणि विन्यसेत् पृथक् ॥”
देवीपुराणे ।
“मृदाहरणसंघट्टप्रतिष्ठाह्वानमेव च ।
स्नपनं पूजनञ्चैव विसर्ज्जनमतः परम् ॥
हरो महेश्वरश्चैव शूलपाणिः पिनाकधृक् ।
पशुपतिः शिवश्चैव महादेव इति क्रमात् ॥”
अत्र पूर्व्वोक्तसप्तकर्म्माणि परवचनोक्तसप्त-
नामभिः क्रियानुरूपविभक्तिमद्भिर्यथायथं
कार्य्याणि । अदृष्टार्थयोरर्थक्रमासम्भवेन पांठ-
क्रमादेव आवाहनात् प्राक् प्रतिष्ठा श्राद्ध
कुशासनदानवत् ॥ * ॥ तत्रानुष्ठानम् । हराय
नम इति मृदाहरणम् । महेश्वराय नम इति
संघट्टनम् । शूलपाणे इह सुप्रतिष्ठितो भव इति
प्रतिष्ठा । ध्यायेन्नित्यमित्यादिना ध्यात्वा पिनाक
घृक् इहागच्छ इत्याद्यावाहनम् । पशुपतये नम
इति स्नपनम् । एतत् पाद्यं नमः शिवाय नम
एवमर्घ्यादिना पूजयेत् । विसर्ज्जनात् पूर्व्वं
भविष्यपुराणोक्तं स्वभावसिद्धप्राच्यैशान्यादि-
दिक्षु वामावर्त्तेन पूजनम् । यथा । सर्वाय
क्षितिमूर्त्तये नमः । भवाय जलमूर्त्तये नमः ।
रुद्राय अग्निमूर्त्तये नमः । उग्राय वायुमूर्त्तये
नमः । भीमाय आकाशमूर्त्तये नमः । पशुपतये
यजमानमूर्त्तये नमः । महादेवाय सोममूर्त्तये
नमः । ईशानाय सूर्य्यमूर्त्तये नमः ।
“मूर्त्तयोऽष्ठौ शिवस्यैताः पूर्वादिक्रमयोगतः ।
आग्ने य्यन्ताः प्रपूज्यास्ता वेद्यां लिङ्गे शिवं
यजेत् ॥”
ततो महादेव क्षमस्व इति संहारमुद्रया विस-
र्ज्जयेत् ॥ * ॥ नन्दिपुराणे ।
“गोभूतिलहिरण्यादिवलिपुष्पनिवेदने ।
ज्ञेयो नमः शिवायेति मन्त्रः सर्व्वार्थसाघकः ॥
सर्व्वमन्त्राधिकश्चायमोङ्काराद्यः षडक्षरः ।
तन्मन्त्रजापी तत्कर्म्मरतस्तद्गतमानसः ।
निष्कामः पुरुषो राजन् स रुद्रपदमश्नुते ॥”
भविष्ये पञ्चाक्षरमुपक्रम्य ।
“अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपिवा ।
महापातकयुक्तो वा मन्त्रस्यास्य जपे यथा ।
अधिकारी भवेत् सर्व्व इति देवोऽब्रवीच्छिवः ॥”
इति तथेत्यर्थः ॥ पूर्व्वोक्तयथापदानुरोधात् ।
तेन यथाधिकारी भवेत्तथाब्रवीदित्यर्थः । तथा,
“सर्व्वेषामेव पात्राणां परं पात्रं महेश्वरः ।
पतन्तं त्रायते यस्मादतीव नरकार्णवात् ॥
शिवमुद्दिश्य यद्दत्तं सर्व्व कारणकारणम् ।
तदनन्तफलं दातुर्भवतीह किमद्भुतम् ॥
दत्त्वा नैवेद्यवस्त्रादि नाददीत कदाचन ।
त्यक्तव्यं शिवमुद्दिश्य तदादाने न तत्फलम् ॥”
आदाने ग्रहणे । शिवधर्मे ।
“तस्मात् पुष्पैः फलैः पत्रैस्तोयैरपि च यत्फलम्
तदनन्तफलं ज्ञेयं भक्तिरेवात्र कारणम् ॥”
भविष्ये ।
“लिङ्गानुलेपनं कार्य्यं दिव्यगन्धैः सुगन्धिभिः ।
वर्षकोटिशतं दिव्यं शिवलोके महीयते ॥”
शिवधर्म्मे ।
“तस्मात् पुष्पप्रदानेन लिङ्गेषु प्रतिमासु च ।
अशीतिवर्षकोटीनां दुर्गतिं न नरो व्रजेत् ॥”
स्कान्दे ।
“शुष्काण्यपि च पत्राणि श्रीवृक्षस्य सदैव हि ॥”
दातव्यानीति शेषः । भविष्ये ।
“धुस्तूरकैश्च यो लिङ्गं सकृत् पूजयते नरः ।
स गोलक्षफलं प्राप्य शिवलोके महीयते ॥
पृष्ठ ५/०९७
विल्वपत्रैरखण्डैश्च यो लिङ्गं पूजयेत् सकृत् ।
सर्व्वपापैर्विनिर्मुक्तः शिवलोके महीयते ॥”
तथा ।
“सर्व्वकामप्रदं विल्वं दारिद्रस्य प्रणाशनम् ।
विल्वपत्रात् परं नास्ति येन तुष्यति शङ्करः ॥”
तथा ।
“केशकीटापबिद्धानि निशि पर्य्युषितानि च ।
स्वयं पतितपुष्पाणि त्यजेदुपहतानि च ॥”
तथा ।
“देवदारुममेतञ्च सर्ज्जश्रीवासकुन्दुरुम् ।
श्रीफलं चाज्यमिश्रन्तु दत्त्वाप्नोति परां गतिम्”
सर्ज्जः शालरसः । श्रीवासः सरलद्रवः । कुन्दुरुः
शैलेयम् ।
“एभ्यः सौगन्धिकं धूपं षट्सहस्रगुणोत्तरम् ।
अगुरुं शतसाहस्रं द्विगुणञ्चासितागुरुम् ।
गुग्गुलुं घृतसंयुक्तं साक्षात् गृह्वाति शङ्करः ॥”
तथा ।
“तैलेनापि हि यो दद्यात् घृताभावेन मानवः ।
तेन दीपप्रदानेन शिववद्राजते भुवि ॥”
नन्दिकेश्वरे ।
“अथ भक्त्या शिवं पूज्य नैवेद्यमुपकल्पयेत् ।
यद्यदेवात्मनः श्रेयस्तत्तदीशाय कल्पयेत् ॥”
शालितण्डुलप्रस्थस्य कुर्य्यादन्नं सुसंस्कृतम् ।
शिवाय तं चरुं दद्यात् चतुर्दश्यां विशेषतः ॥”
प्रस्थमानं प्रागुक्तम् । शिवसर्व्वस्वे स्कान्दम् ।
एकमाम्रफलं पक्वं यः शम्भोर्विनिवेदयेत् ।
वर्षाणामयुतं भोगैः क्रीडते स शिवे पुरे ॥
एकं मोचाफलं पक्वं यः शिवाय निवेदयेत् ।
वर्षलक्षं तथाभोगैः शिवलोके महीयते ॥”
शिवपुराणे ।
“नैवेद्यं घृतसंयुक्तं मधुपर्कं निवेदयेत् ।
अग्निष्टोमस्य यज्ञस्य फलमाप्नोति मानवः ॥”
शिवसर्व्वस्वे स्कान्दम् ।
“परिपक्वं सुसंमृष्टमाज्यसिक्तं सुसंस्कृतम् ।
शिवाय मांसं दत्त्वा तुंशृणु यत् फलमाप्नुयात् ॥
अशेषफलदानेन यत् फलं परिकीर्त्तितम् ।
तत् फलं प्राप्नु यान्नित्यं सर्व्वं मांसनिवेदनात् ॥”
शिवधर्म्मे ।
“लिङ्गवेदी भवेद्देवी लिङ्गं साक्षात् महेश्वरः ।
तयोः संपूजनात् स्यातां देवी देवश्च पूजितौ ॥”
देवीपुराणे ।
“सव्यं व्रजेत्ततोऽसव्यं प्रणालं नैव लङ्घयेत् ।
एकीभूतमना रुद्रे यः कुर्य्यात् त्रिः प्रदक्षिणम् ॥
छिन्नस्तेन भवग्रन्थिर्न तस्य पुनरुद्भवः ॥”
भविष्ये ।
“जानुभ्यां चैव पाणिभ्यां शिरसा च विचक्षणः ।
कृत्वा प्रणामं देवेशे सर्व्वान् कामानवाप्नुयात् ॥”
लिङ्गपुराणे ।
“गन्धपुष्पनमस्कारैर्मुखवाद्यैश्च सर्व्वशः ।
यो मामर्च्चयते तत्र तदा तुष्याम्यहं सदा ॥”
महाभारते ।
“सर्व्वलक्षणहीनोऽपि युक्तो वा सर्व्वपातकैः ।
सर्व्वं तरति तत् पापं भावयन् शिवमात्मना ।
राघवभट्टधृतम् ।
“अधोमुखे वामहस्ते ऊर्द्ध्वास्यं दक्षहस्तकम् ।
क्षिप्त्वाङ्गुलीरङ्गुलीभिः संगृह्य परिवर्त्तयेत् ।
प्रोक्ता संहारमुद्रेयमर्पणे तु प्रशस्यते ॥”
अर्पणे आत्मनीति शेषः । स्कान्दे ।
“निर्म्माल्यं यो हि मद्भक्त्या शिरसा धारयि-
ष्यति ।
अशुचिर्भिन्नमर्य्यादो नरः पापसमन्वितः ॥
नरके पच्यते घोरे तिर्य्यग्योनौ च जायते ।
ब्रह्महापि शुचिर्भूत्वा निर्म्माल्यं यस्तु धारयेत्
तस्य पापं महच्छीघ्रं नाशयिष्ये महाव्रते ॥”
शुचिः स्नानादिनेति शेषः । एवञ्च ।
“स्पृष्ट्वा रुद्रस्य निर्म्माल्यं सवासा आप्लुतः
शुचिः ॥”
इति कालिकापुराणीयमशुचिविषयम् ॥
अनुपनीतविषयमिति श्रीदत्तः । बह्वृचगृह्य-
परिशिष्टम् ।
“अग्राह्यं शिवनैवेद्यं पत्रं पुष्पं फलं जलम् ।
शालग्रामशिलास्पर्शात् सर्व्वं याति पवित्रताम् ॥
कालिकापुराणे ।
“यो यद्देवार्च्चनरतः स तन्नैवेद्यभक्षकः ।
केवलं सौरशैवे तु वैष्णवो नैव भक्षयेत् ॥”
इति तिथ्यादितत्त्वम् ॥ * ॥
अन्यच्च ।
ब्रह्मोवाच ।
“शिवरात्रिव्रतं वक्ष्ये कथाञ्च सर्व्वकामदाम् ।
यथा च गौरी भूतेशं पृच्छति स्म परं व्रतम् ॥
श्रीमहादेव उवाच ।
माघफाल्गुनयोर्म्मध्ये या च कृष्णा चतुर्दशी ।
तस्यां जागरणाद्रुद्रः पूजितो भुक्तिमुक्तिदः ॥
कामयुक्तो हरः पूज्यो द्वादश्यामेव केशवः ।
उपोषितैः पूजितः सन्नरकात्तारयेत्तथा ॥
निषादश्चार्व्वुदे राजा पापी सुन्दरसेनकः ।
स कुक्कुरैकसंयुक्तो मृगान् हन्तुं वनं गतः ॥
मृगादिकमसंप्राप्य क्षुत्पिपामार्दितो गिरौ ।
रात्रौ तडागतीरे स निकुञ्जे जाग्रदास्थितः ॥
तत्रास्ति लिङ्गं स्वं रक्षञ्छरीरं चाक्षिपत्ततः ।
पर्णानि चापतन्मूर्द्ध्नि लिङ्गस्यैवं न जानतः ॥
तेन धूलिनिरोधाय क्षिप्तं नीरञ्च लिङ्गके ।
शरः प्रमादेनैकस्तु प्रच्युतः करपल्लवात् ॥
जानुभ्यामवनीं गत्वा लिङ्गं स्पृष्ट्वा गृहीतवान्
एवं स्नानं स्पर्शनञ्च पूजनं जागरोऽभवत् ॥
प्रातर्गृहागतो भार्य्यादत्तान्नं भुक्तवान् स च ।
काले मृतो यमभटैः पाशैर्बद्ध्वा तु नीयते ॥
तदा मम गणैर्युद्धे जित्वा मुक्तीकृतः स च ।
कुक्कुरेण सहैवाभूद्गणो मत्पार्श्वगोऽमलः ॥
एवमज्ञानतः पुण्यं ज्ञानात् पुण्यमथाक्षयम् ।
त्रयोदश्यां शिवं पूज्य कुर्य्यात्तन्नियमं व्रती ॥
प्रातर्देव चतुर्द्दश्यां जागरिष्याम्यहं निशि ।
पूजां दानं जपं होमं करिष्याम्यात्मशक्तितः ॥
चतुर्द्दश्यां निराहारो भूत्वा शम्भो परेऽहनि ।
भोक्ष्येऽहं भुक्तिमुक्त्यर्थं शरणं मे भवेश्वर ॥
पञ्चगव्यामृतैः स्नात्वा अन्तकाले गुरुं श्रितः ।
ॐ नमो नमः शिवाय गन्धाद्यैः पूजयेद्धरम् ॥
तिलतण्डुलव्रीहींश्च जुहुयात् स्वशृतं चरुम् ।
हुत्वा पूर्णाहुतिं दद्यात् शृणुयाद्गीतसत्कथाम् ॥
अर्द्धरात्रे त्रियामे च चतुर्थे च पुनर्यजेत् ।
मूलमन्त्रं तथा जप्त्वा प्रभाते च क्षमापयेत् ॥
अविघ्नेन व्रतं देव त्वत्प्रसादात् समर्पितम् ।
क्षमस्व जगतां नाथ त्रैलोक्याधिपते शिव ॥
यन्मयाद्य कृतं पुण्यं तच्छिवस्य निवेदितम् ।
त्वत्प्रसादान्मया देव व्रतमद्य समर्पितम् ॥
प्रसन्नो भव मे श्रीमन् मद्गृहं प्रतिगम्यताम् ।
तदालोकनमात्रेण पवित्रोऽस्मि न संशयः ।
भोजयेद्ध्याननिष्ठांश्च वस्त्रच्छत्रादिकं ददेत् ॥
देवादिदेव भूतेश लोकानुग्रहकारक ।
यन्मया श्रद्धया दत्तं प्रीयतां तेन मे प्रभुः ॥
इति क्षमाप्य च यतीन् कुर्य्यात् द्वादशवार्षिकम्
कीर्त्तिश्रीपुत्त्रराज्यादि प्राप्य शैवं पुरं व्रजेत् ॥
द्वादशस्वपि मासेषु प्रकुर्य्यादिह जागरम् ।
यतीन् द्वादश संपूज्य दीपदः स्वर्गमाप्नुयात् ॥”
इति गारुडे शिवरात्रिव्रतकथा १२४ अध्यायः ॥

शिवलिङ्गं, क्ली, (शिवस्य लिङ्गम् ।) महादेवस्य

शेफः । तस्योत्पत्तिर्यथा, --
“तत्रापि गत्वा मदनो ददर्श वृषकेतनम् ।
दृष्ट्वा प्रहर्त्तुकामोऽस्य ततः स प्राद्रवद्धरः ॥
ततो दारुवनं घोरं मदनाभिसृतो हरः ।
विवेश ऋषयो यत्र सपत्नीका व्यवस्थिताः ॥
ते चापि ऋषयः सर्व्वे दृष्ट्वा मूर्ध्ना नताभवन् ।
ततस्तान् प्राह भगवान् भिक्षां मे प्रतिदीयताम्
ततस्ते मौनिनस्तस्थुः सर्व्व एव महर्षयः ।
तदाश्रमाणि पुण्यानि परिचक्राम नारद ! ॥
तं प्रविष्टं तदा दृष्ट्वा भार्गवात्रेययोषितः ।
प्रक्षोभमगमन् सर्व्वा हीनसत्त्वाः समन्ततः ॥
ऋते त्वरुन्धतीमेनामनसूयाञ्च भाविनीम् ।
एताभ्यां भर्त्तृपूजासु कृतं वै सुस्थिरं मनः ॥
ततः संक्षुभिताः सर्व्वा यत्र याति महेश्वरः ।
तत्र प्रयान्ति कामार्त्ता मदविह्वलितेन्द्रियाः ॥
त्यक्त्वाश्रमाणि शून्यानि खानि ता मुनियोषितः ।
अनुजग्मुर्यथा मत्तं करिण्य इव कुञ्जरम् ॥
ततस्तु ऋषयो दृष्ट्वा भार्गवाङ्गिरसो मुने ।
क्रोधान्विताब्रुवन् सर्व्वे लिङ्गोऽस्य पततां भुवि
ततः पपात देवस्य लिङ्गं पृथ्वीं विदारयत् ।
अन्तर्द्धानं जगामाथ त्रिशूली नीललोहितः ॥
ततस्तत्पतितं लिङ्गं विभिद्य वसुधातलम् ।
रसातलं विवेशाशु ब्रह्माण्डं चोर्द्ध्वतोऽभिनत् ॥
ततश्चचाल पृथिवी गिरयः सरितो नगाः ।
पातालभुवनाः सर्व्वे जङ्गमाजङ्गमाः स्थिताः ॥
संक्षुब्धान् भुवनान् दृष्ट्वा भूर्लोकादीन् पितामहः ।
जगाम माधवं द्रष्टुं क्षीरोदं नाम सागरम् ॥
तत्र दृष्ट्वा हृषीकेशं प्रणिपत्य च भक्तितः ।
उवाच देव भुवनाः किमर्थं क्षुभिता विभो ॥
पृष्ठ ५/०९८
अथोवाच हरिर्ब्रह्मन् शार्व्वं लिङ्ग महर्षिभिः ।
पातितन्तस्य भारार्त्ता सञ्चचाल वसुन्धरा ॥
ततस्तदद्भुतमयं श्रुत्वा देवः पितामहः ।
तत्र गच्छामि देवेश एवमाह पुनः पुनः ॥
ततः पितामहो देवः केशवश्च जगत्पतिः ।
आजगाम तमुद्देशं यत्र लिङ्गं भवस्य तत् ॥
ततोऽनन्तं हरिर्लिङ्गं दृष्ट्वारुह्य खगेश्वरम् ।
पातालं प्रविवेशाथ विस्मयात्त्वरितो विभुः ॥
ब्रह्मा पद्मविमानेन ऊर्द्ध्वमाक्रम्य सर्व्वगः ।
नैवान्तमलभद्ब्रह्मा विस्मितः पुनरागतः ॥
विष्णुर्गत्वाथ पातालं सप्तलोकपरायणः ।
चक्रपाणिर्विनिष्क्रान्तो लेभेऽन्तं न महामुने ॥
विष्णुं पितामहश्चाह हरिर्ब्रह्माणमाह च ।
नमोऽस्तु ते शूलपाणे नमोऽस्तु वृषभध्वज ।
जीमूतवाहन कवे सर्व्वत्र्यम्बक शङ्कर ॥
महेश्वर हरेशान सुवर्णाक्ष वृषाकपे ।
दक्षयज्ञक्षयकर काल रुद्र नमोऽस्तु ते ॥
त्वमादिरस्य जगतस्त्वं मध्यं परमेश्वरः ।
भवानन्तश्च भगवान् सर्व्वगस्त्वं नमोऽस्तु ते ॥
पुलस्त्य उवाच ।
एवं संस्तूयमानस्तु तस्मिन् दारुवने हरः ।
सुरूपी ताविदं वाक्यमुवाच वदतां वरः ॥
हर उवाच ।
किमर्थं देवतानाथौ परिभूतक्रमन्त्विह ।
मां स्तुवाते भृशासुस्थं कामतापितविग्रहम् ॥
देवावूचतुः ।
तवाङ्गपातितं लिङ्गं यदेतद्भुवि शङ्कर ।
एतत् प्रगृह्यतां भूयस्ततो देव वदावहे ॥
हर उवाच ।
यद्यर्च्चयन्ति त्रिदशा मम लिङ्गं सुरोत्तमौ ।
तदेतत् प्रतिगृह्णीयात् नान्यथेति कथञ्चन ॥
ततः प्रोवाच भगवानेवमस्त्विति केशवः ॥
ब्रह्मा स्वयञ्च जग्राह लिङ्गं कनकपिङ्गलम् ।
ततश्चकार भगवांञ्चातुर्वर्ण्यं हरार्च्चने ॥
शास्त्राणि चैषां मुख्यानि नानोक्तिविदि-
तानि च ।
आद्यं शैवं परिख्यातमन्यत् पाशुपतं मुने ॥
तृतीयं कालवदनं चतुर्थञ्च कपालिनम् ।
शैव आसीत् स्वयं शक्त्रिर्वशिष्ठस्य प्रियः सुतः ॥
तस्य शिष्यो बभूवाथ गोपायन इति श्रुतः ।
महापाशुपतस्त्वासीद्भारद्वाजस्तपोधनः ॥
तस्य शिष्योऽप्यभूद्राजा ऋषभः सोमकेश्वरः ।
कालास्यो भगवानासीदापस्तम्बस्तपोधनः ॥
तस्य शिष्यो वको वैश्यो नाम्ना क्राथेश्वरो
मुने ।
महाव्रती च धनदस्तस्य शिष्यश्च वीर्य्यवान् ॥
कुन्दोदर इति ख्यातो जात्या शूद्रो महातपाः
एवं स भगवान् ब्रह्मा पूजनाय शिवस्य च ॥
कृत्वा तु चातुराश्रम्यं स्वमेव भवनं गतः ।
गते ब्रह्मणि सर्व्वोऽपि तपः संहृत्य तं तदा ॥
लिङ्गं चित्रवने सूक्ष्मं प्रतिष्ठाप्य चचार ह ॥”
इति वामनपुराणे ६ अध्यायः ॥ * ॥
अपिच ।
“ततः सृष्टिं चिन्तयतो ब्रह्मणो मोहितस्य च ।
बालिखिल्याः समुत्पन्नास्तपस्तप्तं समारभन् ॥
दिव्यं वर्षसहस्रं वै तेपुस्ते दुश्चरं तपः ।
ततः कालेन महता पार्व्वती च पतिव्रता ॥
तेषां तपः समालोक्य चाति देवी सुदुःखिता ।
प्रसाद्य देवदेवेशं शङ्करं प्राह सुव्रता ॥
क्लिश्यन्ति बालिखिल्याश्च प्रसादार्थं तव प्रभो ।
एतेभ्योऽपि प्रियं देव विधिवत् कुरु सेवया ॥
तच्छ्रुत्वा वचनं देव्याः पिनाकी परचिन्तकः ।
प्रोवाच कान्ते कालञ्च वचनं प्रियया सह ॥
न वेत्सि देवि तत्त्वेन धर्म्मस्य गहना गतिः ।
नैते धर्म्मं विजानन्ति यथार्थं धर्म्मचारिणः ॥
न दास्यामि वरं तेभ्यो यस्मात्ते मूढबुद्धयः ।
एतत् श्रुत्वाब्रवीत् देवी मा मैवं शंसितव्रताः ॥
ततो रुद्र उवाचेदं देवी देवः स्मिताननः ।
तिष्ठ त्वमत्र यास्यामि यत्रैते मुनिसत्तमाः ॥
इत्युक्ता तु ततो देवी शङ्करेण महात्मना ।
गच्छस्वे त्याह मुदिता भर्त्तारं भुवनेश्वरी ॥
यत्र ते मुनयः सर्व्वे काष्ठलोष्टसमाश्रिताः ।
तान् विलोक्य ततो देवो नग्नः सर्व्वाङ्गसुन्दरः ॥
वनमालाकृतापीडो युवा भिक्षाकपालभृत् ।
आश्रमे पर्य्यटन् भिक्षां मुनीनां नियतात्मनाम् ॥
देहि भिक्षां ततश्चोक्त्वा स भ्रमन्नाश्रमं ययौ ।
तं विलोक्याश्रमगतं योषितो ब्रह्मवादिनाम् ॥
सकौतुकस्वभावेन तस्य रूपेण मोहिताः ।
प्रोचुः परस्परं कार्य्यमस्ति पश्याम भिक्षुकम् ॥
परस्परमितीवोक्त्वा गृह्य मूलफलं बहु ।
गृहाण भिक्षामूचुस्तास्तं देवं मुनियोषितः ॥
तस्मै दत्त्वैव तां भिक्षां पप्रच्छुस्ताः स्मरातुराः
नार्य्य ऊचुः ।
कौऽसौ नाम व्रतविधिस्तया तापस सेव्यते ।
यत्र नग्नेन लिङ्गेन वनमालाविभूषितः ॥
भवान् वै तापसो हृद्यो हृद्याः स्मो यदि
मन्यसे ।
इत्युक्तस्तापसस्ताभिः प्रोवाच हसिताननः ॥
इदं मम व्रतं किञ्चिन्न रहस्यं प्रकाशते ।
शृण्वन्ति बहवो यत्र तत्र तत्र न विद्यते ॥
तस्य व्रतस्य सुभगा इति मत्वा भविष्यथ ।
एवमुक्तास्तदा तेन ताः प्रत्यूचुस्तदा मुनिम् ॥
ततोऽभ्येत्य गमिष्यामो मुने नः कौतुकं महत्
इत्युक्त्वा तास्तदातीव जगृहुः पाणिपल्लवैः ॥
काचिच्चकर्ष बाहुभ्यां काचित् कामपरा तथा
जानुभ्यामपरा नाभ्यां कचेषु ललनापरा ॥
अपरा तु कटीबन्धे चापरा पादयोरपि !
क्षोभं विलोक्य मुनय आश्रमेषु स्वयोषिताम् ॥
हन्यतामिति संभाष्य काष्ठपाषाणपाणयः ।
पातयन्ति च देवस्य लिङ्गमुद्बुध्य भीषणम् ॥
पातिते तु ततो लिङ्गे गतोऽन्तर्द्धानमीश्वरः ।
देव्या स भगवान् रुद्रः कैलासं नगमाश्रितः ॥
पतिते देवदेवस्य लिङ्गे नष्टे चराचरे ।
क्षोभो बभूव सुमहानृषीणां भावितात्मनाम् ॥
उवाचैको मुनिवरस्तत्र बुद्धिमतां वरः ।
विरिञ्चिं शरणं यामः स हि ज्ञास्यति चेष्टि-
तम् ॥
एवमुक्त्वा सर्व्व एव ऋषयो लज्जिता भृशम् ।
ब्रह्मणः सदनं जग्मुर्देवैः सह निषेवितम् ॥
ऋषय ऊचुः ।
अज्ञानाच्च कृतं ब्रह्मन्नस्माभिर्ज्ञानदुर्ब्बलैः ।
तस्योपशमने यत्नं कुरु सर्व्वोपकारक ॥
ब्रह्मोवाच ।
गच्छामः शरणं देवं शूलपाणिं त्रिलोचनम् ।
प्रसादाद्देवदेवस्य भविष्यथ यथा पुरा ॥
इत्युक्त्वा ब्रह्मणा सार्द्धं कैलासं गिरिमुत्तमम् ।
ददृशुस्ते समासीनमुमया सहितं हरम् ॥
ततः स्तोतुं समारब्धो ब्रह्मा लोकपितामहः ।
अनन्ताय नमस्तुभ्यं वरदाय पिनाकिने ॥
एवं स्तुतो महादेवो ब्रह्मणा ऋषिभिस्तथा ।
उवाच मां मा व्रजतु लिङ्गं भोः पुरतः पुनः ॥
क्रियतां मद्वचः शीघ्रं येन मे प्रीतिरुत्तमा ।
भविष्यति प्रकृष्टा या लिङ्गस्यात्र न संशयः ॥
ये लिङ्गं पूजयिष्वन्ति मम भक्तिसमाश्रिताः ।
न तेषां दुर्लभं किञ्चित् भविष्यति हितं
फलम् ॥”
इति वामने ४२ अध्यायः ॥ * ॥
कुरुक्षेत्रस्थितानि लिङ्गानि यथा, --
सनत्कुमार उवाच ।
“वटस्य दक्षिणे भागे चक्रतीर्थं प्रकीर्त्तितम् ।
स्थाणोर्वटस्य पूर्व्वेण मम तीर्थं प्रकीर्त्तितम् ॥
स्थाणोर्वटस्योत्तरतस्तीर्थं गाणेश्वरं मतम् ।
स्थाणोटर्वस्य पश्चिमतः स्कन्दतीर्थं प्रकीर्त्तितम् ॥
इमानि पुण्यतीर्थानि मध्ये रुद्रवटः स्थितः ।
महादेवं समभ्यर्च्च्य प्राप्नोति परमं पदम् ॥
वटस्य चोत्तरे पार्श्वे तक्षकेण महात्मना ।
प्रतिष्ठितं महालिङ्गं सर्व्वकामप्रदायकम् ॥
वटस्य पूर्व्वदिग्भागे विश्वकर्म्मकृतं महत् ।
लिङ्गं प्रत्यङ्मुखं दृष्ट्वा सिद्धिमाप्नोति मानवः ॥
तत्रैव लिङ्गरूपेण संस्थिता या सरस्वती ।
तां प्रणम्य प्रयत्नेन बुद्धिं मेधाञ्च विन्दति ॥
वटपार्श्वस्थितं लिङ्गं ब्रह्मणा तत् प्रतिष्ठितम् ।
दृष्ट्वा वटेश्वरं देवं प्रयाति परमं पदम् ॥
ततः स्थाणुवटं दृष्ट्वा कृत्वा चापि प्रदक्षिणम् ।
प्रदक्षिणीकृता तेन सप्त द्वीपा वसुन्धरा ॥
स्थाणोः पश्चिमदिग्भागे नकुलीशो गणः
स्मृतः ।
तमभ्यर्च्च्य प्रयत्नेन सर्व्वपापैः प्रमुच्यते ॥
तस्य दक्षिणदिग्भागे तीर्थं रुद्राकरं स्मृतम् ।
तस्मिन् स्नातः सर्व्वतीर्थस्नातो भवति मानवः ॥
तस्य चोत्तरदिग्भागे रावणेन महात्मना ।
प्रतिष्ठितं महालिङ्गं गोकर्णं नाम नामतः ॥
आषाढमासे या कृष्णा भविष्यति चतुर्दशी ।
तस्यां पश्यति गोकर्णं तस्य पुण्यफलं शृणु ॥
कामतोऽकामतो वापि यत् पापं तेन सञ्चि-
तम् ।
पृष्ठ ५/०९९
तस्माद्विमुच्यते पापात् पूजयित्वा हरं शुचिः ॥
कौमारब्रह्मचर्य्येण यत् पुण्यं प्राप्यते नरैः ।
तत् पुण्यं सकलं तेषामष्टम्यां योऽर्च्चयेच्छिवम्
यदिच्छेत् परमं रूपं सौभाग्यं धनसम्पदम् ।
कुमारेश्वरमाहात्म्यात् सिध्यते नात्र संशयः ॥
तस्य चोत्तरदिग्भागे लिङ्गपूजां विभीषणः ।
अजरश्चामरश्चैव कल्पयित्वा बभूव ह ॥
आषाढस्य तु मासस्य शुक्ला या चाष्टमी
भवेत् ।
तस्याम्पूज्य सोपवासश्चामृतत्वमवाप्नुयात् ॥
पूर्व्वैश्च पूजितं लिङ्गं तस्मिन् स्थाने द्विजोत्तम ।
पूजयित्वा प्रयत्नेन सर्वकाममवाप्नुयात् ॥
दूषणस्त्रिशिराश्चैव तत्र पूज्य महेश्वरम् ।
यथाभिलषितान् कामानवापतुर्मुदान्वितौ ॥
चैत्रे मासि सिते पक्षे यो नरस्तत्र पूजयेत् ।
तस्य तौ वरदौ देवौ प्रयच्छेतां हि वाञ्छितम् ॥
स्थानोर्वटस्य पूर्व्वेण हस्तिपादेश्वरः स्थितः ।
तं दृष्ट्वा मुच्यते पापैरन्यजन्मसमुद्भवैः ॥
तस्य दक्षिणतो लिङ्गं हारीतस्य ऋषेः
स्थितम् ।
यं प्रणम्य प्रयत्नेन सिद्धिमाप्तोति मानवः ॥
तस्य दक्षिणपार्श्वे तु हारितस्य महात्मनः ।
लिङ्गं त्रैलोक्यविख्यातं सर्व्वपापहरं शिवम् ॥
कङ्कालरूपिणा चापि रुद्रेणाशु महात्मना ।
प्रतिष्ठितं महालिङ्गं सर्व्वपापविनाशनम् ॥
भुक्तिमुक्तिप्रदं प्रोक्तं सर्वकिल्विषनाशनम् ।
तल्लिङ्गस्पर्शनादेव अग्निष्टोमफलं लभेत् ॥
तस्य पश्चिमदिग्भागे लिङ्गं सिद्धप्रतिष्ठितम् ।
सिद्धेश्वरं भुवि ख्यातं सर्व्वसिद्धिप्रदायकम् ॥
तद्दर्शनात् पूजनाच्च सर्व्वसिद्धिं हि बिन्दति ।
तस्य दक्षिणदिग्भागे मृकण्डेन महात्मना ॥
प्रतिष्ठितं यत्तु लिङ्गं दर्शनात् सिद्धिदायकम् ।
तस्य पूर्व्वे च दिग्भागे आदित्येन महात्मना ॥
प्रतिष्ठितं लिङ्गवरं सर्व्वकिल्विषनाशनम् ।
चित्राङ्गदस्तु गन्धर्व्वो रम्भा चाप्सरसां वरा ॥
परस्परं सानुरागौ स्थाणुदर्शनकाङ्क्षिणौ ।
दृष्ट्वा स्थाणुं पूजयित्वा सानुरागौ परस्परम् ॥
आगम्य वरदं देवं प्रतिष्ठाप्य महेश्वरम् ।
चित्राङ्गदेश्वरं दृष्ट्वा तथा रम्भेश्वरं हिज ॥
सुभगो दर्शनीयश्च कुले जन्म समाप्नुयात् ।
तस्य दक्षिणतो लिङ्गं शक्त्रिणा स्थापितं पुरा ॥
तस्य प्रसादात् सम्प्राप्तं मनसाचिन्तितं फलम् ।
पराशरेण मुनिना तथैवाराध्य शङ्करम् ॥
प्राप्तं कवित्वं परमं दर्शनाच्छङ्करस्य च ।
वेदव्यासेन मुनिना चाराध्य परमेश्वरम् ॥
सर्व्वज्ञत्वं ब्रह्मज्ञानं प्राप्तं देवप्रसादतः ।
स्थाणोः पश्चिमदिग्भागे वायुना जगदायुना ॥
प्रतिष्ठितं महालिङ्गं दर्शनात् पापनाशनम् ।
तस्यापि दक्षिणे भागे लिङ्गं हैमवतेश्वरम् ॥
प्रतिष्ठितं पुण्यकृता दर्शनात् सिद्धिदायकम् ।
तस्यापि पश्चिमे भागे कार्त्तवीर्य्येण स्थापितम् ॥
लिङ्गं पापहरं सद्यो दर्शनात् पुण्यमाप्नुयात् ।
तस्याप्युत्तरदिग्भागे तत्पार्श्वे स्थापितं पुनः ॥
आराध्य हनुमांश्चाप सिद्धिं देवप्रसादतः ।
तस्यैव पूर्व्वदिग्भागे विष्णुना प्रभविष्णुना ॥
आराध्य वरदं देवं चक्रं लब्धं सुदर्शनम् ।
तस्यापि पूर्व्वदिग्भागे इन्द्रेण वरुणेन च ॥
प्रतिष्ठितौ लिङ्गवरौ सर्व्वकामप्रदायकौ ।
एतानि मुनिभिः साध्यैरादित्यैर्वसुभिस्तथा ॥
सेवितानि प्रयत्नेन सर्व्वपापहराणि वै ।
स्थाणुलिङ्गस्य परितः ऋषिभिस्तत्त्वदर्शिभिः ॥
प्रतिष्ठितानि लिङ्गानि येषां संख्या न विद्यते ।
तथाह्युत्तरतश्चैव यावदोघवती नदी ॥
सहस्रमेकं लिङ्गानां देवपश्चिमतः स्थितम् ।
तस्यापि पूर्वदिग्भागे बालिखिल्यैर्म्महर्षिभिः ॥
प्रतिष्ठिता रुद्रकोटिर्यावत् सन्निहितं सरः ।
दक्षिणेन तु देवस्य गन्धर्व्वैर्यक्षकिन्नरैः ॥
प्रतिष्ठितानि लिङ्गानि तेषां संख्या न विद्यते ।
तिस्रः कोट्यर्द्धकोटी च लिङ्गानां वायुरब्रवीत् ॥
असंख्याताः सहस्राणि ये रुद्रा स्थाणु-
माश्रिताः ।
एतज्ज्ञात्वा श्रद्दधानः स्थाणुलिङ्गं समाश्रयेत् ॥
यस्य प्रमादात् प्राप्नोति मनसा चिन्तितं फलम्
अकामो वा सकामो वा प्रतिष्ठ्य स्थाणु-
मन्दिरम् ॥
विभुक्तः पातकैर्घोरैः प्राप्नोति परमं पदम् ।
चैत्रमासे त्रयोदश्यां दिने पुण्यतमे शुभे ॥
प्रतिष्ठितं स्थाणुलिङ्गं ब्रह्मणा लोकधारिणा ।
ऋषिभिर्देवसंघैश्च पूजितं शाश्वतीः समाः ॥
तस्मिन् काले निराहारा मानवाः श्रद्धया-
न्विताः ।
पूजयन्ति शिवं ये वै ते यान्ति परमं पदम् ॥
स्थाणुतीर्थमिदं ज्ञात्वा ये कुर्वन्ति प्रदक्षिणम् ।
प्रदक्षिणीकृता तैस्तु सप्तद्वीपा वमुन्धरा ॥”
इति वामणपुराणे ४३ अध्यायः ॥ * ॥
एकगृहे लिङ्गद्वयार्च्चननिषेधो यथा, --
“गेहे लिङ्गद्वयं नार्च्च्यं शालग्रामद्वयं तथा ।
द्वे चक्रे द्वारकायास्तु नार्च्च्यं सूर्य्यद्वयं तथा ॥”
तन्निर्म्माल्यभक्षणविधिनिषेधो यथा, --
“अभक्ष्यं शिवनिर्म्माल्यं पत्रं पुष्पं फलं जलम् ।
शालग्रामशिलायोगात् पावनं तद्भवेत् सदा ॥”
इति वाराहे रौप्यसौवर्णार्च्चास्थापननामा-
ध्यायः ॥ * ॥ लिङ्गपूजां विनान्यपूजाकरणनिषेधो
यथा, --
“लिङ्गपूजां विना देवि ! अन्यपूजां करोति यः
विफला तस्य पूजा स्यादन्ते नरकमाप्लुयात् ।
तस्माल्लिङ्गं महेशानि प्रथमं परिपूजयेत ॥” * ॥
तत्पूजनप्रशंसा यथा, --
“यद्राष्ट्रं लिङ्गपूजायां रहितं सततं प्रिये ।
तद्राष्ट्रं पतितं मन्ये विष्ठाभूमिसमं स्मृतम् ॥
ब्रह्मक्षत्त्रियविट् देवि यदि लिङ्गं न पूजयेत् ।
तत्क्षणात् परमेशानि त्रयश्चाण्डालतां व्रजेत् ॥
शूद्रश्च परमेशानि सदा शूकरवत् प्रिये ।
पूजयेत् परमेशानि चत्वारो ब्राह्मणादयः ॥
शिवार्च्चनन्तु पूजासु यद्गृहे वर्ज्जितं सदा ।
विष्ठागर्त्तसमं देवि तद्गृहं विद्धि पार्व्वति ॥
शाक्तो वा वैष्णवो वापि शैवो वा परमेश्वरि ।
आदौ लिङ्गं समभ्यर्च्च्य विल्वपत्रैर्वरानने ॥
पश्चादन्यं महेशानि शिवं प्रार्थ्य प्रपूजयेत् ।
शिवपूजां विना देवि ! अन्यपूजां करोति यः ॥
स एव रसनाहीनः कुम्भीरो जायते प्रिये ।
निर्म्माय पार्थिवं लिङ्गं रुद्रं संहाररूपिणम् ॥
आशुतोषं महादेवं शङ्करं वृषमध्वजम् ।
निर्म्माय पार्थिवं लिङ्गं विधिवत् पूजयेत्
शिवम् ॥
शिवपूजा महेशानि यद्गृहे सततं प्रिये ।
काशीपुरं महेशानि तद्गृहं वरवर्णिनि ।
शिवलिङ्गं प्रपूज्याथ सर्व्वपूजाफलं लभेद् ॥” * ॥
चतुर्विधलिङ्गं यथा, --
“चतुर्द्धा पार्थिवं लिङ्गं मृत्स्नाभेदेन पार्व्वति ।
शुक्लं रक्तं तथा पीतं कृष्णञ्च परमेश्वरि ॥
शुक्लन्तु ब्राह्मणे शस्तं क्षत्त्रिये रक्तमिष्यते ।
हरितं वैश्यजातौ तु कृष्णं शूद्रे प्रकीर्त्तितम् ।
चन्दनञ्च महेशानि सर्व्वजातिषु शस्यते ॥”
इति लिङ्गार्च्चनतन्त्रे १ । २ । ३ पटलाः ॥ * ॥
अस्य पञ्चवक्त्राणि यथा, --
“तत् सर्व्वं शृणु चार्व्वङ्गि पार्थिवस्य मुखं प्रिये ।
विभाव्य मुखपद्मं हि शिवस्य वरवर्णिनि ॥
सद्योजातं वामदेवमघोरञ्च ततः परम् ।
तत्पुरुषं तथेशानं पञ्चवक्त्रं प्रकीर्त्तितम् ॥
सद्योजातञ्च वै शुक्लं शुद्धस्फटिकसन्निभम् ।
पीतवर्णं तथा सौम्यं वामदेवं मनोहरम् ॥
कृष्णवर्णमघोरञ्च समं भीमविवर्द्धनम् ।
रक्तं तत्पुरुषं देवं दिव्यमूर्त्तिमनोहरम् ॥
श्यामलञ्च तथेशानं सर्व्वदेवशिवात्मकम् ।
चिन्तयेत् पश्चिमे चाद्यं द्वितीयन्तु तथोत्तरे ॥
अघोरं दक्षिणे देवं पूर्व्वे तत्पुरुषं तथा ।
ईशानं मध्यतो ध्येयं चिन्तयेत् भक्तितत्परः ॥”
इति तत्रैव ६ पटलः ॥ * ॥
अस्य पूजायां मुखवाद्यकरणावश्यकत्वं यथा,
“संपूज्य पार्थिवं लिङ्गं परं ब्रह्म स्वयं प्रिये ।
ततस्तु लिङ्गकवचं पठित्वा कमलानने ॥
मुखवाद्यं सनृत्यं हि कृत्वा तु परमेश्वरि ।
मातृकामन्त्रसहितं मुखवाद्यं सुदुर्ल्लभम् ॥
अकारादिक्षकारान्तं अनुलोमविलोभतः ।
उच्चार्य्य परमेशानि मुखवाद्यं श्रुचिस्मिते ॥
सबिन्दुवर्णमुच्चार्य्य पञ्चाशन्मातृकां प्रिये ।
अनुलोमविलोमेन सर्व्वेण च वरानने ॥
अनेनैव विधानेन मुखवाद्यं करोति यः ।
स सिद्धः सगणः सोऽपि स शिवो नात्र संशयः ॥
मृत्युञ्जयोऽहं देवेशि मुखवाद्यप्रसादतः ।
यस्मिन् काले महेशानि असुरो बलवद्भवेत ॥
तस्मिन् काले महेशानि मुखवाद्यं करोम्यहम्
तत् श्रुत्वा परमेशानि असुरा राक्षशाश्च ये ॥
पलायन्ते महेशानि तत् श्रुत्वा परमेश्वरी ।
ये नरा भवि तिष्ठन्ति मखवाद्यं विना प्रिये ॥
पृष्ठ ५/१००
स सर्व्वयातना भोगी अन्ते कुम्भिरतां व्रजेत् ॥”
इति च तत्रैव ८ पटलः ॥ * ॥
अस्य निर्म्माल्यभोजनदोषकारणम् यथा, --
देव्युवाच ।
“दुर्लभं तव निर्माल्यं ब्रह्मादीनां कृपानिधे ।
तत्कथं परमेशान निर्माल्यं तव दूषितम् ॥
ईश्वर उवाच ।
मध्यस्थानस्थितं यत्तु तन्मुखं परमेश्वरि ।
श्यामलं तत्तु ईशानं सदा उर्द्ध्वं शुचिस्मिते ॥
कालाग्निरूपिणं तत्तु सर्व्वशक्तिमयं सदा ।
तेजोमयं महेशानि मुखमूर्द्ध्वं वरानने ॥
क्षीरोदमथने देवि उत्थितं गरलं महत् ।
ततः करतलीकृत्य तद्विषं परमेश्वरि ॥
निपीतं तद्विषं सूक्ष्मं तीक्ष्णं ब्रह्माण्डनाशनम् ।
तद्विषं कण्ठदेशे तु स्थितं हि सर्वदा मम ॥
ततःप्रभृति देविशि मुखं ज्वालायते सदा ।
पत्रं वा यदि वापुष्पं फलं वा वरवणिनि ॥
अन्यं हि परमेशानि उपचारं मनोहरम् ।
यो दद्यात् परमेशानि मन्मुखोपरि पार्व्वति ॥
अग्राह्यं तत्तु निर्म्माल्यं साक्षाद्ब्रह्ममयं यतः
एतत्तु परमेशानि निर्म्माल्यं यस्तु धारयेत् ॥
म भ्रष्टोजायते देवि निष्कृ तिर्नास्ति तत्र वै ।
अग्राह्यं मम निर्म्माल्यं अतएब वरानने ॥
यद्दत्तं सम्मुखे देवि षुष्पं वा पत्रमुत्तमम् ।
तन्निर्म्माल्यं महेशान्ति गृह्नीयात् शिरसा सदा
प्रथमं विष्णवे दत्त्वा विष्णुमन्त्रेण पार्व्वति ।
निर्म्माल्यं मम देवेशि विष्णोर्ग्राह्यं वरानने ॥
देवासुरमनुष्याश्च गन्धर्व्वा किन्नरादयः ।
ते सर्व्वे परमेशानि वराकाः क्षुद्रबुद्धयः ।
निर्म्माल्येषु च देवेशि अधिकारी कथं भवेत् ॥”
इति च तत्रैव १३ । १४ पटलौ ॥ * ॥
“चतुर्द्दश्यां महेशानि शुक्लायां वरवर्णिनि ।
कृष्णायां वा महेशानि अमावास्यां विशेषतः ।
निर्माय च चतुर्द्दश्यां लिङ्गं भक्त्या च पूजयेत् ।
एकहस्ते महेशानि निर्माय पार्थिवं शिवम् ॥
दक्षिणे वामहस्ते वा निर्माय ये च पार्थिवम् ।
तत्फल परमेशानि लक्षलिङ्गसमं भवेत् ॥”
इति लिङ्गार्च्चनतन्त्रम् ॥ * ॥
बाणलिङ्गलक्षणादिकं बाणलिङ्गशब्देद्रष्टव्यम् ॥
अथ रौद्रलिङ्गलक्षणम् । वीरमित्रोदयधृतम् ।
“नदी समुद्भवं रौद्रमन्योन्यस्य विघषणात् ।
नदीवेगात् समं स्निग्धं सजातं रौद्रमुच्यते ॥”
ममुच्चयेऽपि ।
“सरित्प्रवाहसंस्थानं बाणलिङ्गसमाकृति ।
तदन्यदपि बोद्धव्यं रौद्रलिङ्गं सुखावहम् ॥
नदीसारनर्म्मदायां बाणलिङ्गसमाकृति ।
तदन्यदपि बोद्धव्यं लिङ्गं रौद्रं भविष्यति ॥
रौद्रलिङ्गं तथाख्यातं बाणलिङ्गसमाकृति ।
श्वेतरक्तं तथा पित्तं कृष्णं विप्रादिपूजितम् ॥
स्वभावात् कृष्णवर्णं वा सर्व्वजातिषु सिद्धिदम् ।
नर्म्मदासम्भवं रौद्रं बाणलिङ्गवदीरितम् ॥”
इति रौद्रलिङ्गलक्षणम् ॥
शिवनाभिलक्षणणं तच्छब्दे द्रष्टव्यम् ॥ * ॥ अथ
दैवलिङ्गलक्षणम् । दैवलिङ्गमधिकृत्य सिद्धान्त-
शेखरे ।
“करसंपुटसंस्पर्शं शूलटङ्केन्दुभूषितम् ।
रेखाकोटरसंयुक्तं निम्नोन्नतसमन्नितम् ।
दीर्घाकारञ्च यल्लिङ्गं ब्रह्मभागादिवर्ज्जितम् ॥”
अथ गोललिङ्गलक्षणम् ।
“लिङ्गं गोलमिति प्रोक्तं गोलकं प्रोच्यतेऽधुना ।
कुष्माण्डस्य फलाकारं नागरङ्गफलोपमम् ।
काकडिम्बफलाकारं गोललिङ्गमितीरितम् ॥”
इति गोललिङ्गलक्षणम् ॥ * ॥
अथार्षलिङ्गलक्षणम् । तत्रैव ।
“नानाकोलफलाकारं ब्रह्मसूत्रविवर्त्तनम् ।
मूले स्थूलञ्च यल्लिङ्गं कपित्थफलसन्निभम् ॥
नालस्य वा फलाकारं मध्ये स्थूलञ्च यद्भवेत् ।
मध्ये स्थूलं वरं लिङ्गमृषिवाणमुदीरितम् ॥”
इत्यर्घलिङ्गलक्षणम् ॥ * ॥
लिङ्गं हि द्विविधमकृत्रिमं कृत्रिमञ्च । अकृ-
त्रिमं स्वयम्भूतं स्वयम्भु बाणलिङ्गादि । कृत्रिमं
निर्म्मितं धातुलिङ्गादि । सिद्धान्तशेखरे ।
“तल्लिङ्गं द्विविघं ज्ञेयमचलञ्च चलं तथा ।
प्रत्थेकं त्रिविधं ज्ञेयं लिङ्गं तदुभयात्मकम् ॥
प्रासादे स्थापितं लिङ्गमचलं तच्छिलादिजम् ।
स्थापितं अचलं गेहे स्थिरं लिङ्गमयोजिते ॥
पञ्चधा तत् स्थितं लिङ्गं स्वयम्भु दैवपालकम् ।
आर्षञ्च मानसं लिङ्गं तेषां लक्षणमुच्यते ॥
सिद्धान्तशेखरे ।
“नानाच्छ्रिद्रसुसंयुक्तं नानावर्णसमन्वितम् ।
अदृष्टमूलं यल्लिङ्गं कर्कशं भुवि दृश्यते ॥
तत् लिङ्गन्तु स्वयम्भतमपरं लक्षणाच्युतम् ।
स्वयम्भु लिङ्गमित्युक्तं तच्च नानाविधं मतम् ॥
शङ्खाभमस्तकं लिङ्गं वैष्णवं तदुदाहृतम् ।
पद्माभमस्तकं ब्राह्मं छत्राभं शाक्रमच्यते ॥
शिरोयुग्मं तथाग्नेयं त्रिपदं याम्यमीरितम् ।
खङ्गाभं नैरृतं लिङ्गं वारुणं कलसाकृति ॥
वायव्यं ध्वजवाँल्लिङ्गं कौबेरन्तु गदान्वितम् ।
ईशानस्य त्रिशूलाभं लोकपालादिनिःसृतम् ।
स्वयम्भु लिङ्गमाख्यातं सर्व्वशास्त्रविशारदेः ॥”
इति स्वयम्भुलिङ्गलक्षणम् ॥ * ॥
मत्स्यसूक्ते ।
“दृष्ट्वा लिङ्गं महेशस्य स्वयम्भूतस्य पार्व्वति ।
सर्व्वपापविनिर्मुक्तः परे ब्रह्मणि लीयते ॥” * ॥
एतेषां पूजाफलन्तु तत्रैव ।
“विशेषाच्छैलजं मुक्त्यै भुक्तये चानुषङ्गतः ।
पार्थिवं भुक्तये शस्तं मुक्तये चानुषङ्गतः ॥
एवं वै दारुजं ज्ञेयं चिह्नलिङ्गं तथा पुनः ।
स्थिरलक्ष्मीप्रद ज्ञेयं हैमं राज्यप्रदञ्च तत् ।
पुत्त्रवृद्धिकरं ताम्रं राङ्गमायुःप्रवर्द्धनम् ॥”
पद्मपुराणम् ।
“पारदञ्च महाभूत्यै सौभाग्याय च मौक्ति-
कम् ।
चन्द्रकान्तं मृत्युजित् स्याद्घाटकं सर्व्वकामदम् ॥”
वीरमित्रोदयधृतकल्पोत्तरेऽपि ।
“सर्व्वा फलप्रदा भूमिर्मणयस्तद्वदेव हि ।
अनन्ताद्याः स्मृता ह्यष्टौ मणयो विद्युदुज्ज्वलाः ॥
रात्रौ प्रकाशकाः सर्व्वे विषाद्याघातकारिणः ।
नानावर्णास्तु विज्ञेया रसैर्गन्धैश्च रूपतः ॥
वज्राद्याः स्फाटिकाद्याश्च गुडान्नादिविनि-
र्म्मितम् ।
सर्व्वकामप्रदं पुंसां लिङ्गं तात्कालिकं मतम् ॥”
लक्षणसमुच्चये ।
“गान्धं सौभ्याग्यदं लिङ्गं पौष्पं मुक्तिप्रदाय-
कम् ।”
तथा ।
“नानागुणोद्भवं लिङ्गं नानाकामप्रदायकम् ।
सैकतं गुणदं लिङ्गं सौभ्याग्याय च लावणम् ॥
उच्चाटने तु पाशाप्तं मौलं शत्रुक्षयावहम् ।
तात्कालिकं दरिद्रश्च कृत्वा भक्त्या समर्च्चयेत् ॥
तथा ।
“कस्तुरिकया द्वौ भागौ चत्वारश्चन्दनस्य च ।
कुङ्कुमस्य त्रयश्चैव शशिना च चतुःसमम् ॥
एतद्वै गन्धलिङ्गन्तु कृत्वा संपूज्य भक्तितः ।
शिवसायुज्यमाप्नोति बन्धुभिः सहितो नरः ॥
कार्य्यं पुष्पमयं लिङ्गं हयगन्धसमन्वितम् ।
नवखण्डां धरां भुक्तां गणेशोऽधिपतिर्भवेत् ॥
रजोभिर्निर्म्मितं लिङ्गं यः पूजयति भक्तितः ।
विद्याधरपदं प्राप्य पश्चात् शिवसमो भवेत् ॥
श्रीकामो गोशकृल्लिङ्गं कृत्वा भक्त्या प्रपूजयेत्
स्वच्छेन कापिलेनैव गोमयेन प्रकल्पयेत् ॥
कार्य्यं यष्टिक्रमं लिङ्गं यवगोधूमशालिजम् ।
श्रीकामः पुष्टिकामश्च पुत्त्रकामस्तदर्च्चयेत् ॥
सिताखण्डमयं लिङ्गं कार्य्यमारोग्यवर्द्धनम् ।
वश्ये लवणजं लिङ्गं तालत्रिकटुकान्वितम् ॥
गव्यधृतमयं लिङ्गं संपूज्य बुद्धिवर्द्धनम् ।
लवणेन च सौभाग्यं पार्थिवं सर्व्वकामदम् ॥
कामदं तिलपिष्टोत्थं तुषोत्थं मारणे स्मृतम् ।
भस्मोत्थं सर्व्वफलदं गुडोत्थं प्रीतिवर्द्धनम् ॥
गन्धोत्थं गुणदं भूरि शर्करोत्थं सुखप्रदम् ।
वंशाङ्कुरोत्थं वशकरं गोमयं सर्व्वरोगदम् ॥
केशास्थिसम्भव लिङ्गं सर्व्वशत्रुविनाशनम् ।
क्षोभणे मारणे पिष्टसम्भवं लिङ्गमुत्तमम् ॥
दारिद्य्रदं द्रुमोद्भूतं पिष्टं सारस्वतप्रदम् ।
दधिदुग्धोद्भवं लिङ्गं कीर्त्तिलक्ष्मीसुखप्रदम् ।
धान्यदं धान्यज लिङ्गं फलोत्थं फलदं भवेत् ॥
पुष्पोत्थं दिव्यभोगायुर्मुक्त्यै धावीफलोद्भवम् ।
नवनीतोद्भवं लिङ्गं कीर्त्तिसौभाग्यवर्द्धनम् ॥
दूर्वाकाण्डसमुद्भूतमपमृत्युविनाशनम् ।
कर्पूरसम्भवं लिङ्गं चला वै भुक्तिमुक्तिदा ।
अयस्कान्तं चतुर्द्धा तु ज्ञेयं सामान्यसिद्धिषु ॥”
इति गरुडपुराणम् ॥
“सर्व्वं मणिभवं श्रेष्ठं तत्र वज्रमरिच्छिदि ।
यमलिङ्गं महाभूत्यै सौभाग्याय च मौक्तिकम् ॥
पुष्टिमूलं महानोलं ज्योतिस्तीरसमुद्भवम् ।
स्पशक कुलसन्नसत्यै तैजसं सूर्य्यकान्तजम् ॥
पृष्ठ ५/१०१
चन्द्रापीडं मृत्युजितं स्फाटिकं सर्व्वकामटम् ।
शूलाख्यमणिजं शत्रुक्षयाथं मौक्तिकं तथा ॥
आपत्यं हीरकं ज्ञेय रोगहृन्मौक्तिकोद्भवम् ।
शुभकृत् पुष्कलं तीर्थे वैदुर्य्यं शत्रुदर्पहृत् ।
नीलं लक्ष्मीप्रदं ज्ञेयं स्फाटिकं सर्व्वकामदम् ॥”
इति सारसंग्रहः ॥
“महामुक्तिप्रदं हैमं राजतं भूतिवर्द्धनम् ।
आरकूटं तथा कांस्यं शृणु सामान्यमुक्तिदम् ॥
त्रपुसीसायसं लिङ्गं शत्रूणां नाशने हितम् ।
कीर्त्तिदं कांस्यजं लिङ्गं राजतं पुत्त्रवर्द्वनम् ॥
पैत्तलं भुक्तिमुक्त्यर्थं मिश्रजं सर्व्वसिद्धिदम् ॥”
इति कालोत्तरतन्त्रम् ॥
तत्रैव शिवनारदसंवादे ।
“पितॄणां मुक्तये लिङ्गं पुज्यं रजतसम्भवम् ।
हैमजं सत्यलोकस्य प्राप्तये पूजयेत् पुमान् ।
पूजयेत्ताम्रजं लिङ्गं पुष्टिकामो हि मानवः ॥”
मत्स्यसूक्ते ।
“ताम्रलिङ्गं कलौ नार्च्चेत् रैत्यस्य सीसकस्य च
रक्तचन्दनलिङ्गञ्च शङ्खकांस्यायसं तथा ॥” * ॥
मातृकाभेदतन्त्रे १२ पटले ।
“पार्थिवे शिवपूजायां सर्व्वसिद्धियुतो भवेत् ।
पाषाणे शिवपूजायां द्विगुणं फलमीरितम् ॥
स्वर्णलिङ्गे च पूजायां शत्रूणां नाशनं मतम् ।
सर्व्वसिद्धीश्वरो रौप्ये फलं तस्माच्चतुर्गुणम् ॥
ताम्रे पुष्टिं विजानीयात् कांस्ये च धनसंक्षयः
गङ्गायाञ्च लक्षगुणं लाक्षायां रोगवान् भवेत् ॥
स्फाटिके सर्व्वसिद्धिः स्यात्तथा मरकते प्रिये ।
लौद्वलिङ्गे रिपोर्नाशं कामदं भस्मलिङ्गकम् ॥
वालुकायां काम्यसिद्धिर्गोमये रिपुहिंसनम् ।
सव्वलिङ्गस्य माहात्म्यं धर्म्मकामार्थमोक्षदम्
संस्कारेण विना देवि पाषाणादौ न पूजयेत् ॥”
तत्संस्कारस्तत्रै यथा, --
“रौप्यञ्च स्वर्णलिङ्गञ्च स्वर्णपात्रे निधाय च ।
तस्मादुत्तोल्य तल्लिङ्गं दुग्धमध्ये दिनत्रयम् ॥
त्र्यम्बकेण स्नापयित्वा कालरुद्रं प्रपूजयेत् ।
वोडशेनोपचारेण वेद्यान्तु पार्व्वतीं यजेत् ॥
तस्मादुत्तोल्य तल्लिङ्ग गङ्गातोये दिनत्रयम् ।
ततो वेदोक्तविधिना संस्कारमाचरेत् सुधीः ॥”
लक्षणहीनलिङ्गपूजने दोषो यथा, --
“लिङ्ग सुलक्षण कुर्य्यात् त्यजेल्लिङ्गमलक्षणम् ।
दैर्घ्यहोने भवेद्व्याधिरधिके शत्रुवर्द्धनम् ॥
मानहीने विनाशः स्यादधिके च शिशुक्षयः ।
विस्तारे चाधिके हीने राष्ट्रनाशो भवेत् ध्रुवम् ॥
पीठहीने तु दारिद्र्यं शिरोहोने कुलक्षयः ।
ब्रह्मसूत्रविहीने च राज्ञां राष्ट्वञ्च नश्यति ।
तस्मात् सर्व्वप्रयत्नेन लिङ्गं कुर्य्यात् सुलक्षणम् ॥”
अथ लिङ्गप्रमाणम् ।
देव्युवाच ।
“लिङ्गप्रमाणं देवेश कथयस्व मयि प्रभो ।
पार्थिवे च शिलादौ च विशेषो यत्र यद्भवेत् ॥
श्रीशिव उवा च !
मृत्तिकातोलकं ग्राह्यमथवा तोलकद्वयम् ।
एतदन्यन्न कुर्व्वोत कदाचिदपि पार्व्वति ! ॥”
इति मातृकाभेदतन्त्रे ७ पटलः ॥
अपि च ।
“मृत्तिकातोलकं ग्राह्यमथवा तोलकद्वयम् ।
त्रिसूत्रस्य प्रमाणेन घटनं कारयेद्बुधः ।
अङ्गु ष्ठपर्व्व मानन्तु कृत्वा लिङ्गं प्रपूजयेत् ॥”
इति षट्कर्म्मदीपिकाधृतविश्वसारतन्त्रम् ॥ * ॥
त्रिसूत्रीकरणमुक्तं कालोत्तरे ।
“लिङ्गे वेद्यां तथा पीठे समसूत्रनिपातनात् ।
समञ्चैव विजानीयात् त्रिसूत्रीकरणन्त्विदम् ॥”
मृत्तिकाभदेन ब्राह्मणादीनां पूजाफलस्य प्रश-
स्तत्वमुक्तं तत्रैव ।
“शुक्लं हि पार्थिवं लिङ्गं निर्म्माय यस्तु पूजयेत् ।
स एव परमेशानि त्रिवर्गफलभाग्भवेत् ॥
क्षत्त्रियस्तु वरारोहे रक्तं निर्म्माय पार्थिवम् ।
पूजयेत् सततं यस्तु त्रिवगफलभाग्भवेत् ॥
हरितं पार्थिवं देवि निर्म्माय यस्तु पूजयेत् ।
स च वैश्यो महेशानि त्रिवर्गफलभाग्भवेत् ॥
कृष्णं हि पार्थिवं लिङ्गं निर्म्माय यस्तु पूजयेत्
स शूद्रः परमेशानि त्रिवर्गफलभाग्भवेत् ॥
शिलादौ च महेशानि स्थूलञ्च फलदायकम् ।
अङ्गुष्ठमानं देवेशि यद्वा हेमाद्रिमानकम् ॥
क्रमेण देवदेवेशि फलं बहुविधं लभेत् ।
स्थूलात् स्थूलतरं लिङ्गं रुद्राक्षं परमेश्वरि ।
पूजनाङ्गारणाद्देवि फलं बहुविधं स्मृतम् ॥”
स्थूलात् स्थूलतरमिति पार्थिवलिङ्गे तरपरम् ।
मृत्तिकातोलकं ग्राह्यमित्यादिवचनात् ॥ * ॥
शिलास्फाटिकमरकतादीनां पञ्चसूत्रीकरण-
मुक्तम् । यथा, --
“शिवलिङ्गस्य यन्मानं तन्मानं दक्षसव्ययोः ।
योन्यग्रमपि यन्मानं तदधोऽपि तथा भवेत् ॥”
इति लैङ्गम् ॥
“लिङ्गस्य यादृग्विस्तारः परिणाहोऽपि तादृशः
लिङ्गस्य द्विगुणा वेदी योनिस्तदर्द्धसम्मिता ॥
कुर्व्वोताङ्गष्ठतो ह्रस्वं न कदाचिदपि क्वचित् ।
रत्नादिशिवनिर्म्माणे मानमिच्छावशाद्भवेत् ॥”
इति तन्त्रान्तरम् ॥
लिङ्गशब्दव्युत्प्रत्तिर्यथा, --
“आकाशं लिङ्गमित्याहुः पृथिवी तस्य
पीठिका ।
आलयः सर्व्वदेवानां लयनाल्लिङ्गमुच्यते ॥”
इति स्कन्दपुराणम् ॥ * ॥
लिङ्गमहिमा यथा, --
शिव उचाच ।
“न तुष्याम्यर्च्चितोऽर्च्चायां पुष्पधूपनिवेदनैः ।
लिङ्गेऽर्च्चिते तथात्यर्थं परं तुष्यामि पार्व्वति ॥
एष देवि पुरा कृत्ये जीनाऽहं सर्व्वदैवतैः ॥
लिङ्गत्वाल्लिङ्गमित्युक्तं सदेवासुरकिन्नरैः ॥
प्रयच्छामि दिवं देवि यो मल्लिङ्गार्च्चने रतः ।
त्यक्त्वा सर्व्वाणि पापानि निर्गदो दग्धकल्पषः ।
मन्मना मन्नमस्कारो मामेव प्रतिपद्यते ॥”
इति वीरमित्रोदयधृतस्कन्दपुराणम् ॥ * ॥
द्रव्यविशेषेण पूजादिफलमपि तत्रैव ।
“वस्त्रपूतजलैर्लिङ्गं स्नपित्वा मम मानवाः ।
लक्षाणाञ्चाश्वमेधानां फलमाप्नोति सत्तमः ॥
सुगन्धिचन्दनरमैर्लिङ्गमालिप्य भक्तितः ।
आलिप्यते सुरस्त्रीभिः सुगन्धैयक्षकर्द्दमैः ॥” * ॥
लिङ्गपूजनाकरणे दोषस्तत्पूजाफलञ्च तत्रैव
शिवनारदसंवादे ।
“विना लिङ्गार्च्चनंयस्य कालो गच्छति नित्यशः ।
महाहानिभवेत्तस्य दुर्गतस्य दुरात्मनः ॥
एकतः सर्व्वदानानि व्रतानि विविधानि च ।
तीर्थानि नियमा यज्ञा लिङ्गाराधनमेकतः ॥
न लिङ्गाराधनादन्यत् पुरा वेदे चतुर्ष्वपि ।
विद्यते सर्व्वशास्त्राणामेष एव सुनिश्चितः ॥
भुक्तिमुक्तिप्रदं लिङ्गं विविधापन्निवारणम् ।
पूजयित्वा नरो नित्यं शिवसायुज्यमाप्नु यात् ॥
सर्व्वमन्यत् परित्यज्य क्रियाजालमशेषतः ।
भक्त्या परमया विद्वान् लिङ्गमेकं प्रपूजयेत् ॥”
इति स्कन्दपुराणम् ॥ * ॥
“अश्वमेधसहस्राणि वाजपेयशतानि च ।
महेशार्च्च नपुण्यस्य कलां नार्हन्ति षोडशीम् ॥”
इति मत्स्यसूक्ते १६ पटलः ॥ * ॥
“स्वयं नारायणः प्रोक्तो यदि शम्भुं प्रपूजयेत् ।
स्वर्गे मर्त्ये च पाताले ये देवाः संस्थिताः सदा ।
तेषां पूजा भवेद्देवि शम्भुनाथस्य पूजनात् ॥”
इति मातृकाभेदतन्त्रम् ॥ * ॥
षट्कर्म्मदीपिकायाम् ।
“असारे खलु संसारे सारमेतच्चतुष्टयम् ।
काश्यां वासः सतां सङ्गो गङ्गाम्भः शम्भु-
सेवनम् ॥ * ॥
अथ पारदशिवलिङ्गमाहात्मम् ।
“ज्योतिर्म्मयं महालिङ्गं कैलाशनगरे प्रिये ।
तस्यैव षोडशांशैकः काश्यां विश्वेश्वरः स्थितः ॥
पूर्णलिङ्गं महेशानि शिवबीजं न चान्यथा ।
शिलामध्ये यथा चक्रं लक्ष्मीनारायणः परम् ॥
पारदस्य शतांशैको लक्ष्मीनारायणो न हि ।
पकारं विष्णुरूपञ्च आकारं कालिका स्वयम् ॥
रेफं शिवं दकारञ्च ब्रह्मरूपं न चान्यथा ।
पारदं परमेशानि ब्रह्मविष्णुशिवात्मकम् ।
यो यजेत् पारदं लिङ्गं स एव शम्भुरव्ययः ॥”
इति मातृकाभेदतन्त्रे ८ पटलः ॥
तस्य निर्म्माणविधानं पारदशब्दे द्रष्टव्यम् ॥ * ॥
प्रकारान्तरशिवलिङ्गोत्पत्तिर्यथा --
“ततो विवाहं निर्व्वर्त्त्य कृतकृत्या यथागताः ।
गताः सर्व्वे महेशोऽपि सत्या सह तदा गृहम् ।
जगाम रेमे सत्या च चिरं निर्भरमानसः ॥
अथ काले कदाचित्तु सत्या सह महेश्वरः ।
रेमे न शेके तं सोढुं सती श्रान्ताभवत्तदा ।
उवाच दीनया वाचा देवदेवं जगद्गुरुम् ॥
भगवन्न हि शक्नोमि तव भारं सुदुःसहम् ।
क्षमस्व मां महादेव कृपां कुरु जगत्पते ॥
निशम्य वचनं तस्या भगवान् वृषभध्वजः ।
निभरं रमणं चक्रे गाढं निर्द्दयमानसः ॥
पृष्ठ ५/१०२
कृत्वा संपूर्णरमणं सती च त्यक्तमैथुना ।
उत्थानाय मनश्चक्रे उभयोस्तेज उत्तमम् ।
पपात धरणीपृष्ठे तैर्व्याप्तमखिलं जगत् ॥
पाताले भूतले स्वर्गे शिवलिङ्गास्तदाभवन् ।
तेन भूता भविष्याश्च शिवलिङ्गाः सयोनयः ॥
यत्र लिङ्गं तत्र योनिर्यत्र योनिस्ततः शिवः ।
उभयोश्चैव तेजोभिः शिवलिङ्गं व्यजायत ॥”
इति नारदपञ्चरात्रे ३ रात्रम् ॥ * ॥
कामनाभेदे पार्थिवलिङ्गसंख्या यथा, --
“संख्या पार्थिवलिङ्गस्य यथाकामं निगद्यते ।
मृल्लिङ्गं पार्थिवं नाम भुक्तिमुक्तिकरं परम् ॥
देशकालादिकं ज्ञात्वा कुर्य्यात् लिङ्गं फलप्रदम्
न करोति यदा ज्ञात्वा न कार्य्यं तस्य सिध्यति
विद्यार्थी शतसाहस्रं धनार्थी च तदर्द्धकम् ।
पुत्त्रार्थी सार्द्धसाहस्रं कन्यार्थी च शतत्रयम् ॥
विद्वान् लिङ्गायुतं कुर्य्यात् सर्व्वपापहरं परम् ।
राज्यार्थी शतसाहस्रं कान्तार्थी शतपञ्चकम् ॥
मोक्षार्थी कोटिगुणितं भूतिकामः सहस्रकम् ।
रूपार्थी त्रिसहस्रन्तु तीर्थार्थी द्विसहस्रकमम् ।
सुहृत्कामः सहस्रन्तु वस्वार्थं शतमष्टकम् ॥
मारणार्थं सप्तशतं मोहनार्थं शताष्टकम् ॥
उच्चाटनवशश्चैव सहस्रन्तु यथोक्ततः ।
स्तम्भने च सहस्रन्तु दारणे च तदर्द्धकम् ॥
महाराजभये पञ्चशतञ्चापदि सङ्कटे ।
सहस्रमयुतं सर्व्व कामदं परिकीर्त्तितम् ॥
एकं पापहरं प्रोक्तं द्विलिङ्गञ्चार्थसिद्धिदम् ।
त्रिलिङ्गं सर्व्वकामानां कारणं परमीरितम् ॥”
तथा ।
“लिङ्गानामयुतं कृत्वा पूजा राजभयं हरेत् ।
सहस्राणि च लिङ्गानां निगडान्मोचयेद्ध्रुवम् ॥
कारागृहविमुक्त्यर्थमयुतं कारयेद्बुधः ।
डाकिन्यादिभये पञ्चसहस्रं कारयेत्तथा ।
सहस्राणाञ्च पञ्चाशदपुत्त्रो हि प्रकारयेत् ॥”
इति वीरमित्रोदयधृतम् ॥
“अनेन च क्रमाद्देवि लक्षं यस्तु प्रपूजयेत् ।
सर्व्वाभीष्टफलं देवि लभते नात्र संशयः ॥” * ॥
एकीकृत्य लिङ्गपूजाविधिनिषेधौ यथा, --
“एकीकृत्य महेशानि युगलं न तु पूजयेत् ।
एकीकृत्य महेशानि दश पञ्चशतानि च ॥
प्रत्येकेनाथवा देवि विल्वपत्रैः प्रपूजयेत् ।
एकैकं पूजयेल्लिङ्गं युगलं न तु पूजयेत् ।
दरिद्रो जायते देवि युगलस्य च पूजनात् ॥”
इति लिङ्गार्च्चनतन्त्रम् ॥ * ॥
शिवलिङ्गमृत्तिकादिनिरूपणं यथा, --
“तीर्थमृत्स्नां समाहृत्य निर्म्माय लिङ्गमद्भुतम्
तीर्थाभावे महेशानि क्षुद्रस्य मृत्तिकां प्रिये ॥
पर्व्वतप्रभवा देवि नदीनाम्रेत्युदाहृतम् ।
एतद्भिन्ना महेशानि नदी क्षुद्रा इति प्रिये ॥
निर्झरस्य च देवेशि नदी सम्पत्प्रदायिनी ।
सर्व्वाभावे महेशानि गोष्पदस्थाञ्च मृत्तिकाम ।
अथवा परमेशानि यत्र चित्तं प्रसीदति ॥
सुपीनं सुन्दरं रम्यं शर्करारहितं सदा ॥
निर्म्माय पार्थिवं लिङ्गं कुण्डलीसहितं प्रिये ॥
या लिङ्गं परमेशानि स रुद्रः परमेश्वरः ।
कुण्डली वेष्टनी तस्य सा देवी परमेश्वरी ॥
शिवस्य पूजनात् देवि देवीदेवौ च पूजितौ ॥”
इति मत्स्यसूक्तम् ॥ * ॥
बाणलिङ्गनिर्म्माल्यग्रहणे प्रतिप्रसवो यथा, --
“बाणलिङ्गे न चाशौचं न च निर्म्माल्यकल्पना
सर्व्वं बाणार्पितं ग्राह्यं भक्त्या भक्तैश्च नान्यथा ॥
ग्राह्याग्राह्यविचारोऽयं बाणलिङ्गे न विद्यते ।
तदर्पितं जलं पत्रं ग्राह्यं प्रसादसंज्ञया ॥
बाणलिङ्गे स्वयम्भूते चन्द्रकान्तेन्द्रसंस्थिते ।
चान्द्रायणसमं ज्ञेयं शम्भोर्नैवेद्यभक्षणैः ॥”
इति शिवनारदसंवादः ॥

शिवलोकः, पुं, (शिवस्य लोकः ।) कैलासः । यथा,

“विल्वपत्रैरखण्डैश्च यो लिङ्गं पूजयेत् सकृत् ।
सर्व्वपापैर्व्विनिर्मुक्तः शिवलोके महीयते ॥”
इति तिथ्यादितत्त्वधृतभविष्यपुराणम् ॥
शिवस्य भुवनं जनश्च ॥

शिववल्लभा, स्त्री, (शिवस्य वल्लभा ।) शतपत्री ।

इति राजनिर्घण्टः ॥ शिवप्रिये त्रि ॥

शिववल्लिका, स्त्री, (शिवस्य वल्लिका ।) लिङ्गिनी

इति राजनिर्घण्टः ॥

शिववल्ली, स्त्री, (शिवस्य वल्ली ।) लिङ्गिनी ।

श्रीवल्ली । इति राजनिर्घण्टः ॥

शिववाहनः, पुं, (शिवस्य वाहनः ।) अनड्वान् ।

इति राजनिर्घण्टः ॥

शिववीजं, क्ली, (शिवस्य वीजम् ।) पारदः ।

इति राजनिर्घण्टः ॥

शिवशेखरः, पुं, (शिवः सुखकरः शिवप्रियो वा

शेखरोऽग्रो यस्य ।) वकवृक्षः । इति जटा-
धरः ॥ धुस्तूरः । इति राजनिर्घण्टः ॥ शिवस्य
मस्तकञ्च ॥

शिवसायुज्यं, क्ली, (शिवस्य सायुज्यम् ।) मोक्ष-

विशेषः । स च शिवेन सह योगः । यथा ।
नागरखण्डे ।
“उपवासप्रभावेण बलादपि च जागरात् ।
शिवरात्रेस्तथा तस्य लिङ्गस्यापि प्रपूजया ।
अक्षयान् लभते लोकान् शिवसायुज्यमाप्नु-
यात् ॥”
इति तिथ्यादितत्त्वम् ॥

शिवसुन्दरी, स्त्री, (शिवस्य सुन्दरी ।) दुर्गा ।

इति तन्त्रशास्त्रम् ॥

शिवा, स्त्री, (शिव + टाप् ।) दुर्गा । मुक्तिः ।

यथा, --
“शिवा मुक्तिः समाख्याता योगिनां मोक्ष-
गामिनी ।
शिवाय यां जपेद्देवीं शिवा लोके ततः स्मृता ॥”
इति देवीपुराणे ४५ अध्यायः ॥
अपि च ।
“शिवा कल्पाणरूपा च शिवदा च शिवप्रिया ।
प्रिये दातरि चाशब्दः शिवा तेन प्रकीर्त्तिता ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५४ अध्यायः ॥
अपरञ्च ।
“शश्च कल्याणवचन इरेवोत्कृष्टवाचकः ।
समूहवाचकश्चैव वाकारो दातृवाचकः ॥
श्रेयःसंघोत्कृष्टदात्री शिवा तेन प्रकीर्त्तिता ।
शिवराशिर्मूर्त्तिमती शिवा तेन प्रकीर्त्तिता ॥
शिवो हि मोक्षवचनश्चाकारो दातृवाचकः ।
स्वयं निर्व्वाणदात्री या सा शिवा परिकीत्तिता”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे २७ अघ्यायः ॥
शमीवृक्षः । हरीतकी । शृगालः । ताम-
लकी । इत्यमरः ॥ आमलकी । इति मेदिनी ॥
बुद्धशक्तिविशेषः । स तु द्वाविंशजिनमाता ।
इति त्रिकाण्डशेषः ॥ हरिद्रा । दूर्व्वा । गोरो-
चना । इति राजनिर्घण्टः ॥ * ॥ शृगालस्य
ध्वनेः शुभाशुभं यथा, --
“शोभनं शुभफलाप्तिसूचकं
कथ्यतेत्यवितथं शिवारुतम् ।
शान्तदीप्तककुभां विशेषतो
ज्ञानमत्र च सदोपयुज्यते ॥
दग्धा दिगुक्ता दिननाथयुक्ता
विवस्वदाप्ता भवति प्रदीप्ता ।
सा धूमिता यां सविता प्रयातः
शेषा दिगन्ताः किल पञ्च शान्ताः ॥
दग्धा दिगैशी ज्वलिता दिगैन्द्री
प्रधूमिता चानलदिक्क्रमेण ।
प्रत्येकमेकं प्रहराष्टकेन
भुङ्क्ते दिशोऽष्टौ सविता क्रमेण ॥
आद्ये दिनस्य प्रहरे प्रवृत्ते
महेशदेवेशहुताशदिक्षु ।
शिवा रटन्ती कुरुते नराणां
संत्रासकायव्ययबन्धनानि ॥
अह्नो द्वितीये प्रहरस्य भागे
सहस्रनेत्रानलकालदिक्षु ।
शिवा रटन्ती कुरुते नराणां
संत्रासकायव्ययबन्धनानि ॥
ब्राह्म्ये तृतीये प्रहरे दिनस्य
हुताशवैवस्वतयातुदिक्षु ।
शिवा रटन्ती कुरुते नराणां
संत्रासकायव्ययबन्धनानि ॥
समागतेऽह्नः प्रहरे तुरीये
प्रेतेशरक्षःपतिपाशिदिक्षु ।
शिवा रटन्ती कुरुते नराणां
संत्रासकायव्ययबन्धनानि ॥
आद्ये निशायाः प्रहरे प्रवृत्ते
रक्षोऽधियादःपतिवातदिक्षु ।
शिवा रटन्ती कुरुते नराणां
संत्रासकायव्ययबन्धनानि ॥
ततो द्वितीयप्रहरे रजन्या-
स्तोयोऽधिनाथानिलसोमदिक्षु ॥
शिवा रटन्ती कुरुते नराणां
संत्रासकायव्ययबन्धनानि ॥
यामे तृतीयेऽपि च यामवत्याः
समीरदोषाकरशम्भदिक्षु ।
पृष्ठ ५/१०३
शिवा रटन्ती कुरुते नराणां
सत्रासकायव्ययबन्धनानि ॥
समागते रात्रितुरीययामे
निशाकरेशानसुरेशदिक्षु ।
शिवा रटन्ती कुरुते नराणां
संत्रासकायव्ययबन्धनानि ॥”
इति शिवारुते दग्धदीप्तधूमितदिक्त्रययाम-
प्रकरणं प्रथमम् ॥ * ॥
“इतीरितं दिक्त्रययामयोगात्
फलं विरुद्धं विरुतैः शिवायाः ।
ब्रूमोऽथ दिक्पञ्चकयामयोगात्
फलानि पुंसां क्रमतः शुभानि ॥
कृतान्तरक्षोवरुणानिलेन्दु-
दिक्ष्वाद्ययामे रटितैः, शृगाल्याः ।
स्यादिष्टवार्त्ताश्रुतिरिष्टसिद्धि-
र्लाभः सुभिक्षं प्रियलोकसङ्गः ॥
रक्षः प्रचेतोऽनिलसोमशम्भु-
दिक्षु द्वितीये प्रहरे रुतेन ।
स्यादिष्टवार्त्ताश्रुतिरिष्टसिद्धि-
र्लाभः सुभिक्षं प्रियलोकसङ्गः ॥
जलेशवातेन्दुशिवामरेश-
दिक्ष्वारवेण प्रहरे तृतीये ।
स्यादिष्टवार्त्ताश्रुतिरिष्टसिद्धि-
र्लाभः सुभिक्षं प्रियलोकसङ्गः ॥
समीरसोमेशसुरेशवह्नि-
दिक्षु स्वरेण प्रहरे चतुर्थे ।
स्यादिष्टवार्त्ताश्रुतिरिष्टसिद्धि-
र्लाभः सुभिक्षं प्रियलोकसङ्गः ॥
शशाङ्करुद्रेन्दुहुताशकाल-
दिक्ष्वारवैः पञ्चमयामभागे ।
स्यादिष्टवार्त्ताश्रुतिरिष्टसिद्धि-
र्लाभः सुभिक्षं प्रियलोकसङ्गः ॥
ईशानशक्राग्निकृतान्तरक्षो-
दिक्षु स्वरेण प्रहरे च षष्ठे ।
स्यादिष्टवार्त्ताश्रुतिरिष्टसिद्धि-
र्लाभः मुभिक्षं प्रियलोकसङ्गः ॥
इन्द्राग्निकालस्रपपाशपाणि-
दिक्ष्वारवैः सप्तमयामकाले ।
स्यादिष्टवार्त्ताश्रुतिरिष्टसिद्धि-
र्लाभः सुभिक्षं प्रियलोकसङ्गः ॥
अत्यन्तकृन्नैरृतपाशिवात-
दिक्ष्वष्टमे च प्रहरे रवेण ।
स्यादिष्टवार्त्ताश्रुतिरिष्टसिद्धि-
र्लाभः सुभिक्षं प्रियलोकसङ्गः ॥”
इति श्रीवसन्तराजे शिवारुते दिग्यामप्रकरणं
द्वितीयम् ॥ * ॥
“एकादिकानां निधनाष्टमानां
शिवारुतानामधुना यदर्थम् ।
प्राच्यादिकास्वष्टसु दिक्ष्वशेषं
यद्यत् फलं तत्तदुदीरयामः ॥
धनान्यभीष्टाप्तिमभीष्टलाभं
ध्रुवं ततोऽर्थस्य फलं शुभञ्च ।
भयं प्रलापं सकलञ्च सौख्य-
मेकादिशब्दैः कुरुते प्रशान्ते ॥
भयान्यनिष्टश्रुतिरर्थहानि-
रिष्टैर्व्वियोगो महती च भीतिः ।
स्याद्विग्रहाप्तिर्म्मरणञ्च दीप्ते
त्वेकादिना चेत् कृतसप्तकेन ॥
ऐन्द्र्यां निनादे प्रथमेऽर्थलाभो
भवेद्द्वितीये निधिदर्शनञ्च ।
कन्यां तृतीये लभते चतुर्थे
अध्वागमं पञ्चमकेऽथ सिद्धिम् ॥
षष्ठे रवे कुप्यति भूमिनाथो
भीः सप्तमे स्याद्विफलोऽष्टमेषु ॥
त्रासोऽग्निभागे प्रथमे द्वितीये
नराधिपः कुप्यति भीस्तृ तीये ॥
घातश्चतुर्थे नगरस्य शब्दे
शिवाकृते पञ्चमके च युद्धम् ।
वदन्ति तज्ज्ञाः कलहञ्च षष्ठे
भीः सप्तमे स्याद्विफलोऽष्टमस्तु ॥
आद्ये शुभं स्यादशुभं द्वितीये
याम्ये महाव्याधिभयं तृतीये ।
स्वरे चतुर्थे स्वजनागमः स्यात्
पुत्त्रो भवेत् पञ्चसु फेत्कृतेषु ॥
जायेत कन्या रटिते च षष्ठे
भोः सप्तमे स्याद्विफलोऽष्टमस्तु ।
ग्रामस्य घातो दिशि राक्षसाना-
माद्ये द्वितीयेऽपि च गोकुलस्य ॥
मृत्युस्तृतीये द्विचतुष्पदानां
हानिश्चतुर्थेऽपि च पञ्चमेऽत्र ।
चौराद्भयं राजभयञ्च षष्ठे
भीः सप्तमे स्याद्विफलोऽष्टमस्तु ॥
शब्दे शिवाया वरुणस्य भागे
आद्ये भयं हानिरथ द्वितीये ।
स्याद्राजदूतागमनं तृतीये
दाहश्चतुर्थे खलु चौरभीतिः ॥
स्यात् पञ्चमे राजभयश्च षष्ठे
भीः सप्तमे स्याद्विफलोऽष्टमस्तु ।
वायव्यभागे भयमेकशब्दे
भयातिरेको भवति द्वितीये ॥
वृष्टिस्तृतीये महृती चतुर्थे
मेघागमो वर्षति पञ्चमे च ।
क्रोधं विधत्ते मृपतेश्च षष्ठे
भीः सप्तमे स्याद्विफलोऽष्टमस्तु ॥
दिश्युत्तरस्यां विहिते विरावे
म्रियेत कश्चित् प्रथमे द्वितीये ।
महाभयं विप्रवधस्तृतीये
क्षत्त्रं चतुर्थे खलु हन्यते च ॥
विट् पञ्चमे षष्ठरवे च शूद्रो
भीः सप्तमे स्याद्विफलोऽष्टमस्तु ।
राहोस्तथा दर्शनमाद्यशब्दे
केतोर्द्वितीये च तथोत्तरेण ॥
उल्काप्रपातस्त्रिषु दुर्द्दिनञ्च
चतुर्षु भद्रं खलु पञ्चमे च ।
सङ्गो भवेद्वैरिजनश्च षष्ठे
भीः सप्तमे स्याद्विफलोऽष्टमस्तु ॥
आद्ये भवेद्दर्दिनमीशदेशे
वृष्टिर्द्वितीये च रवे शिवायाः ।
वातस्तुतीये त्वशनिश्चतुर्थे
म्रियेत कश्चित् खलु पञ्चमे च ॥
लभेत पृथ्वीं निनदे च षष्ठे
भीः सप्तमे स्याद्विफलोऽष्टमस्तु ॥”
इति श्रीवसन्तराजे शिवारुते स्वराष्टकप्रकरणं
तृतीयम् ॥ * ॥
“क्षेमलाभपुनरागमनानां
निश्चयं यमधिगम्य विशङ्कः ।
येन याति पथिकः परदेशं
तं शिवारुतमथ प्रथयामः ॥
यं यं देशं गन्तुमभ्युद्यतानां
पुंसां शब्दानुच्चरन्ती शृगाली ।
शान्तायां सा सिद्धये वाञ्छितानां
दीप्तायान्तु स्यादभीष्टक्षयाय ॥
प्राचीं दिशं सन्मुखभानुविम्बं
प्रतिष्ठमानस्य नरस्य यस्य ।
शब्दं शृगाली पुरतः करोति
बन्धं वधं वा प्रकरोति तस्य ॥
प्राचीदिगीशाभिमुखस्य पुंसः
प्रस्थानकामस्य शिवा सशब्दा ।
भियेऽर्थनाशाय च दक्षिणा स्या-
द्वामा पुनर्वाञ्छितकार्य्यसिद्ध्यै ॥
प्रत्यर्कमाशां चलितस्य पूर्व्वां
शिवा विरावं पुरुषस्य यस्य ।
करोति पृष्ठे प्रकरोति तस्य
सर्व्वप्रकारामभिलाषसिद्धिम् ॥
प्रस्थापिनो यस्य च दक्षिणाशां
शिवा रवं मुञ्चति दक्षिणेन ।
आदित्यमुक्ता यदि नो तदानीं
ध्रुवं भवेत्तस्य महीपतित्वम् ॥
वैवस्वताशां चलितस्य यस्य
दिवाकरस्तिष्ठति दक्षिणेन ।
शिवा च वामा कुरुते विरावं
सम्पद्यते तस्य समस्तमिष्टम् ॥
पुमान् यदा याम्यककुप्प्रवासी
करोति शब्दं पुरतः शृगाली ।
आस्ते विवस्वानपि सम्मु खश्चेत्
भवेत् तदानीमचिरेण मृत्युः ॥
नरस्य याम्यां ककुभं यियासोः
शृगालभार्य्या यदि पृष्ठभागे ।
फेत्कारमामुञ्चति मानवस्य
मृत्युश्च पुत्त्रेण भवत्यवश्यम् ॥
दिशं प्रतीचीं व्रजतः शृगाली
नरस्य यस्याभिमुखी विरौति ।
शान्ता स्थिता शान्तफलप्रदात्नी
दीप्ता तु दीप्तं फलमातनोति ॥
प्राचेतसों सञ्चलितस्य काष्ठां
शृगालिका जल्पति दक्षिणेन ।
पृष्ठ ५/१०४
यदा तदानीं सुबहूननर्थान्
करोति चार्थानपि हन्ति पुंसः ॥
दिशं प्रवेतःपरिपाल्यमानां
नरस्य यस्य व्रजतः शृगाली ।
वामा विरावं प्रकरोति शान्ता
भवन्त्यभिप्रेतफलानि तस्य ॥
यो वारुणों याति दिशं मनुष्यः
शृण्वन् शिवाया रटितानि पृष्ठे ।
गतस्य तस्याशु हुताशभीति-
रसंशयं स्यात् द्रविणक्षयश्च ॥
यस्योत्तराशां चलितस्य पुंमः
प्राच्यां शिवा मुञ्चति फेत्कृतानि ।
भानुःप्रतीच्यां विहितस्थितिश्चे-
दपेक्षितं सिध्यति तत्क्षणेन ॥
मुञ्चत्यदीचीं चलितस्य पृष्ठे
शिवा विरावं पुरुषस्य यस्य ।
आस्ते च मध्ये नभसो विवस्वां-
स्तस्यार्थहानिर्मरणं प्रदिष्टम् ॥
कुबेरकाष्ठां प्रति यः प्रयाति
ज्वालामुखी चाभिमुखी विरौति ।
तस्याध्वगस्याभिमतार्थसिद्धि-
र्भवेच्च सम्पत् पुनरागमश्च ॥
तिष्ठति तीव्रकरो दिशि यस्यां
फेत् कुरुते यदि तत्र शृगाली ।
तद्व्रजतः पथिकस्य भवेतां
निश्चयतो धनजीवितनाशौ ॥
दक्षिणतः प्रथमं यदि पश्चात्
वामगता पथिकस्य शृगाली ।
फेत् कुरुते कुरुते तदवश्यं
क्षेमधनाप्तिगृहागमनानि ॥
अध्यास्य शान्तां ककुभं नरस्य
वामा शृगाली यदि वा रटन्ती ॥
तदार्थलाभं वितरत्यवश्य-
मर्थक्षयं दक्षिणतो रटन्ती ॥
वामा प्रदीप्ते ककुभः प्रदेशे-
ऽलाभं तथानर्थमुपादिशन्ति ।
शिवा रटन्ती पथि दक्षिणा तु
क्षिपत्यनर्थानथ सङ्कटेषु ॥
शान्ते दिगन्ते यदि वा प्रदीप्ते
पृष्ठे प्रयाणे प्रतिषेधयित्रो ।
शब्दायमाना तु शिवा पुग्स्तात्
निमज्जयत्यापदगाधसिन्धौ ॥
वामेऽपसव्ये पुरतोऽथ पृष्ठे
पुंमः शिवा जल्पति यत्र तत्र ।
आयान्ति चौराः प्रथमे विरावे
द्वयोर्भवेत्तस्करदर्शनञ्च ॥
नृपादरोऽर्थागमनं तृतीये
तुर्य्ये क्षतिः पञ्चमकेऽर्थलाभः ।
वाणिज्यसेवादिफलाय षष्ठे
भोः मप्तमे स्याद्विफलोऽष्टमस्तु ॥
हाहारवं मुञ्चति हृष्टभावा
हास्यं तु तस्यास्तदुदाहरन्ति ।
अग्रेसरा वा पथि या यियासोः
सा द्विप्रकारापि मनोरथाप्त्यै ॥
नृपस्य यात्रासमये पुरस्तात्
प्रयाति चेद्वर्त्म निवेदयन्ती ।
कुर्य्याच्छिवा वैरिपराभवं त-
ज्जयश्रियञ्चाभिमतं विदध्यात् ॥
कार्य्यान्तरेष्वप्यनुगम्यमाना
श्रेयःप्रदा शान्तदिशि प्रदिष्टा ।
शिवा प्रदीप्ते तु दिशि प्रदेशे
समारटन्ती महते भयाय ॥
भयोद्गमे दीप्तदिशि प्रदीप्तै-
र्नादैनृणां हन्ति भयानि देवी ।
महान्ति सर्व्वाण्यपि शान्तनादाः
शान्तस्थिता सर्व्व भयप्रदात्री ॥
यदा च नद्युत्तरगा नराणां
शब्दे शृगाली कुरुते कदाचित् ।
तटद्वये तत् परिरक्षणीयं
महद्भयं भावि जलेचरेभ्यः ॥”
इति श्रीवसन्तराजे शिवारुते यात्राप्रकरणं
चतुर्थम् ॥ * ॥
“स्थानस्थितानामपि योगभाजां
नैमित्तिकानामुपदिश्यते तु ।
शिवाविरावैरशिवं शिवञ्च
सुनिश्चितार्थं मुनिसम्मतेन ॥
करोति फे फे इति सर्व्वदिक्षु
यदा तदा स्थानविघातयुद्धे ।
शिवा विधत्ते क्षुधिता त्वसंख्यान्
रौद्रान् स्वरान् मुञ्चति चेदुपेक्षाम् ॥
निरन्तरं रौति विदिक्षु दिक्षु
समन्दकारुण्यरवातुरा चेत् ।
अपत्यमोहेन यदा शृगाली
त्यक्त्यस्पृ हा सा कथितेह तजज्ञैः ॥
स्थित्वा प्रदीप्ते ककुभो विभागे
ज्वालामुखी फेत् कुरुतेऽतिरौद्रम् ।
ग्रामस्य तस्य प्रकरोति नाशं
तस्याथवा तिष्ठात यस्य मध्ये ॥
ग्रामस्य मध्यं समवाप्य यस्य
ज्वालामुखी मुञ्चति फेत्कृतानि ।
स शून्यतां गच्छति निश्चयेन
लोकस्य वा स्यादसुख प्रभूतम् ॥
ग्रामान्तिके सप्त दिनानि यावत
महाभयोत्पादितफेत्कृतानि ।
विरौति चेत्तत् कुरुते शृगाली
तद्वासिलोकस्य भयं प्रभूतम् ॥
मध्यं दिने यावदहानि पञ्च
शिवा समीपे नगरस्य तस्य
विरौति घातं विदधाति यस्य
भयञ्च वह्निप्रभवं प्रभूतम् ॥
पञ्चार्द्धरात्राणि कथञ्चिदेषा
क्रू रारवा व्याहरते शृगाली ।
यस्यान्तिके तं बहवो हठेन
मुष्णन्ति चौरा जनसन्निवेशे ॥
स्थानस्य यस्योपगता समीपं
दिनानि पञ्चोच्चरति प्रभावे ।
स्वरेण रौद्रेण शृगालभार्य्या
स्यात्तत्र हानिर्महती नराणाम् ॥
सुरक्षितस्यापि मनुष्यलक्षै-
र्ग्रामस्य शीघ्रं ग्रहणं विधत्ते ।
त्रयं दिनानां दिवसावसाने
शिवा रटन्ति परुषस्वरेण ॥
दिक्ष्वारटन्ति सकलासु रौद्रं
भ्रमत्यखिन्ना परितः पुरश्चेत् ।
शृगालभार्य्या खलु तद्व्रवीति
युद्धं महत्तत्र महाभिघातम् ॥
ज्वालां विमुञ्चत्यतिरौद्रनादा
समाकुला धावति या समन्तात् ।
कौमारकं या जनयत्यकस्मात् ।
कुर्य्याच्छिवा सा युवराजपातम् ॥
रोमोद्गमं या जनयत्यकस्मात्
फे इत्यतिक्रूररवा नराणाम् ।
मूत्रं पुरीषन्तु तुरङ्गमाणां
सा सर्व्वदा स्यादशिवा शिवेह ॥
तरङ्गिणीरोधसि सौम्यरूपां-
स्त्रीन् पञ्च वा मुच्यति या निनादान् ।
शिवां शिवां तां नृपतित्वदात्रीं
वन्देत देवीमभिवन्दनीयाम् ॥
श्मशानभूमौ दिनमध्यभागे
मध्ये रजन्याः स्वगृहप्रदेशे ।
या रौति तस्यै बलिमर्घ्ययुक्त्रं
भक्त्या प्रदद्याद्यदि भद्रमिच्छेत् ॥
सर्व्वेषु कार्य्येषु समुद्यतेषु
बलिः शिवाया विनिवेदनीयः ।
गृह्णाति यन्मिन् विषयेऽभ्युपेत्य
देवी बलिं जल्पति तत्र सिद्धिम् ॥”
इति श्रीवसन्तराजे शिवारुते स्थानस्थितप्र-
करणं पञ्चमम् ॥ * ॥
“कथ्यते बलिविधानमिदानीं
शाकुनागममतेन शिवायाः ।
दिव्यमन्त्रबलिवाधितदोषं
साधिताखिलसमुद्यतकार्य्यम् ॥
शून्यालयं रुद्रगृहं श्मशानं
चतुष्पथं मातृगृहं जलान्तम् ।
बन्ध्यावनिश्चत्वरमेवमाद्या
बलिप्रदानाय मताः प्रदेशाः ॥
तेषाञ्च मध्यादुचितप्रदेशे
विशोधितं मण्डलिकं विदध्यात् ।
पौराणिकश्लोकपरीक्षितायाः
संगृह्य गोर्गोमयमन्तरीक्षात् ॥
अत्यन्तजीर्णदेहाया बन्ध्यायाश्च विशेषतः ।
रोगार्त्तनवसूताया न गोर्गोमयमाहरेत् ॥
तस्मिन् विचित्रं विततं विदध्यात्
पिष्टाक्तकेनाष्टदलं सरोजम् ।
मंपूजयेत्तत्र सुराधिपादीन्
क्रमेण सर्व्वानपि लोकपालान् ॥
पृष्ठ ५/१०५
मध्ये सुतैः पञ्चभिरभ्युपेता
शिवान्विता पिष्टमयी प्रसन्ना ।
पूज्या शिवा तुष्यति भक्तियोगात्
प्रभूतपुष्पाक्षतधूपदीपैः ॥
साज्यगुडौदनमाषकुलत्थै-
र्यावकपूपलिकामिषमद्यैः ।
संभृतिरत्र नरासनमात्रं
बुद्धिमता बलिकर्म्मणि कार्य्या ॥
प्राप्याष्टमीं वाथ चतुर्द्दशीं वा
संमन्त्र्य मन्त्रण च सप्तकृत्वः ।
बलि शिवाया निशि निश्चयेन
दद्यान्मनुष्यो यदि भद्रमिच्छेत् ॥
अत्र मन्त्रः । ॐ शिवे ज्वालामुखि बलिं
गृहाण गृहाण हुं फट् स्वाहा । ॐ शिवे
शिवदूति भगवति चण्डे इदमर्घ्यं बलिलीला-
समुचितं गृहाण गृहाण आगच्छ आगच्छ
वायुवेगेन शुभं कुरु कुरु स्वाहा । इत्यर्घ्य-
मन्त्रः । बलिदानाय मन्त्रान्तरम् । ॐ नमो
भगवति एनं एनं बलिं गृह्ण गृह्ण गन्धपुष्प-
धूपदीपादिकं दह दह पच पच घोररूपिणि
भो भगवति पिबत पिबत स्वाहा ।
एतस्य मन्त्रद्वितयस्य मध्या-
देकेन केनाप्यभिमन्त्रणीयः ।
बलिः शिवायाः सुमहाप्रभावं
पृथक् पृथक् मन्त्रयुगं यदेतत् ॥
ताम्बूलवस्त्रासनदक्षिणाभि-
र्नैमित्तिकं शाकुनशास्त्रदक्षम् ।
प्रपूजयेत्तत्र भवत्यभीष्ट-
माचार्य्यवर्य्ये परितोषिते हि ॥
अश्लेषिकावह्निकृतान्तरुद्र-
धिष्ट्यानि पूर्व्वात्रितयेन सार्द्धम् ।
ज्यष्ठाञ्च सन्त्यज्य विरौति येह
श्रेयस्करी जम्बुकगेहिनी सा ॥
हितैषिणी सर्व्वसमीहितेषु
देवी भवानी भुवि फेरवा च ।
कृताधिवासा कृपया सदव
शिवारुते तेन यतेत विद्वान् ॥”
इति श्रीवसन्तराजशाकुने सदागमार्थशोभने
समस्तसत्यकौतुके विरचितं शिवारुतं षष्ठम् ॥ *
अथ तान्त्रिकशिवाबलिः । तदुक्तं कुलचूडामणौ
“विल्वमूले प्रान्तरे वा श्मशाने वाथ साधकः ।
मांसप्रधानं नैवेद्यं सन्ध्याकाले निवेदयेत् ॥
कालि कालीति वक्तव्यं ततः सा शिवरूपिणी
पशुरूपा समायाति परिवारगणैः सह ॥
भुक्त्वा रौति यदैशान्यां मुखमुत्तोल्य सुस्वरम् ।
तदैव मङ्गल तस्य नान्यथा कुलभूषण ॥
अवश्यमन्नदानेन नियतं तोषयेच्छिवाम् ।
नित्यश्राद्धं तथा सन्ध्यावन्दनं पितृतर्पणम् ॥
तथैव कुलसेव्यानां नित्यता कुलपूजने ।
पशुरूपां शिवां देवीं यो नार्च्चयति निर्जने ॥
शिवारावेण तस्याशु सर्व्वं नश्यति निश्चितम् ।
जपपूजाविधानानि यत्किञ्चित् सुकृतानि च ।
गृहीत्वा शापं दत्त्वा च शिवा रोदिति निर्जने ॥
एकया भुज्यते यत्र शिवया देव भैरव ।
तत्रैव सर्व्व शक्तीनां प्रीतिः परमदुर्लभा ॥
पशुशक्तिः पक्षिशक्तिर्नरशक्तिर्यथाक्रमात् ।
पूजनात् द्विगुणं कर्म्म मङ्गलं साधयेत्ततः ॥
तेन सर्व्वप्रयत्नेन कर्त्तव्यं पूजनं महत् ।
राजादिभयमापन्ने देशान्तरभयादिके ॥
शुभाशुभानि कर्म्माणि विचिन्त्य बलिमाहरेत् ।
गृह्ण देवि महाभागे शिवे कालाग्निरूपिणि ॥
शुभाशुभफलं व्यक्तं ब्रूहि गृह्ण बलिं तव ।
एवमुच्चार्य्य दातव्यो बलिः कुलजनप्रियः ॥
यदि नो भुज्यते वत्स तदा नैव शुभं भवेत् ।
शुभं यदि भवेत्तत्र भुज्यते तदशेषतः ।
एवं ज्ञात्वा महादेव शान्तिस्वस्त्ययनं चरेत् ॥”
इति तन्त्रसारः ॥

शिवाक्षं, क्ली, (शिवस्याक्षि कारणत्वेनास्त्यस्येति ।

अच् ।) रुद्राक्षम् । इति राजनिर्घण्टः ॥
(अस्य विवरणं रुद्राक्षशब्दे द्रष्टव्यम् ॥)

शिवाटिका, स्त्री, वंशपत्री । इति भावप्रकाशः ॥

शिवात्मकं, क्ली, (शिवः सुखकरः आत्मा स्वरूपो

यस्य ।) सैन्धवम । इति राजनिर्घण्टः ॥ शिव-
मये, त्रि ॥

शिवानी, स्त्री, (शिवस्य भार्य्या । यद्वा, शिवं

मङ्गलमानयतीति । आ + नी + डः । गौरा-
दित्वात् ङीष् ।) दुर्गा । इति लोकप्रसिद्धिः ॥
जयन्तीवृक्षः । इति शब्दचन्द्रिका ॥

शिवाप्रियः, पुं, (शिवायाः प्रियः ।) छागः । इति

त्रिकाण्डशेषः ॥ शिवस्य शिवाया अप्रियवस्तुनि
शिवाया वल्लभे च त्रि ॥

शिवापीडः, पुं, (शिवस्यापीड इव ।) वकवृक्षः ।

इति राजनिर्घण्टः ॥ शिवाशिवयोः शेखरश्च ॥

शिवाफला, स्त्री, (शिवाया इव फलमस्याः ।)

शमीवृक्षः । इति राजनिर्घण्टः ॥

शिवारातिः, पुं, (शिवायाः शृगालस्यारातिः ।)

कुक्कुरः । इति शब्दमाला ॥ शिवाशिवयोः शत्रुश्च

शिवालयं, क्ली, (शिवा आलीयतेऽत्रेति । आ +

ली + अच् ।) श्मशानम् । इति हारावली ॥
(यथा, कथासरित्सागरे । ३ । ३३ ।
“बख्यर्थं युद्ध्यमानौ च पुण्येशून्ये शिवालये ॥”)

शिवालयः, पुं, (शिवायाः शिवस्य वा आलयः ।)

रक्ततुलसी । इति शब्दचन्द्रिका ॥ शिवस्य
गृहम् । यथा, रामार्च्चनचन्द्रिकायाम ।
“चन्द्रसूर्य्यग्रहे तीर्थे सिद्धक्षेत्रे शिवालये ।
मन्त्रमात्रप्रकथनमुपदेशः स उच्यते ॥”
इति तिथ्यादितत्त्वम् ॥

शिवालुः, पुं, शृगालः । इति राजनिर्घण्टः ॥

शिवा(ब)वलिः, पुं, (शिवाभ्यो दीयमानो वलिः ।)

रात्रौ शिवादेयमांसप्रधाननैवेद्यम् । यथा ।
अथ शिवावलिः । कुलचूडामणौ ।
“विल्वमूले प्रान्तरे वा श्मशाने वापि साधकः
मांसप्रधाननैवेद्यं सन्ध्याकाले निवेदयेत् ॥
कालि कालीति वक्तव्ये तत्रोमा शिवरूपिणी ।
पशुरूपधरायाति परिवारगणैः सह ॥
भुक्त्वा रौति यदैश्यान्यां मुखमुत्तोल्य सुस्वरम् ।
तदैव मङ्गलं तस्य नान्यथाकुल भूषण ॥
अवश्यमन्नदानेन नियतं तोषयेच्छिवाम् ।
नित्यश्राद्धं तथा सन्ध्यावन्दनं पितृतर्पणम् ॥
तथैव कुलसेव्यानां नित्यता कुलपूजने ।
पशुरुपां शिवां देवीं यो नार्च्चयति निर्ज्जने ॥
शिवारावेण तस्याशु सर्व्वं नश्यति निश्चितम् ।
जपपूजाविधानानि यत्किञ्चित् सुकृतानि च ॥
गृहीत्वा शापं दत्त्वा च शिवा रोदिति निर्ज्जने ।
एकया भुज्यते यत्र शिवया देव भैरव ॥
तत्रैव सर्व्व शक्तीनां प्रीतिः परमदुर्ल्लभा ।
पशुशक्तिः पक्षिशक्तिर्नरशक्तिर्यथाक्रमात् ॥
पूजनात् द्विगुणं कर्म्म मङ्गलं साधयेत्ततः ।
तेन सर्व्व प्रयत्नेन कर्त्तव्यं पूजनं महत् ॥ * ॥
राजादिभयमापन्ने देशान्तरभयादिके ।
शुभाशुभानि कर्म्माणि विचिन्त्य बलिमाहरेत् ॥
गृह्ण देवि महाभागे शिवे कालाग्निरूपिणि ।
शुभाशुभफलं व्यक्तं ब्रूहि गृह्ण बलिं तव ॥
एवमुच्चार्य्य दातव्यो वलिः कुलजनप्रियः ।
यदि न भुज्यते वत्स तदा नैव शुभं भवेत् ॥
शुभं यदि भवेत्तत्र भुज्यते तदशेषतः ।
एवं ज्ञात्वा महादेव शान्तिस्वस्त्ययनं चरेत् ॥
नैवेद्योपरि मूलमन्त्रमष्टोत्तरशतं जप्त्वा वलिं
दद्यादिति शेषः ॥” इति तन्त्रसारः ॥

शिवास्मृतिः, स्त्री, जयन्तीवृक्षः । इति शब्द-

चन्द्रिका ॥

शिवाह्नादः, पुं, (शिवस्याह्णादो यस्मात् ।) वक-

वृक्षः । इति राजनिर्घण्टः ॥ शिवस्यानन्दश्च ॥

शिवाह्वा, स्त्री, (शिवेन आह्वा यस्याः ।) रुद्र-

जटा इति राजनिर्घण्टः ॥ शिवनामके त्रि, ॥

शिविः, पुं, हिंस्रपशुः । इति त्रिकाण्डशेषः ॥

भूर्ज्जवृक्षः । राजविशेषः । स च उशीनरराज-
पुत्त्रः । इति मेदिनी ॥ तस्य चरित्रं यथा, --
मैत्रेय उवाच ।
“शृणु राजन् ! प्रवक्ष्यामि स्वमांसं शिविना यथा
समांशं दत्त्ववान् सत्यं पुरा ह्यौशीनरो युवा ॥
सत्यदानरतं ज्ञात्वा शिविमिन्द्राशुशुक्षणी ।
जिज्ञासार्थं समेयातां वर्त्तमाने महाध्वरे ॥
वह्निर्भुत्वा कपोतस्तु हरिश्येनपुरःसरः ।
शरणार्थो महीपालं निनिन्ये भयविह्वलः ॥
त्राहि मां पृथिवीपालेत्यवदत् श्येनजाद्भयात् ।
स तमाश्वासयामास कपोतं शरणागतम् ॥
राजानमुपगम्याथ श्येनः प्रोवाच संसदि ।
वचनं शृणु मे राजन् ! क्षुधार्त्तस्य कुटुम्बिनः ॥
धर्म्मात्मानं त्वामाहुर्वै पृथिव्यां सर्व्वपार्थिवाः ।
तद्विरुद्धं कथं कर्म्म कर्त्तुमिच्छसि पार्थिव ॥
सर्व्वस्य सम्पदः स्वार्थाः स्वपरार्थास्तु कस्यचित् ।
परार्था भवतो नित्यं सफलस्य तरोरिव ॥
नोपकारपरेऽप्ये वमुपकारपरो जनः ।
अपकारपरेऽपि त्वमुपकारपरः सदा ॥
ममैव विहितो धात्रा भक्ष्योऽयं त्वं समुत्सृज ।
पृष्ठ ५/१०६
स श्येनमाह संप्राप्तस्त्राणार्थो सन्निधा मम ॥
तस्मात्तवाहं न समर्पयिष्ये
कपोतकं श्येन यदत्र युक्तम् ।
त्वं मन्यसे तत् करवाणि सर्व्व-
मृते कपोतात् खलु सत्यमत्र ॥
तुभ्यं हि सुमहद्राज्यं प्रयच्छामि विहङ्गम ।
यथा कामयसे चान्यद्वर्ज्जयित्वा कपोतकम् ॥
श्येनः प्राह किमेतत्ते प्रीतिरासीत् खगे दृढा ।
कथञ्चिदस्य तुल्यानि स्वमांसानि प्रयच्छ मे ॥
राजा तमब्रवीद्धृष्टो यन्मे मांसानि याचसे ।
एतद्यच्छामि ते सद्यः स्वमांसं तुलया धृतम् ॥
एवमुक्त्वा स्वमांसानि कपोतेन समं नृपः ।
उत्कृत्य तोलयामास प्रहृष्टो मनसा ततः ॥
तुलया ध्रियमाणस्तु कपोतो व्यतिरिच्यते ।
पुनश्चोत्कृत्य मांसानि ततः प्रादात् स पार्थिवः
न विद्यते यदा मांसं कपोतेन समं क्वचित् ।
ततः प्रक्षीणमांसोऽपि साधुः सुखयते परम् ॥
यदा तेन न तुल्यं तत् स तुलामारुहत् स्वयम् ।
अन्तःपुरस्त्रीषु न राज्ये न च जीविते ॥
करुणासक्तचित्तेन तेनापेक्षा कृता क्वचित् ।
परदुःखातुरा नित्यं स्वसुखानि महन्त्यपि ॥
नापेक्षन्ते महात्मानः सर्व्वभूतहिते रताः ।
पराथमुद्यताः सन्तः सन्तः किं किं न कुर्वते ॥
तादृगप्यम्बुधेर्व्वारि जलदैस्तत् प्रपीयते ।
एक एव सतां मार्गो यदङ्गीकृतपालनम् ॥
दहन्तमकरोत् क्रोडे पावकं यदपां पतिः ।
आत्मानं पीडयित्वापि साधुः सुखयते परम् ॥
ह्लादयन् तापितान् वृक्षो दुःखञ्च सहते स्वयम्
अथ तस्मिन् समारूढे पुष्पवर्षं पपात च ॥
देवदुन्दुभयो नेदुस्तुलामौशीनरे नृपे ।
ततस्तस्य तदा ज्ञात्वा वाक्यं चैतदभाषत ॥
शक्रः स्वरूपमास्थाय धर्म्मे राज्ञः परिस्थितिम् ।
इन्द्रोऽहमस्मि भद्रं ते कपोतो हव्यवाहनः ॥
जिज्ञासमानौ त्वां राजन्निमं यज्ञमुपागतौ ।
महाकारुणिकेनेह यत् कृतं तत् सुदुष्करम् ॥
नैव पूर्व्वे नृपाश्चक्रुनं करिष्यन्ति चापरे ।
यत्ते मांसानि गात्रेभ्यः समुत्कृत्तानि पार्थिव ॥
एषा ते शाश्वती कीर्त्तिर्लोकाननुभविष्यति ।
दिष्यरूपधरश्चैव पालयित्वा महीं चिरम् ॥
सर्व्वान् लोकानतिक्रम्य ब्रह्मलोकं गमिष्यति ।
एव मुक्त्वा तमिन्द्राग्नी जग्मतुस्त्रिदशालयम् ।
राजा तु क्रतुमिष्टा तं मुमुदे देवतां तदा ॥”
इति वह्निपुराणे शिवेरुपाख्याननामाध्यायः ॥

शिविका, स्त्री, (शिवं करातीति । शिव + णिच्

ततो ण्वुल् । टापि अत इत्वम् ।) यानविशेषः ।
झाँपान् इति ख्यातः । इति भरतः ॥ डुली इति
पाल्को इति च भाषा । तत्पर्य्यायः । याप्य-
यानम् २ । इत्यमरः ॥ शिवीरथः ३ । इति
हारावली ॥ तद्दानविधिर्यथा --
वह्निरुवाच ।
“शृणु तावन्महीपाल महादानमनुत्तमम् ।
येन वै दत्तमात्रेण मुच्यते नरकार्णवात् ॥
मार्गशोर्घे शुभे पक्षे समुपोष्य हरेर्द्दिने ।
माघफाल्गुनयोर्व्वापि वैशाखस्य शरत्सु च ॥
द्वादश्यां हरिमभ्यर्च्च कलसोपरिसंस्थितम् ।
शिविकां चक्रवंशोत्थां ऋजुदारुमयीं तथा ॥
आनीय सन्निधिं विष्णोः शुभ्रच्छत्रसमन्विताम्
संभूष्य च सगेण्डूकां जागरं तत्र कारयेत् ॥
विद्याभिजनसम्पन्नविदग्धं शास्त्रवित्तमम् ।
आज्ञासारं शुचिं दक्षं कलत्रापत्यभूषितम् ॥
प्रातः सभार्य्यमभ्यर्च्य वासोभिः स्वर्णभूषणैः ।
उपानच्छुरिकां खङ्गां पट्टकञ्चुकवेणुकाम् ॥
आदर्शस्थगिकां पानीयपात्रं कांस्यभाजनम् ।
चत्वारो वृषभा देया धेनवः शुभलक्षणाः ॥
शिविकावाहकानान्तु तथा छत्रस्य धारके ।
वृत्तिर्देया तथान्नञ्च वर्षान्नं ब्राह्मणस्य तु ॥
वर्षे वर्षे पुनर्देयं ब्राह्मणस्य तदैव तु ।
वृत्तिरेव त्वसम्पत्तौ वर्षे वर्षेऽपि वार्षिकी ॥
इहामुत्रातपत्राणं कुरु केशव मे प्रभो ।
त्वत्प्रीणनाय मे दत्तं शास्त्रविद्ब्राह्मणाय वै ॥
यत् प्रभो शिविकां देव प्रीतो भव जनार्द्दन ।
दत्तवान् ज्ञानविदुषे सपत्नीकाय पुत्त्रिणे ॥
सुरापस्तयकृत्सङ्गी व्रह्महा गुरुतल्पगः ।
शिविकांदानमाहात्म्यात् मुच्यते नात्र संशयः ॥
पितृपक्षान्मातृपक्षान् पत्नीपक्षांस्तथैव च ।
आत्मानं बन्धुपक्षांश्च तारयेन्नरकार्णवात् ॥
भुक्त्वा स विपुलान् भोगान् इहामुत्र सुखप्रदान् ।
सपत्नीकः सपितृको विष्णुसायुज्यमश्नु ते ॥”
इति वह्निपुराणे शिविकादानाध्यायः ॥

शिविपिष्टः, पुं, महादेवः । इति शब्दरत्नावली ॥

शिपिविष्टशब्दार्थोऽप्यत्र ॥

शिविरं, क्ली, (शेरते राजबलान्यत्र । शीङ स्वप्ने +

बाहुलकात् किरच्प्रत्ययेन साधु । इत्युणादि-
वृत्तौ उज्ज्वलदत्तः । १ । ५४ ।) निवेशः । इत्य-
मरः ॥ द्वे आगन्तुकसैन्यवासे । कटके इत्यन्ये ।
नृपस्य मूलस्थाने इत्येके । इति भरतः ॥
“शिविरन्तु निवेशे च क्लीवन्तु युद्धवेश्मनि ॥”
इत्युणादिकोषः ॥ * ॥
अथ शिविरलक्षणम् ।
श्रीभगवानुवाच ।
“शिविरं परिखायुक्तमुच्चैःप्राकारवेष्टितम् ।
युक्तद्वादशद्वारञ्च सिंहद्वारपुरस्कृतम् ॥
युक्तं चित्रैव्विचित्रैश्च कृत्रिमैश्च कपाटकैः ।
निषिद्धवृक्षरहितं प्रसिद्धेश्च पुरस्कृतम् ।
सुलक्षणं चन्द्रवेधं प्राङ्गणञ्च तथैव च ॥”
तत्र विहितनिषिद्धकाष्ठे यथा, --
विश्वकारुरुवाच ।
“कस्य कस्य तरोः काष्ठं प्रशस्तं शिविरे प्रभो ।
अमङ्गलञ्च केषां वा सर्व्वं मां वक्तुमर्हसि ॥
श्रीभगवानुवाच ।
आश्रमे नारिकेलश्च गृहिणाञ्च धनप्रदः ।
शिविरस्य यदीशाने पूर्व्वे पुत्त्रप्रदस्तरुः ॥
सर्व्वत्र मङ्गलार्हश्च तरुराजो मनोहरः ।
रसालवृक्षः पूर्व्वस्मिन् नृणां सम्पत्प्रदस्तथा ॥
शुभप्रदश्च सर्व्वत्र सुरकारो निशामय ।
विल्वश्च पनसश्चैव जम्बोरो वदरी तथा ॥
प्रजाप्रदञ्च पूर्व्वस्मिन् दक्षिणे धनदस्तथा ।
सम्पत्प्रदश्च सर्व्वत्र यतो हि वर्द्धते गृही ॥
जम्बु वृक्षश्च दाडिम्बः कदल्याम्रातकस्तथा ।
बन्धुप्रदश्च पूर्व्वस्मिन् दक्षिणे मित्रदस्तथा ॥
सर्व्वत्र शुभदश्चैव धनपुत्त्रशुभप्रदः ।
हर्षप्रदो गुवाकश्च दक्षिणे पश्चिमे तथा ॥
ईशाने सुखदश्चैव सर्व्वत्रैवं निशामय ।
सर्व्वत्र चम्पकः शुद्धो भुवि भद्रप्रदस्तथा ॥
अलावुश्चापि कुष्माण्डं मायाम्बुश्च सुकामुकः ।
खर्ज्जूरी कर्कटी चापि शिविरे मङ्गलप्रदाः ॥
वास्तूकः कारवेल्लश्च वार्त्ताकुश्च शुभप्रदाः ।
लताफलञ्च शुभदं सर्वं सर्वत्र निश्चितम् ॥ * ॥
प्रशस्तं कथितं कारो निसिद्धञ्च निशामय ।
वन्यवृक्षो निषिद्धश्च शिविरे नगरेऽपि च ॥
वटो निसिद्धः शिविरे नित्यं चौरभयं ततः ।
नगरेषु प्रसिद्धश्च दर्शनात् पुण्यदस्तथा ॥
हे कारो तिन्तिडीवृक्षो यत्नात्तं परिवर्ज्जय ।
शरेण धनहानिः स्यात् प्रजाहानिर्भवेत् ध्रुवम् ॥
शिविरेऽतिनिषिद्धश्च नगरे किञ्चिदेव च ।
न निषिद्धः प्रषिद्धश्च नगरेषु तथा पुरे ॥
वाट्यामतिनिषिद्धश्च प्राज्ञस्तं परिवर्ज्जयेत् ।
खर्ज्जूरश्च डहुश्चैव निषिद्धः शिविरे तथा ॥
न निषिद्धः प्रसिद्धश्च ग्रामेषु नगरेषु च ।
वृक्षश्च चनकादीनां धान्यञ्च मङ्गलप्रदम् ॥
ग्रामेषु नगरे चापि शिविरे च तथैव च ।
इक्षुवृक्षश्च शुभदः सन्ततं शुभदस्तथा ॥
अशोकश्च शिरीषश्च कदम्बश्च शुभप्रदः ।
कच्ची हरिद्रा शुभदा शुभदश्चार्द्रकस्तथा ॥
हरीतकी च शुभदा ग्रामेषु नगरेषु च ॥
न वाट्यां भद्रदा नित्यं तथा चामलकी ध्रुवम् ॥
गजानामस्थि शुभदमश्वानाञ्च तथैव च ।
कल्याणमुच्चैःश्रवसां वास्तौ स्थापनकारिणाम् ॥
न शुभप्रदमन्ये षामुच्छन्नकारणं परम् ।
वानराणां नराणाञ्च गर्द्दभानां गवामपि ॥
कुक्कुराणां शृगालानां मार्ज्जाराणामभद्रकम् ।
भेटकानां शूकरानां सर्व्वेषाञ्चाशुभप्रदम् ॥
ईशाने चापि पूर्व्वस्मिन् पश्चिमे च तथोत्तरे ।
शिविरस्य जलं भद्रमन्यत्राशुभमेव च ॥ * ॥
दीर्घे प्रस्थे समानञ्च न कुर्य्यान्मन्दिरं बुधः ।
चतुरस्रे गृहे कारो गृहिणां धननाशनम् ॥
दीर्घप्रस्थः परिमितो नेत्राङ्केनापि संहृतम् ।
शून्येन रहितं भद्रं शून्यं शून्यप्रदं नृणाम् ॥
प्रस्थे हस्तद्वयात् पूर्व्वं दीर्घे हस्तत्रयं तथा ।
गृहिणां शुभदं द्वारं प्राकारस्य गृहस्य च ।
न मध्यदेशे कर्त्तव्यं किञ्चिन्न्यूनाधिके शुभम् ॥
चतुरस्रं चन्द्रवेधं शिविरं मङ्गलप्रदम् ।
अभद्रं सूर्य्यवेधञ्च शिविरं मङ्गलाप्रदम् ।
अभद्रदं सूर्य्यवेधं प्राङ्गनञ्च तथैव च ॥
शिविराभ्यन्तरे भद्रा स्थापिता तुलसी नृणा
धनपुत्त्रप्रदात्री च पुण्यदा हरिभक्तिदा ॥
पृष्ठ ५/१०७
प्रभाते तुलसीं दृष्ट्वा स्वर्णदानफलं लभेत् ।
मालती यूथिका कुन्दमाधवी केतकी तथा ॥
नागेश्वरं मल्लिका च काञ्चनं वकुलं शुभम् ।
अपराजिता च सुभदा तेषामुद्यानमीप्सितम् ॥
पूर्व्वे च दक्षिणे चैव शुभदं नात्र संशयः ।
ऊर्द्ध्वं षोडशहस्तेभ्यो नैवं कुर्य्याद्गृहं गृही ॥
ऊर्द्ध्वं विंशति हस्तेभ्यः प्राकारं न शुभप्रदम् ।
सूत्रधारं तैलकारं स्वर्णकारञ्च हीरकम् ॥
वाटीमूले ग्राममध्ये न कुर्य्यात् स्थापनं बुधः ।
ब्राह्मणं क्षत्त्रियं वैश्यं सच्छूद्रं गणकं शुभम् ॥
भट्टं वैद्यं पुष्पकारं स्थापयेत् शिविरान्तिके ॥ *
प्रस्थे च परिखामानं शतहस्तं प्रशस्तकम् ।
परितः शिविराणाञ्च गम्भीरं दशहस्तकम् ॥
सङ्केतपूर्वकञ्चैव परिखाद्वारमीप्सितम् ।
शत्रीरगम्यं मित्रस्य गम्यमेव सुखेन च ॥
शाल्मलीनां तिन्तिडीनां हिन्तालानां तथैव
च ।
निम्बानां सिन्धूवाराणां उडम्बराणामभद्रकम् ॥
धुस्तूराणां वटानाञ्चाप्येरण्डानामवाञ्छितम् ।
एतेषामतिरिक्तानां शिविरे काष्ठमीप्सितम् ॥
वृक्षञ्च वज्रहतकं दूरतो वर्जयेद्बुधः ।
पुत्त्रदारधनं हन्यादित्याह कमलोद्भवः ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १०२ अध्यायः

शिवीरथः, पुं, याप्ययानम् । इति हारावली ॥

शिवेष्टः, पुं, (शिवस्य इष्टः ।) वकवृक्षः । इति

राजनिर्घण्टः ॥ शिवप्रिये, त्रि ॥

शिवेष्टा, स्त्री, (शिवस्य इष्टा प्रिया ।) दूर्व्वा ।

इति राजनिर्घण्टः ॥

शिशिरः, पुं, (शशति इतस्ततो गच्छतीति ।

शश + किरच् प्रत्ययेन साधुः ।) हिमः । इति
मेदिनी ॥ (विष्णुः । यथा, महाभारते । १३ ।
१४९ । ११० ।
“शब्दातिगः शब्दसहः शिशिरः शर्व्वरीकरः ॥”)

शिशिरः, पुं, क्ली, (शशति गच्छति वृक्षादिशोभा

यस्मात् । शश + “अजिरशिशिरशिथिलेति ।”
उणा ०१ । ५४ । इति किरच्प्रत्ययेन साधुः ।)
ऋतुविशेषः । इत्यमरः ॥ स तु माघफाल्गुन-
मासद्वयात्मकः । तत्पर्य्यायः । कम्पनः २ शीतः
३ हिमकूटः ४ कोटनः ५ । कचित् पुस्तके
कोटनस्थाने कोडव इति पाठः । इति राज-
निर्घण्टः ॥ तत्कालीनजलगुणा जलशब्द
द्रष्टव्याः ॥ * ॥ तत्र जातफलम् ॥
“मिष्टान्नभोगी मधुरप्रणादी
कलत्रपृत्त्रादियुतः क्षुधार्त्तः ।
क्रोधी सुधीश्चारुकलेवरश्च
यस्य प्रसूतिः शिशिराभिधाने ॥”
इति कोष्ठीप्रदीपः ॥ * ॥
तत्र वर्णनीयानि । करीयधूपः कुन्दः पद्मनाहः
शिशिरोत्कर्षश्च । इति कविकल्पलता ॥ * ॥
अस्य गुणाः !
“शिशिरं शीतलं वृष्यं शीतं वातप्रकोपणम् ।”
इति राजवल्लभः ॥
अपि च ।
“शिशिरः शीतलोऽतीवरूक्षो वाताग्नि-
वर्द्धनः ।”
इति भावप्रकाशः ॥

शिशिरः, त्रि, (शश प्लुतगतौ + किरच्प्रत्ययेन

साधुः ।) शीतगुणयुक्तः । यथाह अमरः ।
“शीतं गुणे तद्वदर्थाः सुषीमः शिशिरो जडः ।
तुषारः शीतलः शीतो हिमः सप्तान्य-
लिङ्गकाः ॥”
(यथा, रघुः । १४ । ३ ।
“आनन्दजः शोकजमश्रु वाष्प-
स्तयोरशीतं शिशिरो बिभेद ॥)

शिशुः, पुं, (श्यतीति । शो + “शः कित् सन्वच्च ।”

उणा ० १ । २१ । इति उः ।) बालकः । तत्-
पर्य्यायः । पोतः २ पाकः ३ अर्भकः ४ डिम्भः ५
पृथुकः ६ शावकः ७ । इत्यमरः ॥ शावः ८ ।
अर्भः ९ शिशुकः १० पोतकः ११ भिष्टकः १२
इति शब्दरत्नावली ॥ गर्भः १३ । इति जटा-
धरः ॥ तस्य लक्षणादि यथा । वृद्धशातातपः ।
“शिशोरभ्युक्षणं प्रोक्तं बालस्याचमनं स्मृतम् ।
रजस्वलादि संस्पृश्य स्नातव्यन्तु कुमारकैः ॥
प्राक् चूडाकरणाद्बालः प्रागन्नप्राशनाच्छिशुः ।
कुमारस्तु स विज्ञेयो यावन्मौञ्जी न बन्धनम् ॥”
इति गोपालन्यायपञ्चाननकृतस्मृतिनिर्णयः ॥
अपि च ।
“चतुर्थाद्वत्सरादूर्द्ध्वं यावदष्टौ समा वयः ।
शिशोर्व्रतं प्रकुर्व्वन्ति गुरुसम्बन्धिबान्धवाः ॥”
इति ब्रह्मपुराणवचनम् ॥
“जातमात्रः शिशुस्तावत् यावदष्टौ समा वयः ।
स हि गर्भसमो ज्ञेयो व्यक्तिमात्रप्रदर्शकः ॥
भक्ष्याभक्ष्ये तथा पेये वाच्यावाच्ये तथानृते ।
तस्मिन् काले न दोषः स्यात् स यावन्नोपनी-
यते ॥”
इति मनुवचनम् ॥ * ॥
तस्याध्यापनक्रमो यथा, --
“प्राङ्मुखो गुरुरासीनो वरुणाभिमुखं शिशुम्
अध्यापयेच्च प्रथमं द्विजाशीर्भिः प्रपूजितम् ॥”
इति मलमासतत्त्वे बृहस्पतिवनम् ॥ * ॥
शिशुपुत्त्रं त्यक्त्वा प्रव्रज्याश्रमनिषेधो यथा, --
“मातरं पितरं वृद्धं भार्य्याञ्चैव पतिव्रताम् ।
शिशुञ्च तनयं हित्वा नावधूताश्रमं व्रजेत् ॥”
इति महानिर्व्वाणतन्त्रम् ॥
अन्यद्बालशब्दे द्रष्टव्यम् ॥ * ॥ (कुमारः । कार्त्ति-
केयः यथा, महाभारते । ३ । २३१ । ४ ।
“शिशुः शीघ्रः शुचिश्चण्डो दीप्तवर्णः शुभा-
ननः ॥”)

शिशुकः, पुं, (शिशोरिव प्रतिकृतिः । शिशु +

इवार्थे कन् ।) जलजन्तुविशेषः । शुशुक् इति
भाषा । तत्पर्य्यायः । उलूपी २ । इत्यमरः ॥
द्वे उपल इति ख्याते अति चञ्चले मत्स्ये । शिशु
माराकृतिर्म्मत्स्यभेदः उलूपी । इति कलिङ्गा-
दयः । शोशु इति ख्यातो मत्स्यविशेषः उलूपी-
त्यन्ये । भाँगाल इति ख्याते इत्येके । शिशुमार
एव उच्यते इति सर्व्वस्वम् । तथा च रत्न-
कोषादौ ‘चुलुपी शिशुमारः स्यादुलूपी शिशुक-
स्तथा ।’ ऊर्द्ध्वं लुम्पति भ्राम्यति उलूपी लुप ऌ
शपञौ छेदे उत्पूर्व्वः ग्रहादित्वाण्णिन् मनी-
षादित्वात् तलोपः लोर्दीर्घश्च द्विह्रस्वोकारो-
ऽपि । ‘शिशुकस्तूलुपी बालः प्रोष्ठी तु सफरी
द्वयोः ।’ इति वाचस्पतिः । चुलुपीति चवर्गादि-
पाठ इति केचित् । शिशुरिव शिशुकः ।
‘शिशुकः शिशुमारेऽपि बालकोलुपिनोरपि ॥’
इति रुद्रः ॥”
इति भरतः ॥ अपि च ।
“उलुपी स्यादुलुपीव चुलुम्पी चुलुकी तथा ।
शिशुकश्चेति पर्य्यायः शिशुमाराकृतौ झसे ।
कैश्चिदुत्पलमत्स्ये तु पर्य्यायोऽयं निगद्यते ॥”
इति शब्दरत्नावली ॥
“शिशुकः शिशुमारश्च स च ग्राहो वराहकः ॥”
इति राजनिर्घण्टः ॥ * ॥
शिशुमारः । (यथा, महाभारते । १२ । २९ । २७ ।
“कूर्म्मान् कर्कटकान् नक्रान् मकरान् शिशु-
कानपि ॥”)
बालकः । इति मेदिनी ॥ (यथा, कथासरित्-
सागरे । २१ । ३९ ।
“शिशुकद्वयसंयुक्ता ब्राह्मणी कापि दुर्गता ।
द्वारि स्थिता महाराज देवदर्शनकाङ्क्षिणी ॥”)
वृक्षविशेषः । इति हेमचन्द्रः ॥

शिशुगन्धा, स्त्री, (शिशोर्गन्धो यत्र ।) मल्लिका-

विशेषः । यथा --
“लक्ष्मीपतिर्लवङ्गे स्यात् नोमाली नवमालिका
शिशुगन्धा मधुमल्ली तथा करुणमल्ल्यथ ॥”
इति शब्दमाला ॥

शिशुचान्द्रायणं, क्ली, (शिशुरिव चान्द्रायणम् ।

स्वल्पचान्द्रायणमित्यर्थः ।) व्रतविशेषः । यथा,
“चतुरः प्रातरश्नीयात् पिण्डान् विप्रः समा-
हितः ।
चतुरोऽस्तमिते सूर्य्ये शिशुचान्द्रायणं स्मृतम् ॥”
इति मनुः ॥

शिशुता, स्त्री, (शिशोर्भावः । शिशु + तल् ।)

शिशुत्वम् । शिशोरवस्था । इति जटाधरः ॥

शिशुत्वं, क्ली, (शिशोर्भावः । शिशु + त्व ।) शैश-

वम् । इत्यमरः ॥ तत्पर्य्यायः बाल्यशब्दे द्रष्टव्यः ॥

शिशुपालः, पुं, चेदिदेशीयराजः । स तु कृष्णेन

हतः । शिशुपालवधकाव्यं माघेन कृतमा
तत्पर्य्यायः । दमधोषसुतः २ चैद्यः ३ चदि
राड् ४ । इति जटाधरः ॥ शिशुपालकः ५ ।
इति त्रिकाण्डशेषः ॥ (यथा, भागवते । ७ ।
१० । ३८ ।
“ताविहाथ पुनर्जातौ शिशुपालकरूषजौ ।
हरौ वैरानुबन्धेन पश्यतस्ते समीयतुः ॥”)

शिशुपालकः, पुं, शिशुपाल + स्वार्थे कन् ।)

दमघोषसुतः । इति त्रिकाण्डशेषः ॥ केलि-
कदम्बवृक्षः । इति शब्दचन्द्रिका ॥ (शिशुं
पृष्ठ ५/१०८
पालयतीति । पालि + ण्वल् ।) बालकपालके,
त्रि ।

शिशुपालहा, [न्] पुं, (शिशुपालं हतवानिति ।

हन् + क्विप् ।) श्रीकृष्णः । इति हेमचन्द्रः ॥

शिशुभावः, पुं, (शिशोर्भावः ।) शिशुत्वम् ।

तान्त्रिकभावविशेषः । यथा, --
“उक्तानुक्तञ्च यत्किञ्चित् क्रियते सर्व्वदा प्रिये ।
शिशभाव इति ख्यातः सर्व्वतन्त्रेषु गोपितः ॥”
इति तन्त्रम् ॥

शिशुमारः, पुं, (शिशून् मारयतीति । मृ + णिच् +

अण् ।) जलजन्तुभेदः । शोँष इति शुशुक्
इति च ख्यातः । इत्यमरभरतौ ॥ (यथा,
वाजसनेयसंहितायाम् । २४ । ३० ।
“नीलङ्गोः कृमिः समुद्राय शिशुमारो हिमवते
हस्ती ॥” * ॥) अस्य पर्य्यायः शिशुकशब्दे
द्रष्टव्यः । अस्य गणना गुणाश्च पादिशब्दे
द्रष्टव्याः ॥ तारात्मकाच्युतः । इति मेदिनी ॥
तद्विवरणं यथा, --
“शिशुमारस्तु यः प्रोक्तः स ध्रुवो यत्र तिष्ठति ।
सन्निवेशञ्च तस्यापि शृणुष्व मुनिसत्तम ॥
यदह्ना कुरुते पापं दृष्ट्वा तन्निशि मुच्यते ।
तावत्यश्चै व तारास्ताः शिशुमाराश्रिता दिवि ॥
तावन्त्येव तु वर्षाणि जीवन्त्यभ्यधिकानि तु ।
उत्तानपादस्तस्याथ विज्ञेयोऽप्युत्तरो हनुः ॥
यक्षोऽधरश्च विज्ञेयो धर्म्मो मूर्द्धानमाश्रितः ।
हृदि नारायणश्चास्ते अश्विनौ पूर्व्वपादयोः ॥
वरुणश्चार्य्यमा चैव पश्चिमे तस्य सक्थिनी ।
शिश्नं संवत्सरस्तस्य मित्रोऽपानं समाश्रितः ॥
पुच्छेऽग्निश्च महेन्द्रश्च कश्यपोऽथ ततो ध्रुवः ।
तारका शिशुमारस्य नास्तमेति चतुष्टयम् ॥
इत्येष सन्निवेशोऽयं पृथिव्यां ज्योतिषां तथा ।
द्वीपानामुदधीनाञ्च पर्व्वतानाञ्च कीर्त्तितः ॥
वर्षाणाञ्च नदीनाञ्च ये च तेषु वसन्ति वै ।
तैषां स्वरूपमाख्यातं संक्षेपः श्रूयतां पुनः ॥
पदन्तु वैष्णवः कायस्ततो विप्र वसुन्धरा ।
पद्माकारा समुद्भूता पर्व्वताब्ध्यादिसंयुता ॥
ज्योतींषि विष्णुर्भुवनानि विष्णु-
र्वनानि विष्णुर्विदिशो दिशश्च ।
नद्यः समुद्राश्च स एव सर्व्वं
यदस्ति यन्नास्ति च विप्रवर्य्य ॥
ज्ञानस्वरूपो भगवान् यतोऽसा
वशेषमूर्त्तिर्न तु वस्तुभूतः ।
ततो हि शैलाब्धिधरादिभेदान्
जानीहि विज्ञानविज्म्भितानि ॥
यदा हि शुद्धं निजरूपसर्व्वं
कर्म्मक्षये ज्ञानमयास्तदोषम् ।
तदा हि सङ्कल्पतरोः फलानि
भवन्ति नो वस्तुषु वस्तुभेदाः ॥
महोघटत्वं घटतः कपालिका
कपालिकाचूर्णरजस्ततोऽप्यनुः ।
जनैः स्वकर्म्मस्तिमितात्मनिश्चयै-
सलक्ष्यते वस्तु किमत्र वस्तु ॥”
इति विष्णुपुराणे २ अंशे १२ अध्यायः ॥ * ॥
अपि च । “केचिदेतज्ज्योतिरनीकं शिशुमार-
संस्थानेन भगवतो वासुदेवस्य योगधारणाया-
मनुवर्णयन्ति । यस्य पुच्छाग्रेऽवाक्शिरसः
कुण्डलीभूतदेहस्य घ्रुव उपकॢप्तः । तस्य
लाङ्गूले प्रजापतिः अग्निरिन्द्रो धर्म्म इति
पुच्छमूले धाता विधाता च कट्यां सप्तर्षयः ॥
तस्य दक्षिणावर्त्तकुण्डलीभूतशरीरस्य यान्यु-
दगयनानि दक्षिणपार्श्वे नक्षत्राणि उपकल्प-
यन्ति । दक्षिणायनानि तु सव्ये यथा शिशु-
मारस्य कुण्डलाभोगसन्निवेशस्य पार्श्वयोरुभयो-
रप्यवयवाः समसंख्या भवन्ति । पृष्ठे त्वजवीथी
आंकाशगङ्गा चोदरतः । पुनर्व्वसुपुष्यौ दक्षिण-
वामयोः श्रोण्योराद्राश्लेषा च दक्षिणवामयोः
पादयोरभिजिदुत्तराषाढे दक्षिणवामयोर्नासि-
कयोर्ययासंख्यं श्रवणपूर्वाषाढे दक्षिणवामयो-
र्लोचनयोर्धनिष्ठामूलञ्च दक्षिणवामयोः कर्णयो
र्मघादीन्यष्टनक्षत्राणि दक्षिणायनानि वाम-
पार्श्ववध्निषु युञ्जीत । वध्निषु अस्थिषु । तथैव
मृगशीर्षादीन्युदगयनानि दक्षिणपार्श्वेषु प्राति
लोम्येन युञ्जीत । शतभिषा ज्येष्ठे स्कन्धयो-
र्दक्षिणवामयोर्न्यसेत् । उत्तराहनावगस्त्यः अध-
राहनौ यमः मुखे चाङ्गारकः शनैश्चर उपस्थे
बृहस्पतिः ककुदि वक्षस्यादित्यो हृदये नारा-
यणो मनसि चन्द्रो नाभ्यामुशनास्तनयोरश्विनौ
बुधः प्राणापानयो राहुर्गले केतवः सर्व्वाङ्गेषु
रामसु सर्व्वे तारागणाः । एतदुहैव भगवतो
विष्णोः सर्व्वदेवतामयं रूपमहरहः सन्ध्यायां
प्रयतो वाग्यतो निरीक्षमाण उपतिष्ठेत नमो
नमो ज्योतिर्लोकाय कालायनायानिमिषां
पतये महापुरुषायाभिधीमहीति ।
ग्रहर्क्षतारामयमाधिदैविकं
पापापहं मन्त्रकृतां त्रिकालम् ।
नमस्यतः स्मरतो वा त्रिकालं
नश्येत तत्कालजमाशु पापम् ॥”
इति श्राभागवते ५ स्कन्धे शिशुमारसंस्थानम्
२३ अध्यायः ॥

शिशुवाहकः, पुं, (शिशुं वहतीति । वह + ण्वुल् ।

वनच्छागलः । इति हेमचन्द्रः ॥ बालकवोढरि,
त्रि ॥

शिशुवाह्यकः, पुं, (शिशुर्वाह्यो यस्य । ततः कन् ।

वनच्छागः । इति त्रिकाण्डशेषः ॥

शिश्नः, पुं, (शशतीति । शश + बाहुलकात् नक्-

प्रत्ययेन साधुः ।) मेढ्रः । इत्यमरः ॥ (यथा,
भागवते । २ । ६ । ८ ।
“पंसः शिश्न उपस्थस्तु प्रजात्यानन्दनिर्वृतेः ॥”)
अस्य पर्य्यायः लिङ्गशब्दे द्रष्टव्यः ॥

शिश्विदानः, त्रि, (श्वेतितुमिच्छतीति । श्वित +

सन् + “श्वितेर्दश्च ।” उणा० २ । ९३ । इति आनच्
सनो लुक् तकारस्य च दकारः । पापकर्म्मा ।
तत्पर्य्यायः । कृष्णकर्म्मा २ । इत्यमरः ॥ द्वे
पापाचारे । शश्वन्निन्द्यतेऽसौ शिश्विदानो मनी-
षादिः द्वितालव्यः । कृष्णं पापाचारत्वात्
मलिनं कर्म्मास्य कृष्णकर्म्मा । केचित्तु अकृष्ण-
कर्म्मा इति पठन्ति । द्वे निष्पापे । श्विदि शौक्ले
इत्यस्य काने शिश्विदानः । अकृष्णं निष्पाप-
त्वात् शुक्लं कर्म्मास्य अकृष्णकर्म्मा शुक्लकर्म्मा
इत्यर्थः । इति व्याचक्षते च । इति भरतः ॥ * ॥
“शिश्विदानः कृष्णकर्म्मा शुक्लकर्मेति कस्य-
चित् ॥”
इति जटाधरः ॥
(यथा, प्रद्युम्नविजये । ७ । अङ्के ।
“खाङ्गिक ! छिद्यतां छिद्यतां एष क्षुद्रः
शिश्विदानः ॥”)

शिष, वधे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) शेषति । इति दुर्गादासः ॥

शिष, ऌ घ औ विशेषे । इति कविकल्पद्रुमः ॥

(रुधा०-पर०-सक०-अनिट् ।) विशेष उप-
रञ्जनम् । ऌ, अशिषत् । ध, विशिनष्टि स्मरं
मूर्त्त्या यः । इति हलायुधः । मूर्त्तिविशिष्टं
करोति इत्यर्थः । औ, शेष्टा । इति दुर्गादासः ।

शिष, कि असर्व्वोपयोगे । इति कविकल्पद्रुमः ॥

(चुरा०-पक्षे-भ्वा०-सक०-सेट् । असर्व्वोप-
योगः परिशेषीकरणम् । कि, शेषयति शेषति
यशोराशिं लोकः अवशिष्टं करोति इत्यर्थः ।
वेरतिशायने शिष किरनुवर्त्तते । कि, विशेषयति
विशेषति सम्पत्त्या भूपं विधिः । इति दुर्गा-
दासः ॥

शिष्टः, त्रि, (शास + क्तः । “शास इदङ्हलोः ।”

६ । ४ । ३४ । इति उपधाया इकारः ।
“शासिवसिघसीनाञ्च ।” ८ । ३ । ६० इति सस्य
षः ।) शान्तः । सुबुद्धिः । धीरः । तस्य
लक्षणं यथा, --
“न पानिपादचपलो न नेत्रचपलो मुनिः ।
न च वागङ्गचपल इति शिष्टस्य लक्षणम् ॥”
इति महाभारते अश्वमेधपर्व्व ॥
अपिच ।
“धर्म्मो नाभिगतो यैस्तु वेदः सपरिबृंहणः ।
ते शिष्ठा ब्राह्मणाः प्रोक्ता नित्यमात्मगुणा-
न्विताः ॥”
इति कौर्म उपविभागे २४ अध्यायः ॥ * ॥
अन्यच्च ।
“विशेषशब्दनिष्ठस्तु शेषः शिष्टः प्रचक्षते ।
मन्वन्तरेषु ये शिष्टा इहतिष्ठन्ति धार्म्मिकाः ॥
मनुः सप्तर्षयश्चव लोकसन्तानकारणात् ।
तिष्ठन्तीह च धर्माथं तान् शिष्टान् परिचक्षते ।
तैः शिष्टैः पालितधर्म्मः स्थाप्यते वै युगे युगे ॥”
इति मात्स्ये १२० अध्यायः ॥
(अवशिष्टः । यथा, गीतायाम् । ४ । ३० ।
“यज्ञशिष्टामृतभुजो यान्ति ब्रह्मसनातनम् ॥”

शिष्टाचारः, पुं, (शिष्ट आचारः । शिष्टानामा-

चारो वा ।) साधुव्यवहारः । यथा, --
“ततः स्मार्त्तः स्मृतो धर्म्मो वर्णाश्रमविभागशः ।
एवं वै द्विविधो धर्म्मः शिष्टाचारः स उच्यते ॥
पृष्ठ ५/१०९
त्रयी वार्त्ता दण्डनीतिः प्रजा वर्णाश्रमेज्यया ।
शिष्टैराचर्य्यते यस्मात् शिष्टाचारः स शाश्वतः ॥
दानं यत्यं तपोऽलोभो विद्येज्या पूजनं दमः ।
अष्टौ वानि चरित्राणि शिष्टाचारस्य लक्ष-
णम् ॥
शिष्टा यस्माच्चरन्त्येनं मनुः सप्तर्षयश्च ये ।
मन्वन्तरेषु सर्व्वेषु शिष्टाचारस्ततः स्मृतः ॥
श्रुतिस्मृतिभ्यां विहितो धर्म्मो वर्णाश्रमात्मकः ।
शिष्टाचारविवृद्धस्तु धर्म्मः स साधुसम्मतः ॥”
इति मात्स्ये १२० अध्यायः ॥

शिष्टिः, स्त्री, (शाम + क्तिन् । “शास इदङ्हलोः ।”

६ । ४ । ३४ । इति उपधाया इः ।) आज्ञा ।
शामनम् । इत्यमरः ॥ (यथा, मनुः । ४ । १६४ ।
“अन्यत्र पुत्त्रात् शिष्याद्वा शिष्ट्यर्थं ताडयेत्तु
तौ ॥”)

शिष्यः त्रि, (शिष्यतेऽसाविति । शास + “एतिस्तु-

शास्वृदृजुषः क्यप् ।” ३ । १ । १०९ । इति क्यप् ।
“शाम इदङ्हलोः ।” ६ । ४ । ३४ । इति इः । “शास-
वमीति” । ८ । ३ । ६० । इति षः ।) उपदेश्यः । तत्-
पर्य्यायः । छात्रः २ अन्तेवासी ३ । इत्यमरः ॥
अन्तेसत् ४ । अन्तेषदः ५ । यथा, --
“छात्रान्तेवासिशिष्यान्तेषद एकार्थता इमे ॥”
इति जटाधरः ॥
तस्य लक्षणं यथा, --
“वाङ्मनः कायवसुभिर्गुरुशुश्रूषणे रतः ।
एतादृशगुणोपेतः शिष्यो भवति नारद ॥
देवताचार्य्यशुश्रूषां मनोवाक्कायकर्म्मभिः ।
शुद्धभावो महोत्साहो बोद्धा शिष्य इति
स्मृतः ॥”
इति दीक्षातत्त्वम् ॥
अपिच ।
“शान्तो विनीतः शुद्धात्मा श्रद्धावान् धारण-
क्षमः ।
समर्थश्च कुलीनश्च प्राज्ञः मच्चरितो व्रती ।
एवमादिगुणैर्युक्तः शिष्यो भवति नान्यथा ॥” * ॥
निषिद्धशिष्यलक्षणमाह ।
“पापिने क्रूरचेष्टाय शठाय कृपणाय च ।
दीनायाचारशून्याय मन्त्रद्वेषपराय च ॥
निन्दकाय च मूर्खाय तीर्थद्वेषपराय च ।
भक्तिहीनाय देवेशि न देया मलिनाय च ॥
मुरुता शिष्यता वापि तयोर्वत्सरवासतः ॥”
तथा चोक्तं सारसंग्रहे ।
“मद्गुरुः स्वाश्रितं शिष्यं वर्षमेकं परीक्षयेत् ।
वर्षेकेन भवेद्योग्यो विप्रो गुणसमन्वितः ॥
वर्षद्वयेन राजन्यो वैश्यस्तु वत्सरैस्त्रिभिः ।
चतुर्भिर्वत्सरैः शूद्रः कथिता शिष्ययोग्यता ॥”
इति तन्त्रसारः ॥ * ॥
अन्यच्च ।
“आचारे शासयेद्यस्तु स आचार्य्य उदाहृत ।
यस्त्वाचार्य्यपराधीनस्तद्वाक्यं शास्यते हृदि ।
शामने स्थिरवृत्तिश्च शिष्यः सद्भिरुदाहृतः ॥
एवं लक्षणसंयुक्तं शिष्यं सर्व्वगुणान्वितम् ।
अध्यापयेद्विधानेन मन्त्ररत्नमनुत्तमम् ॥”
इति पाद्मोत्तरखण्डे २५ अध्यायः ॥ * ॥
पुत्त्रशिष्ययोस्तुल्यत्वं यथा, --
“यथा पुत्त्रस्तथा शिष्यो न भेदः पत्त्रशिष्ययोः ।
तर्पणे पिण्डदाने च पालने परिपोषणे ॥
यथाग्निदाता पुत्त्रश्च तथा शिष्यश्च निश्चितम् ।
इतीदं काण्वशाखायामुवाच कमलोद्भवः ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ६१ अध्यायः ॥
पुत्त्रशिष्याभ्यां विशेषो यथा, --
सनत्कुमार उवाच ।
“पुत्त्र एवास्मि देवेश यतः शिष्योऽस्म्यहं विभो ।
न विशेषोऽस्ति पुत्त्रस्य शिष्यस्य च पितामह ॥
ब्रह्मोवाच ।
विशेषः शिष्यपुत्त्राभ्यां विद्यते धर्म्मनन्दन ।
धर्म्मकर्म्मसमायोगे तथापि गदतः शृणु ॥
पुन्नाम्नो नरकात्त्राति पुत्त्रस्तेनेह गीयते ।
शेषपापहरः शिष्यैतीयं वैदिकी श्रुतिः ॥
सनत् कुमार उवाच ।
कोऽयं पुन्नामको देव नरकात्त्राति पुत्त्रकः ।
कस्माच्छेषं ततः पापं हरेच्छिष्यश्च तद्वद ॥”
इति वामने ५७ अध्यायः ॥
ब्रह्मोवाच ।
“अतः परं प्रवक्ष्यामि शेषपापस्य लक्षणम् ।
ऋणं देवर्षिभूतानां मनुष्याणां विशेषतः ॥
पितॄणाञ्च द्विजश्रेष्ठ सर्व्ववर्णेषु चैकतः ।
ॐ कारादिनिवृत्तिश्च पापकार्य्यकृतिश्च या ॥
हत्यादिकं महापापं त्वगम्यागमनं तथा ।
घृतादिविक्रयं घोरं चण्डालादिप्रतिग्रहम् ॥
स्वदोषगोपनं पापं परदोषप्रकाशनम् ।
ईर्ष्याविद्धं वाक्यदुष्टं निष्ठुरत्वं षडम्बरम् ॥
ढाकित्वं तालवादित्वं नाम्ना वाचाप्यधर्म्मजम् ।
मारणत्वमधार्म्मिक्यं नरकावहमुच्यते ॥
एतैः पापैश्च संयुक्तः पात्यते यदि शङ्करम् ।
ज्ञानाधिकमशेषेण शेषात् पापात् जयेत्ततः ॥
शारीरं वाचिकं यत्तु मानसं त्रिविधं तथा ।
पितृमातृकृतं यच्च कृतं यच्चाश्रितैर्नरैः ॥
ज्ञातिभिर्ब्बान्धवैश्चापि तस्मिन् जन्मनि धर्म्मज
तत्सर्व्वं विलयं याति कर्म्मणा सुतशिष्ययोः ॥
तस्मात् पुत्त्रश्च शिष्यश्च विधातव्यो विपश्चिता ।
श्रुतमर्थमभिध्याय शिष्यात् श्रेष्ठतरः सुतः ।
शेषात्तारयते शिष्यः सर्व्वत्रैव हि पुत्त्रकः ॥”
इति वामने ५८ अध्यायः ॥

शिह्लः, पुं, शिह्लकः । इति शब्दचन्द्रिका ॥

शिह्लकः, पुं, (शिह्ल एव । स्वार्थे कन् ।) गन्धद्रव्य-

विशेषः । शिलारसः । शिह्ला इति लोवान् इति
च भाषा । तत्पर्य्यायः । कपिनामा २ कपिः ३
तैलम् ४ कृत्रिमम् ५ कपिलः ६ चला ७
तुरुष्कः ८ मुक्तिमुक्तः ९ पिण्डातः १० वरः ११ ।
इति रत्नमाला ॥ पिण्डकः १२ सिह्वः १३
यावनः १४ । इत्यमरः ॥ अस्यानुलेपनगुणाः ।
“शिह्नकः परमा मांसी देवदारु मुरा नखम् ।
सर्व्वेऽमी परमा लक्ष्मी रक्षोघ्ना ज्वरनाशनाः ॥”
रौक्ष्यघ्ना इति वा पाठः । इति राजवल्लभः ॥
अन्यत् तुरुष्कशब्दे द्रष्टव्यम् ॥

शी, ङ ल ञि स्वप्ने । इति कविकल्पद्रुमः ॥ (अदा०-

आत्म०-अक०-सेट् । ङ ल, शेते । ञि, शयि-
तोऽस्ति । मण्डपे शयामीति गणकृतानित्यत्वात्
परस्मैपदे शपोऽलुग्भावे चेति रमानाथः ।
वस्तुतस्तु शेते शयः पश्चात् शय इवाचरतीति
क्वौ साध्यम् । इति दुर्गादामः ॥

शीः, स्त्री, (शी + क्विप् ।) शान्तिः । शयनम् ।

इति शब्दरत्नावली ॥

शीक, ऋ ङ सेके । सर्पे । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-सक०-सेट् ।) ऋ, अशिशीकत् ।
ङ, शीकते । इति दुर्गादासः ॥

शीक, कि आमर्शे । सेके । इति कविकल्पद्रुमः ॥

(चुरा०-पक्षे भ्वा०-सक०-सेट् ।) कि, शीक-
यति शीकति । आमर्शः स्पर्शः । तथा च ।
“चन्द्रावतीतरङ्गार्द्रा शीकयन्ति च यद्वपुः ।”
इति हलायुधः ॥
वायवः स्पृशन्ति इत्यर्थः । भट्टमल्लस्तु आमर्षण
इति मूर्द्ध्वन्यषमध्यं पठित्वा क्षमार्थमाह । इति
दुर्गादासः ॥

शीकरं, क्ली, (शीक्यतेऽनेनेति । शीक + बाहु-

लकात् अरः ।) शरलद्रवः । इति मेदिनी ॥

शीकरः, पं, (शीक्यतेऽनेनेति । शीक + बाहुलकात्

अरः । इत्युज्ज्वलदत्तः । ३ । १३१ ।) वातादिप्रेरित-
जलकणा । इत्यमरः ॥ (यथा, कुमारे । १ । १५ ।
“भागीरथीनिर्झरशीकराणां
वोढा मुहुः कम्पितदेवदारुः ॥”)
वायुः । इति मेदिनी ॥

शीघ्रं, क्ली, (शिङ्घति व्याप्नोतीति । शिघ व्याप्तौ

+ रक्प्रत्ययेन साधु ।) विलम्बाभावः । तत्-
पर्य्यायः । त्वरितम् २ लघु ३ क्षिप्रम् ४ अरम् ५
द्रुतम् ६ सत्वरम् ७ चपलम् ८ तूर्णम् ९ अवि-
लम्बितम् १० आशु ११ । अव्ययाः शीघ्र-
वाचकाः यथा । स्राक् १२ झटिति १३ अञ्जसा
१४ अह्राय १५ सपदि १६ द्राक् १७ मंक्षु १८ ।
इत्यमरः ॥ तद्वैदिकपर्य्यायः । नु १ मक्षु २ द्रवत्
३ ओषम् ४ जीराः ५ जूर्णिः ६ शूर्त्ताः ७ शूघ-
नाशः ८ शीभम् ९ तृषु १० तूयम् ११ तूर्णिः १२
अजिरम् १३ भुरण्युः १४ शु १५ आशुः १६
प्राशः १७ तूतुजिः १८ तूतुजानः १९
तुज्यमानासः २० अज्वाः २१ साचिवित् २२
द्युगत् २३ ताजत् २४ तरणिः २५ वात-
रम्हा २६ । इति षड्विंशतिः क्षिप्रनामानि
इति वेदनिघण्टौ । २ । १५ ॥ लामज्जकम् ।
इति राजनिर्घण्टः ॥ (पुं, कुशवशौयाग्निवर्णस्य
पुत्त्रः । यथा, भागवते । ९ । १२ । ५ ।
“सुदर्शनोऽथाग्निवर्णः शीघ्रस्तस्य मरुः सुतः ॥”)
शीघ्रविशिष्टे, त्रि । इत्यमरः ॥ (यथा, महा-
भारते । ३ । ६७ । ६ ।
“स त्वमातिष्ठ योगं तं येन शीघ्रा हया मम ।
भवेयुरश्वाध्यक्षोऽसि वेतनं ते शतं शताः ॥”)
पृष्ठ ५/११०

शीघ्रगः, त्रि, (शीघ्रं गच्छतीति । गम् + डः ।)

द्रुतगामी । यथा, --
“हरिते रोगोऽनुतापः शस्यानामीतिभिश्च
विध्वं सः ।
कपिले शीघ्रगसत्वम्ले च्छध्वंसोऽथ दुर्भिक्षम् ॥”
इति तिथ्यादितत्त्वम् ॥
वायौ, पुं, । इत्यमरे आशुगशब्ददर्शनात् ॥
(यथा, महाभारते । ३ । ३ । २५ ।
“मनः सुपर्णो भूतासिः शीघ्रगः प्राण-
धारणः ॥”)

शीघ्रगामी, [न्] त्रि, आशुगमनशीलः । शीघ्रं

गच्छतीत्यर्थे शीघ्रशब्दपूर्व्वकगमधातोर्णिन्-
प्रत्ययेन निष्पन्नः ॥

शीघ्रचेतनः, पुं, (शीघ्रं चेततीति । चित + ल्युः ।)

कुक्कुरः । इति शब्दमाला ॥ द्रुतचेतनायुक्ते, त्रि

शीघ्रजन्मा, [न्] पुं, (शीघ्रं जन्म यस्य ।) करञ्ज-

विशेषः । कांटाकरञ्ज इति भाषा । यथा, --
“पूतीकः पांशुलः पोष्टा शीघ्रजन्मा कुवृत्ति-
कृत् ॥”
इति शब्दचन्द्रिका ॥

शीघ्रपुष्पः, पुं, (शीघ्रं पुष्पं यस्य ।) अगस्त्य-

वृक्षः । इति राजनिर्घ ण्टः ॥

शीघ्रवेधी, [न्] पुं, (शीघ्रं विधतीति । विध

छिद्रीकरणे + णिनिः ।) क्षिप्रशरवेधकर्त्ता ।
तत्पर्य्यायः । लघुहस्तः २ । इति हेमचन्द्रः ॥

शीघ्रा, स्त्री, दन्तीवृक्षः । इति राजनिर्घण्ठः ॥

शीघ्रीयं, त्रि, द्रुतसम्बन्धि । शीघ्रभवम् । शीघ्र-

शब्दात् णीयप्रत्ययेन निष्पन्नम् ॥

शीतं, क्ली, (श्यै ङ गतौ + क्तः । “द्रवमूर्त्ति-

स्पर्शयोः श्यः ।” ६ । १ । २४ । इति सम्प्रसार-
णम् । “हलः ।” ६ । ४ । २ । इति दीर्घः ।)
हिमगुणः । इत्यमरः ॥ (यथा, मनुः । ११ । ११४ ।
“उष्णे वर्षति शीते वा मारुते वाति वा भृशम् ।
न कुर्व्वीतात्मनस्त्राणं गोरकृत्वा तु शक्तितः ॥”)
जलम् । इति शब्दमाला ॥ त्वचम् । इति राज-
निर्घण्टः ॥ शीतं तुषारवानीरबहुवारद्रुमेषु
च इति भरतधृताजयः ॥

शीतः, पुं, (श्यै + क्तः ।) वेतसवृक्षः । बहुवारक-

वृक्षः । इत्यमरः ॥ अशनपर्णी । इति शब्द-
रत्नावली ॥ पर्पटः । निम्बः । कर्पूरः । इति
राजनिर्घण्टः ॥ हिम ऋतुः । अस्य विवरणं
हेमन्तशब्दे द्रष्टव्यम् ॥

शीतः, त्रि, (श्यै + क्तः ।) शीतलः । इत्यमरः ॥

(यथा, महाभारते । ३ । १६८ । ५० ।
“शीतस्तत्र सुखो वायुःसुगन्धो जीवनः शुचिः ॥
सर्व्वरत्नविचित्रा च भूमिः पुष्पविभूषिता ॥”)
अलसः । इति मेदिनी ॥ क्वथितः । इति
शब्दचन्द्रिका ॥ शीतलद्रव्यगुणाः । पित्त-
नाशित्वम् । बलकफवायुकारित्वम् । गुरुत्वञ्च ।
इति राजवल्लभः ॥

शीतकः, पुं, (शीत + स्वार्थे कन् ।) शीतकालः ।

सुस्थितः । दीर्घसूत्री । इति मेदिनी ॥ अशन-
पर्णी । इति शब्दरत्नावली ॥ वृश्चिकः । इति
शब्दमाला ॥ (देशविशेषः । यथा, बृहत्-
संहितायाम् । १४ । २७ ।
माणहलहूणकोहलशीतकमाण्डव्यभूत-
पुराः ॥”)

शीतकरः, पुं, (शीतः शीतलः करो यस्य ।)

चन्द्रः । इति हिमकरशब्ददर्शनात् ॥ (यथा,
बृहत्संहितायाम् । ४ । २९ ।
“भस्मनिभः परुषोऽरुणमूर्त्तिः
शीतकरः किरणैः परिहीणः ॥”)
शीतलपाणियुक्ते शीतकारिणि च त्रि ॥

शीतकषायः, पुं, (शीतस्य कषायः ।) हिम-

कषायः । यथा, --
“क्षुण्णं द्रव्यफलं सम्यक् षडभिर्जलपलैः प्लुतम् ।
शर्व्वरीमुषितः स स्याद्धिमशीतकषायकः ॥”)
इति वैद्यकम् ॥

शीतकालः, पुं, (शीतस्य कालः ।) हिम ऋतुः ।

स तु अग्रहायणपौषमासद्वयकालात्मकः । तत्-
पर्य्यायः । शीतकः २ । इति मेदिनी ॥ हेमन्तः
३ । इत्यमरः ॥ सहाः ४ । इति जटाधरः ॥
हैमनः ५ । इति शब्दरत्नावली ॥ यथा, --
“कूपोदकं वटच्छाया श्यामा स्त्री इष्टकागृहम् ।
शीतकाले भवेदुष्णं उष्णकालेच शीतलम् ॥”
इति चाणक्यम् ॥

शीतकिरणः, पुं, (शीतं शीतलं किरणं यस्य ।)

चन्द्रः । यथा, --
“कान्ते कोऽयमुदेति शीतकिरणो जातः
कुतो वारिधौ
कस्ते सुन्दरि सोदरः करमहो दत्ते त्वदीये
स्तने ।
धन्या त्वं युवती सती कुलवती भ्रातापि धन्यस्तव
इत्थं श्रीपरिहासकेलिकलया मुग्धो हरिः पातु
वः ॥”
इत्युद्भटः ॥

शीतकुम्भः, पुं, करवीरः । इति रत्नमाला ॥

शीतकुम्भी, स्त्री, जलजवृक्षविशेषः । शीउली-

छोप् इति भाषा । यथा, --
“शीतली शीतकुम्भी च शुक्रपुष्पा जलोद्भवा ।”
इति रत्नमाला ॥

शीतकृच्छ्रः, पुं, व्रतविशेषः । यथा । “यदा तु शीतं

क्षीरादि पीयते तदा शीतकृच्छ्रः ।
“त्र्यहं शीतं पिबेत्तोयं त्र्यहं शीतं पयः पिबेत् ।
त्र्यहं शीतं घृतं पीत्वा वायुभक्षः परत्र्यहम् ॥”
इति यमस्मरणात् । इति मिताक्षरा ॥

शीतक्षारं, क्ली, (शीतः क्षारो यस्य ।) श्वेत-

टङ्कणम् । इति राजनिर्घण्टः ॥

शीतगन्धं, क्ली, (शीतो गन्धो यस्य ।) श्वेत-

चन्दनम् । इति । राजनिर्घण्टः ॥

शीतगुः, पुं, (शीता गौः किरणो यस्य ।) चन्द्रः ।

इति वोपदेवः ॥ (यथा, साहित्यदर्पणे । १० ।
“भुजङ्गकुण्डली व्यक्तशशिशुभ्रांशुशीतगुः ॥”)

शीतचम्पकः, पुं, दर्पणम् । प्रदीपः । इति मेदिनी-

शब्दरत्नावल्यौ ॥

शीतपर्णी, स्त्री, (शीतं पर्णं यस्याः । ङीष् ।)

अर्कपुष्पिका । इति रत्नमाला ॥ अर्कहुली इति
भाषा ॥

शीतपल्लवा, स्त्री, (शीतं पल्लवं यस्याः ।) भूमि-

जम्बुः । इति रत्नमाला ॥

शीतपाकिनी, स्त्री, (शीते पाकोऽस्या अस्तीति ।

इनिः !) काकोली । इति शब्दमाला ॥ महा-
समङ्गा । इति राजनिर्घण्टः ॥

शीतपाकी, स्त्री, (शीते पाको यस्याः । ङीष् ।)

वाट्यालकः । इति शब्दरत्नावली ॥ काकोली ।
इति रत्नमाला ॥ गुञ्जा । इति राजनिर्घण्टः ॥

शीतपुष्प, क्ली, (शीतं पुष्पं यस्य ।) परिपेलम् ।

इति राजनिर्घण्टः ॥

शीतपुष्पः, पुं, (शीतं पुष्पं यस्य ।) शिरीषवृक्षः ।

इति राजनिर्घण्टः ॥

शीतपुष्पकं, क्ली, (शीतं पुष्पमिव । कन् ।) शैले-

यम् । इति शब्दचन्द्रिका ॥

शीतपुष्पकः, पुं, (शीतं पुष्पं यस्य । बहुब्रीहौ

कन्) अर्कवृक्षः । इति राजनिर्घण्टः ॥

शीतपुष्पा, स्त्री, (शीतं पुष्पं यस्याः ।) अति-

वला । इति राजनिर्घण्टः ॥

शीतप्रभः, पुं, (शीता प्रभा यस्य ।) कर्पूरः ।

इति राजनिर्घण्टः ॥ शीतलप्रभायुक्ते, त्रि ॥

शीतप्रियः, पुं, (शीतः प्रियो यस्य ।) पर्पटः ।

इति राजनिर्घण्टः ॥

शीतफलः, पुं, (शीते फलं यस्य ।) उडुम्बरः ।

शेलुः । इति राजनिर्घण्टः ॥

शीतबला, स्त्री, महासमङ्गा । इति राजनिर्घण्टः ॥

शीतभानुः, पुं, (शीतो भानुर्यस्य ।) चन्द्रः । इति

शब्दरत्नावली ॥

शीतभीरुः, स्त्री, (शीताद्भीरुः ।) मल्लिका ।

इत्यमरः । शीतभीते, त्रि ॥

शीतमञ्जरी, स्त्री, (शीता मञ्जरी यस्याः ।)

शेफाली । इति राजनिर्घ ण्टः ॥

शीतमयूखः, पुं, (शीतो मयूखो यस्य ।) चन्द्रः ।

कर्पूरः । इति मेदिनी ॥

शीतमरीचिः, पुं, (शीता मरीचिर्यस्य ।) चन्द्रः ।

कर्पूरः । इति शब्दरत्नावली ॥

शीतमूलकं, क्ली, (शीतं मूलं यस्य । बहुब्रीहौ

कन् ।) उशीरम् । इति राजनिर्घ ण्टः ॥
शीतलमूलयुक्ते, त्रि ॥

शीतरम्यः, पुं, (शीते रम्यः ।) प्रदीपः । इति

जटाधरः ॥ शीतरमणीये, त्रि ॥

शीतरश्मिः, पुं, (शीतो रश्मिर्यस्य ।) चन्द्रः । यथा,

“हेलिः सूर्य्यश्चन्द्रमाः शीतरश्मिः ।”
इति ज्योतिस्तत्त्वम् ॥
कर्पूरश्च ॥ चन्द्रसंज्ञक इति दर्शनात् ॥

शीतलं, क्ली, (शीतं लातीति । ला + कः ।) पुष्प-

कासीसम् । शैलजम् । मलयोद्भवम् । तत्तु
चन्दनम् । इति मेदिनी ॥ पद्मकम् । मौक्तिकम् ।
पृष्ठ ५/१११
इति राजनिर्घण्टः ॥ शैत्यम् । इति शब्दरत्ना-
वली ॥ वीरणमूलम् । इति शब्दचन्द्रिका ॥

शीतलः, पुं, अशनपर्णी । इत्यमरः ॥ अर्हद्विशेषः ।

स तु चतुविंशतितीर्थङ्करमध्ये दशमतीर्थङ्करः ।
इति हेमचन्द्रः ॥ व्रतविशेषः । स तु मेष-
संक्रान्त्यां कर्त्तव्यः । चन्द्रः । इति शब्दचन्द्रिका ॥
चम्पकः । कर्पूरभेदः । रालः । इति राज-
निर्घण्टः ॥

शीतलः, त्रि, (शीतोऽस्यास्तीति । शीत + “सिध्मा-

दिभ्यश्च ।” ५ । २ । ९७ । इति लच् ।) शीत-
गुणविशिष्टः । तत्पर्य्यायः । सुषीमः २ शिशिरः
३ जडः ४ तुषारः ५ शीतः ६ हिमः ७ ।
इत्यमरः ॥

शीतलकं, क्ली, सितोत्पलम् । इति राजनिर्घण्टः ॥

शीतलकः, पुं, मरुवकः । इति राजनिर्घण्टः ॥

शीतलच्छदः, पुं, (शीतलश्छदो यस्य ।) चम्पकः ।

इति राजनिर्घण्टः ॥ शीतलपत्रञ्च ॥

शीतलजलं, क्ली, (शीतलं जलं यस्य ।) उत्पलम् ।

इति राजनिर्घण्टः ॥ हिमवारि च ॥

शीतलता, स्त्री, (शीतलस्य भावः । तल् ।) शीत-

लत्वम् । शीतलस्य भाव इत्यर्थे तद्भावे तात्व-
मिति संक्षिप्तसारसूत्रेण ताप्रत्ययनिष्पन्ना ॥

शीतलत्वं, क्ली, (शीतलस्य भावः । त्व ।) जडता ।

इति राजनिर्घण्टः ॥ शीतलता च ॥

शीतलप्रदः, पुं, (शीतलं प्रददाति । प्र + दा + कः ।)

चन्दनम् । इति केचित् ॥ हिमदातरि, त्रि ॥

शीतलवातकः, पुं, (शीतलो वातो यस्य । कन् ।)

अशनपर्णी । इति शब्दरत्नावली ॥ शीतल-
वायुयुक्ते, त्रि ॥

शीतला, स्त्री, (शीतल + स्त्रियां टाप् ।) शीतली-

वृक्षः । यथा, --
“शीतला शीतली शीतकुम्भी पाण्डरपुष्पिका ।”
इति शब्दचन्द्रिका ॥
देवीविशेषः । सा च वसन्तविस्फोटकादेरधि-
ष्ठात्री देवता । यथा, --
स्कन्द उवाच ।
“भगवन् देवदेवेश शीतलायाः स्तवं शुभम् ।
वक्तुमर्हस्यशेषेण विस्फोटकभयापहम् ॥
ईश्वर उवाच ।
नमामि शीतलां देवीं रासभस्थां दिगम्बरीम् ।
मार्ज्जनीकलसोपेतां सूर्पालङ्कृतमस्तकाम् ॥
इति स्कन्दपुराणम् ॥
अस्या विवरणं मसूरिकाशब्दे द्रष्टव्यम् ॥ कुटु-
म्बिनी । आरामशीतला । वालुका । इति
राजनिर्घ ण्टः ॥

शीतलाषष्ठी, स्त्री, (शीतला षष्ठी ।) माघशुक्ला

षष्ठी । यथा, --
“प्रसूत्या द्वादशे मासि पूज्यापत्यविवृद्धये ।
सुते जाते तथा षष्ठ्यां षष्ठी द्वादशरूपिणी ॥
वैशाखे चान्दनी षष्ठी ज्यैष्ठे चारण्यसंज्ञिता ।
आषाढे कार्द्दमी ज्ञेया श्रावणे लुण्ठनी तथा ॥
भाद्रे चपेटी विख्याता दुर्गाख्याश्वयुजे तथा ।
नाड्याख्या कार्त्तिके मासि मार्गे मूलकरूपिणी
पौषे मास्यन्नरूपा च शीतला तपसि स्मृता ।
गोरूपिणी फाल्गुने च चैत्रेऽशोका प्रकी-
र्त्तिता ॥”
इति स्कन्दपुराणम् ॥

शीतली, स्त्री, जलजवृक्षविशेषः । शिउलीछोप्

इति भाषा । तत्पर्य्यायः । शीतकुम्भी २ शुक्ल-
पुष्पा ३ जलोद्भवा ४ कालानुसारिवा ५ । इति
रत्नमाला ॥

शीतवल्कः, पुं, (शीतलो वल्को यस्य ।) उड्म्बरः ।

इति राजनिर्घण्टः ॥ शीतलवल्कले, त्रि ॥

शीतवीर्य्यकः, पुं, (शीतं वीर्य्यं यस्य । कन् ।)

प्लक्षवृक्षः । इति राजनिर्घण्टः ॥ शीतलवीर्य्य-
युक्ते, त्रि ॥

शीतशिवं, क्ली, (शीते शीतकाले शिवं मङ्गल-

प्रदम् ।) सैन्धवलवणम् । शैलेयनामगन्धद्रव्यम् ।
इत्यमरः ॥

शीतशिवः, पुं, (शीते शीतकाले शिवः शुभप्रदः ।

मधुरिका । इत्यमरः ॥ शक्तुफलावृक्षः । इति
मेदिनी ॥

शीतशिवा, स्त्री, (शीते शिवा मङ्गलप्रदा ।)

मिश्रेया । इति राजनिर्घ ण्टः ॥ शमीवृक्षः ।
इति रत्नमाला ॥

शीतशूकः, पुं, शीते शूको यस्य ।) यवः । इति

केचित् ॥ शीतलशूकयुक्ते, त्रि ॥

शीतसहः, पुं, (शीतं सहते इति । सह + अच् ।)

पीलुवृक्षः । इति जटाधरः ॥ शीतसहनीये,
त्रि ॥

शीतसहा, स्त्री, (शीतसह + टाप् ।) नीलसिन्धु-

वारः । वासन्ती । इति राजनिर्घण्टः ॥

शीता, स्त्री, रामपत्नी । इति शब्दरत्नावली ॥

लाङ्गलपद्धतिः । इत्यमरटीकायां भरतः ॥
यथा, --
“शीता नभःसरिदिति लाङ्गलपद्धतौ च
शीता दशाननरिपोः सहधर्म्मिणी च ।
शीतं स्मृतं हिमगुणे च तदन्विते च
शीतोऽलसे च बहुवारतरौ च दृष्टः ॥”
इति तालव्यादौ धरणिः ॥
अतिबला । कुटुम्बिनी । दूर्व्वा । शिल्पिका-
तृणम् । इति राजनिर्घ ण्टः ॥

शीतांशुः, पुं, (शीताः अंशवो यस्य ।) कर्पूरः ।

इति राजनिर्घ ण्टः ॥ चन्द्रः । यथा, --
“शीतांशुर्मिष्टमन्नं जनयति सततं जन्मराशौ
नराणाम् ।”
इति ज्योतिस्तत्त्वम् ॥

शीतांशुतैलं, क्ली, (शीतांशोः कर्पूरस्य तैलम् ।)

कर्पूरतैलम् । इति राजनिर्घ ण्टः ॥

शीताङ्गी, स्त्री, (शीतं अङ्गमस्याः ङीष् ।)

हंसपदीवृक्षः । इति राजनिर्घ ण्टः ॥ शीत-
लाङ्गे, त्रि ॥ (यथा, सुश्रुते । २ । ८ ।
“प्रविध्यति शिरो यातु शीताङ्गी निरपत्रपा ।
नीलोद्धतशिरा हन्ति सा गर्भं स च तां तथा ॥”)

शीतादः, पुं, (शीतमादत्ते इति । आ + दा + कः ।)

दन्तरोगविशेषः । तस्य निदानं दन्तशब्दे द्रष्ट-
व्यम् । तदौषधं यथा, --
“शीतादे हतरक्ते तु तोयनागरसर्षपान् ।
निष्क्वाथ्य त्रिफलाञ्चापि कुर्य्याद्गण्डूषधारणम् ॥
कासीसलोध्रकृष्णा मनःशिला सप्रियङ्गुतेजोह्ला
एतच्चूर्णं मधुयुक् शीतादे पूतिमांसहरम् ॥”
तेजोह्वा तेजवला ।
“तैलं घृतं वा वातघ्नं शीतादे संप्रशस्यते ।”
इति भावप्रकाशः ॥

शीताद्रिः, पुं, (शीतजनकोऽद्रिः । शीतप्रधानोऽद्रि-

रिति वा ।) हिमालयपर्व्वतः । इति केचित् ॥

शीताबला, स्त्री, महासमङ्गा । इति राजनिर्घण्टः ॥

शीतार्त्तः, त्रि, (शीतेन ऋतः पीडितः ।) शीतेन

पीडितः । तत्पर्य्यायः । शीतालुः २ । इति
जटाधरः ॥ (यथा, शिवरात्रिव्रतकथायाम् ।
“शीतार्त्तश्च क्षुधार्त्तश्च कम्पान्वितकलेवरः ।
जजागार तदा रात्रौ प्लुतो नीहारवारिणा ॥”)

शीतालुः, त्रि, (शीतं न सहते इति । शीत +

“शीतोष्णतृप्रेभ्यस्तन्न सहते ।” ५ । २ । १२२ ।
इत्यस्य वार्त्तिकोक्त्या आलुच् ।) शीतार्त्तः । इति
जटाधरः ॥

शीताश्मा, [न्] पुं, (शीतः शीतलोऽश्मा ।)

चन्द्रकान्तमणिः । इति राजनिर्घण्टः ॥ शीतल-
प्रस्तरश्च ॥

शीतीभावः, पुं, (शीत + भू + घञ् । अभूततद्भावे

च्विः ।) मोक्षः । इति त्रिकाण्डशेषः ॥ शीतल-
त्वञ्च ॥

शीतोत्तमं, क्ली, (शीतेषु वस्तुषु मध्ये उत्तमम् ।)

जलम् । इति शब्दचन्द्रिका ॥

शीत्यं, त्रि, सीत्यम् । कृष्टम् । इत्यमरटीकायां

रमानाथः ॥ शीतयोग्यञ्च ॥

शीत्कारः, पुं, (शीदितिशब्दस्य कारः करणम् ।)

वरस्त्रीणां रतिकालध्वनिः । यथा, --
“शीत्कारो रतनारीचः सुरते वरयोषिताम् ।”
इति जटाधरः ॥
(शीत्कृतिमात्रे । यथा, कथासरित्सागरे । १ । २ ।
“सन्ध्यानृत्योत्सवे ताराः करेणोद्भूय विघ्नजित् ।
शीत्कारशीकरैरन्याः कल्पयन्निव पातु वः ॥”)

शीत्कृतं, क्ली, (शीदिति शब्दस्य कृतं करणम् ।)

शीत्कारः । इति धरणिः ॥

शीधुः, पुं, क्ली, (शेतेऽनेनेति । शी + “शीङो

धुग्लग्वलञ् वानलः ।” उणा० ४ । ३८ । इति
धुक् ।) पक्वेक्षुरसकृतमद्यम् । इत्यमरभरतौ ॥

शीधुपः, त्रि, (शीधुं पातीति । पा + कः ।)

शीधुपानकर्त्ता । इति शाब्दिकाः ॥

शीधुगन्धः, पुं, (शीधोर्मद्यविशेषस्य गन्धो यत्र ।)

वकुलवृक्षः । इति त्रिकाण्डशेषः ॥ मद्यगन्धश्च ॥

शीनं, त्रि, (श्यैङ गतौ + क्तः । “द्रवमूर्त्तिस्पर्शयोः

श्यः ।” ६ । १ । २४ । इति सम्प्रसारणम् ।
“श्योऽस्पर्शे ।” ८ । २ । ४७ । इति नः ।)
घनीभूतघृतादि । इति मुग्धबोधव्याकरणम् ॥
पृष्ठ ५/११२

शीनः, पुं, (श्यै + क्तः ।) मूर्खः । अजगरः । इति

मेदिनी ॥

शीफालिका, स्त्री, शेफालिका । इत्यमरटीकायां

भरतः ॥

शीभ, ऋ ङ कथने । इति कविकल्पद्रुमः ॥ (भ्वा०

आत्म०-सक०-सेट् ।) ऋ, अशिशीभत् । ङ,
शीभते । कत्थनं प्रशंसा । इति दुर्गादासः ॥

शीभवः, पुं, शीकरः । इति शब्दरत्नावली ॥

शीभ्यः, पुं, शीभ्यते प्रशंस्यते इति । शीभ +

ण्यत् ।) शिवः । वृषः इति केचित् ॥ (त्रि,
आत्मश्लाघिभवः । जलप्रवाहभवः । क्षिप्रभवः ।
यथा, वाजसनेयसंहितायाम् । १६ । ३१ ।
“शीभ्याय च नम ऊर्म्माय ।”
“शीभृ कत्थने शीभते कत्थते इति । शीभ
आत्मश्लाघी पदाद्यच् । तत्र भवः शीभ्यः ।
शीभो जलप्रवाहो वा शीभः क्षिप्रो वा तत्र
भवाय नमः ।” इति तट्टीकायां महीधरः ॥)

शीरः, पुं, (शेते इति । शी + “स्फायितञ्चीति ।”

उणा० २ । १३ । इति रक् ।) अजगरसर्पः ।
इति शब्दरत्नावली ॥

शीरी, [न्] पुं, हरिदर्भः । इति राजनिर्घण्टः ॥

हरिद्गर्भ इति वा पाठः ॥

शीर्णं, क्ली, (शॄ + क्तः ।) स्थौणेयकम् । इति

भावप्रकाशः ॥

शीर्णं, त्रि, (शॄ + क्तः ।) कृशः । विशीर्णः । इति

मेदिनी ॥ (यथा, आर्य्यासप्तशत्याम् । ५९७ ।
“शीर्णप्रासादोपरि जिगीषुरिव कलरवः
क्वणति ॥”)

शीर्णमाला, स्त्री, पृश्निपर्णी । इति शब्दचन्द्रिका ॥

विशीर्णमाल्यञ्च ॥

शीर्णपत्रः, पुं, (शीर्णं पत्रमस्य ।) कर्णिकार-

वृक्षः । इति शब्दचन्द्रिका ॥ पट्टिकालोध्रः ।
निम्बः । इति राजनिर्घण्टः ॥ विशीर्णपत्रे,
क्ली ॥

शीर्णपर्णः, पुं, (शीर्णं पर्णमस्य ।) निम्बवृक्षः ।

इति राजनिर्घण्टः ॥ विशीर्णपत्रे, क्ली ॥

शीर्णपादः, पुं, (शीर्णौ पादौ यस्य । विमातृ-

शापादेवास्य तथात्वम् ।) यमः । इति त्रिकाण्ड-
शेषः ॥ कृशचरणश्च ॥

शीर्णपुष्पिका, स्त्री, (शीर्णं पुष्पं यस्याः । शीर्ण-

पुष्पी । ततः स्वार्थे कन् ।) अवाक्पुष्पी । इति
शब्दचन्द्रिका ॥

शीर्णवृन्तं, क्ली, (शीर्णं वृन्तं यस्य ।) वृहद्गोलम् ।

इति शब्दचन्द्रिका ॥ तरमुज् इति भाषा ।
तत्पर्य्यायः । सुखवामः २ । इति रत्नमाला ॥
सुखाशः ३ । इति केचित् ॥ अस्य गुणाः ।
कफभेदाग्निरुचिशुक्रकारित्वम् । क्षारत्वम् ।
मधुरत्वम् । आनाहप्लीहनाशित्वम् । लघु-
पाकितश्च । इति राजवल्लभः ॥

शीर्णाङ्घ्रिः, पुं, (शीर्णौ अङ्घ्री यस्य । विमातृ-

शापादवास्य तथात्वम् ।) यमः । इति हेम-
चन्द्रः । कृशपादे, त्रि ॥

शीर्व्विः, त्रि, (शृणातीति । शॄ + “जृशृस्तृजागृभ्यः

क्विन् ।” उणा० ४ । ५४ । इति किन् ।) अप-
कारकः । हिंसकः । इति सिद्धान्तकौमुदी ॥

शीर्षं, क्ली, मस्तकम् । इत्यमरः ॥ (यथा, हरि-

वंशे । १७८ । ६ ।
“शीर्षाणां वै सहस्रन्तु विहितं शार्ङ्गधन्वना ।
सहस्रञ्चैव कायानां वहन् सङ्कर्षणस्तदा ॥”)
कृष्णागुरुः । इति राजनिर्घण्टः ॥

शीर्षकं, क्ली, (शीर्षे कं सुखमस्मात् ।) शिरो-

रक्षणसन्नाहः । टोप् इति भाषा । तत्-
पर्य्यायः । शीर्षण्यम् २ शिरस्त्रम् ३ । इत्यमरः ॥
शिरोऽस्थि । इति राजनिर्घण्टः ॥ जयपराजय-
पत्रम् । यथा, याज्ञवल्क्यः ।
“तुलाग्न्यापो विषं कोषो दिव्यानीह विशुद्धये ।
महाभियोगेष्वेतानि शीर्षकस्थेऽभियोक्तरि ॥”
विशुद्धये सन्दिग्धार्थस्य सन्देहनिवृत्तये ॥ म-
हाभियोगेषु महापातकादिगुरुतराभियोगेषु ।
शीर्षकस्थे शीर्षकं प्रधानं शिरो व्यवहारस्य
चतुष्पादः जयपराजयलक्षणः । तेन दण्डो
लक्ष्यते तत्र तिष्ठतीति शीर्षकस्थः तत्प्रयुक्तदण्ड-
भागीत्यर्थः । इति दिव्यतत्त्वम् ॥

शीर्षकः, पुं, (शीर्षमिव । इवार्थे कन् ।) राहु-

ग्रहः । इति शब्दरत्नावली ॥ मस्तके, क्ली ॥

शीषंघाती, [न्] त्रि, (शीर्षं हन्तीति । हन +

“कुमारशीर्षयोर्णिनिः ।” ३ । २ । ५१ । इति
णिनिः ।) मस्तकच्छेदकः । शीर्षशब्दपूर्व्वक-
हनधातोः कर्म्मभ्यां कुमारशीर्षाभ्यां हन इति
मंक्षिप्तमारसूत्रेण णिनप्रत्ययेन निष्पन्नः ॥

शीर्षच्छेदिकः, त्रि, (शीर्षच्छेदमर्हतीति । शीर्ष-

च्छेद + ठक् ।) वधार्हः । यथा, --
“स शीर्षच्छेदिकः शीर्षच्छेद्यो यो वधमर्हति ॥”
इति हेमचन्द्रः ॥

शीर्षच्छेद्यः, त्रि, (शीर्षच्छेदं नित्यमर्हतीति ।

“शीर्षच्छेदात यच्च ।” ५ । १ । ६५ । इति यत ।)
मस्तकच्छे दनोपयक्तः । वध्यः । इत्यमरः ॥
(यथा, उत्तरचरिते २ अङ्के ।
“शम्वको नाम बृषलः पृथिव्यां तप्यते तपः ।
शीर्षच्छेद्यः सते राम तं हत्वा जीवय द्विजम् ॥”)
शीर्षण्यं, क्ली, (शिरसे हितम् । शिरस् +
“शरीरावयवात् यत् ।” ५ । १ । ६ । इति यत् । “ये
च तद्धिते ।” ६ । १ । ६१ । इति शिरसः शीर्ष-
न्नादेशः ।) शीर्षकम् । शिरस्त्रम् । इत्यमरः ॥
त्रीणि शिरोरक्षणमन्नाहे टोप् इति ख्याते ।
शीर्षे कं सुखमस्मात् शीर्षकम् । शीर्षमारो
हति शीर्षण्यं ढघे कादिति यः । शिरस्त्रायते
शिरस्त्रं डः । इति भरतः ॥

शीर्षण्यः, पुं, (शिरसि भवः । शिरस + “शरीरा-

वयवाच्च ।” ४ । ३ । ५५ । इति यत् । “वा
केशेषु ।” ६ । १ । ६१ । इत्यस्य वार्त्तिकोक्त्या
शीर्षन्नादेशः ।) विशदकचः । तत्पर्य्यायः ।
शिरस्यः २ । इत्यमरः ॥ द्वे स्वतः स्नानादिना
वा निर्म्मले अन्योन्यासंपृक्ते केशे । शीर्षे भवं
शीर्षण्यं ढघे कादिति यः । पाददन्तेत्यादिना
शीर्षस्य शीर्षणादेशः । इति भरतः ॥ (शिरसि-
निबद्धे, त्रि । यथा, ऋग्वेदे । १ । १६२ । ८ ।
“शीर्षण्या रसना रज्जुरस्य ।”
“शीर्षण्या शिरसि बद्धा रसना मेखला इव ।”
इति तद्भाव्ये सायणः ॥ * ॥ श्रेष्ठे च त्रि । यथा,
भागवते । ५ । ४ । १५ ।
“यद्यच्छीर्षण्याचरितं तत्तदनुवर्त्तते लोकः ॥”
शीर्षण्यः श्रेष्ठस्तेनाचरितम ।” इति तट्टीका ॥)

शीर्षरक्षं, क्ली, (शीर्षं मस्तकं रक्षतीति । रक्ष +

अण् ।) शिरस्त्राणम् । यथा, --
“शिरस्त्रं शीर्षरक्षञ्च शीर्षण्यं शीर्षकञ्च तत् ।”
इति हारावली । ७३ ॥

शीर्षोदयः, पुं, (शीर्षे शीर्षदेशे उदयो यस्य ।)

मिथुन-सिंह-कन्या-तुला-वृश्चिक-कुम्भ-मीन-
लग्नरूपः । यथा, --
“अजगोपतियुग्मञ्च कर्किधन्विमृगास्तथा ।
निशासंज्ञाः स्मृताश्चैते शेषाश्चान्ये दिना-
त्मकाः ॥
निशासंज्ञा विमिथुनाः स्मृताः पृष्ठोदयास्तथा ॥
शेषाः शीर्षोदया ह्येते मीनश्चोभयसंज्ञकः ॥”
इति ज्योतिस्तत्त्वम् ॥

शील, ञि समाधौ । इति कविकल्पद्रुमः ॥ (म्वा०

पर०-सक०-सेट् ।) ञि, शीलितोऽस्ति ।
समाधिः सेवानुभावनं प्रवृत्तिर्व्वा । यः शीलति
सदा धर्म्ममिति हलायुधः । इति दुर्गादासः ॥

शील, त् क अभ्यासे । अतिशायने । इति कवि-

कल्पद्रुमः ॥ (अदन्त चुरा०-पर०-सक०-सेट् ।)
अतिशायनं अतिशयकरणम् । तालव्यादि ।
अशिशीलत् । उपधारणे इत्यन्ये । शीलय
नीलनिचोलमिति जयदेवः । इति दुर्गादासः ॥

शील, क्ली, (शीलयतीति । शीलत क अति-

शायन + अच् । यद्वा शोङ् स्वप्ने + “शीङो धुक्
लक् वलञ, वालनः ।” उणा० ४ । ३८ । इति
लक् । अर्द्धर्च्चादित्वात् पुलिङ्गमपि ।) स्वभावः ।
सद्वृत्तम् । इत्यमरमेदिन्यौ ॥ (यथा, रामा-
यणे । २ । ३९ । २४ ।
“साध्वीनान्तुस्थितानान्तु शीले सत्य श्रुते स्थिते
स्त्रीणां पवित्रं परमं पतिरेको विशिष्यते ॥”)
ब्रह्मण्यतादित्रयोदशविधधर्म्ममूलम् । रागद्वेष-
वर्जनम् । यथा, --
“वेदोऽखिलो धर्म्ममूलं स्मृतिशीले च तद्-
विदाम् ।
आचारश्चैव साधूनामात्मनस्तुष्टिरेव ॥”
इति मानवे २ अध्यायः ॥ * ॥
शीलं ब्रह्मण्यतादिरूपम् । तदाह हारीतः ।
ब्रह्मण्यता देवपितृभक्तता सौम्यता अपरोप-
तापिता अनसूयता मृदुता अपारुष्यं मैत्रता
प्रियवादित्वं कृतज्ञता शरण्यता कारुण्यं
प्रशान्तिश्चेति त्रयोदशविधं शीलम् । गोविन्द-
राजस्तु । शीलं रागद्वे षपरित्याग इत्याह ।
इति तट्टीकायां कुक्कूकभट्टः ॥
पृष्ठ ५/११३

शीलः, पुं, (शील अतिशायने + अच् ।) अज-

गरसर्पः । इति शब्दरत्नावली ॥ चरित्रम् ।
इत्यमरटीकायां नयनानन्दः ॥

शीलनं, क्ली, (शील + ल्युट् ।) अभ्यासनम् ।

(यथा, महाभारते । १२ । ३२१ । ४३ ।
“पुरा वृका भयङ्करा मनुष्यदेहगोचराः ।
अभिद्रवन्ति सर्व्वतो यतस्व पुण्यशीलने ॥”)
अतिशायनम् । उपधारणम् । सेवानुभावनम् ।
प्रवर्त्तनम् । इति शोलधातोरनट्प्रत्ययेन निष्प-
न्नम् ॥ पाठनिश्चयः । यथा, --
“भविनी गुणनी शीलनं स्मृतम् ।”
इति ब्रह्मवर्गे त्रिकाण्डशेषः ॥

शीलवान्, [त्] त्रि, (शीलमस्यास्तीति । शील +

मतुप् । मस्य वः ।) शीलविशिष्टः । सत्-
स्वभावः । यथा, --
“पथ्याशिनां शीलवतां नराणां
सद्वृत्तभाजां विजितेन्द्रियाणाम् ।
एवंविधानामिदमायुरत्र
चिन्त्यं सदा वृद्धमुनिप्रवादः ॥”
इति मलमासतत्त्वम् ॥
सद्वृत्तः । इति शीलशब्दार्थदर्शनात् ॥

शीला, स्त्री, (शीलमस्या अस्तीति । शील + अच् ।

टाप् ।) कौण्डिन्यमुनिपत्नी । यथा, --
“मध्याह्ने भोज्यवेलायां समुत्तीर्य्य सरित्तटे ।
ददर्श शीला सा स्त्रीणां समूहं रक्तवास-
साम् ॥”
इति तिथ्यादितत्त्वम् ॥

शीलितं, क्ली, (शील + क्तः ।) चीर्णम् । इति

त्रिकाण्डशेषः ॥ अभ्यस्ते, त्रि ॥

शीवलं, क्ली, (शी + बाहुलकात् वलः गुणाभा-

वश्च ।) शैलेयम् । शैवालम् । इति मेदिनी ॥

शीवा, [न्] पुं, (शेते इति । शी + “शीङ्क्रुशि-

रुहीति ।” उणा ० ४ । ११३ । इति क्वनिप् ।)
अजगरसर्पः । इति सिद्धान्तकौमुदी ॥

शुक, सर्पे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) शोकति । सर्पो गमनम् । इति
दुर्गादासः ॥

शुक्, [च्] स्त्री, (शुच् शोके + क्विप् ।) शोकः ।

इत्यमरः ॥ (यथा, रघुः । १२ । ७५ ।
“कामं जीवति मे नाथः इति सा विजहौ
शुचम् ।
प्राङ्मत्वा सत्यमस्यान्तं जीवितास्मीति
लज्जिता ॥”)

शुकं, क्ली, (शोभते इति । शुभ दीप्तौ + “शुक-

वल्कोल्काः ।” उणा० ३ । ४२ । इति कप्रत्य-
येन निपातनान् साधु ।) ग्रन्थिपर्णम् । इत्य-
मरः ॥ वस्त्रम् । वस्त्राञ्चलम् । शिरस्त्राणम् ।
इति हेमचन्द्रः ॥ शोणकवृक्षः । इति विश्वः ॥

शुकः, पुं, (शुभ दीप्तौ + कप्रत्ययेन साधुः । उणा०

३ । ४२ ।) पक्षिविशेषः । शुया इति वङ्ग-
भाषा । शुगा इति हिन्दी भाषा । तत्पर्य्यायः ।
कीरः २ । इत्यमरः ॥ वक्रतुण्डः ३ । मेधावी ४
दाडिमप्रियः ५ रक्ततुण्डः ६ वक्रचञ्चः ७ चिमिः
८ चिमिकः ९ । इति शब्दरत्नावली ॥ शूकः
१० प्रियदर्शनः ११ । इति जटाधरः ॥ मञ्जु-
पाठकः १२ । (यथा, आर्य्यासप्तशत्याम् । ३८१ ।
“प्रकटयति रागमधिकं लपनमिदं वक्रिमाण-
मावहति ।
प्रीणयति च प्रतिपदं दूति शुकस्येव दयितस्य ॥”
अस्य मांसगणाः । परमवृष्यत्वम् । विपाके
गुरुत्वम् । शीतलत्वन् । कासश्वासक्षयहरत्वम् ।
संग्राहित्वम् । लघुत्वम् । दीपनत्वञ्च । इति
राजनिर्घण्टः ॥ * ॥ तस्य शुभसूचकत्वं यथा,
“वामः पठन् राजशुकः प्रयाणे
शुभं भवेद्दक्षिणतः प्रवेशे ।
वनेचराः काष्ठशुकाः प्रयातुः
स्युः सिद्धिदाः संमुखमापतन्तः ॥”
इति वसन्तराजशाकुने ८ वर्गः ॥ * ॥
व्यासपुत्त्रः । स च परीक्षिताय श्रीमद्भागवतं
श्रावयामास । तस्योत्पत्त्यादिर्यथा । हरिवंशे
वायवीये च ।
“पराशरकुलोत्पन्नः शुको नाम महायशाः ।
व्यासादरण्यां सम्भूतो विधूमोऽग्निरिव ज्वलन्
स तस्यां पितृकन्यायां पीवर्य्यां जनयिष्यति ।
कृष्णं गौरं प्रभुं शम्भुं तथा भूरिश्रुतं जयम् ॥
कन्यां कीर्त्तिमतीं षष्ठीं योगिनीं योगमातरम् ।
ब्रह्मदत्तस्य जननीं गृहीणीमनुहस्य च ॥”
इति विष्णुपुराणे ४ अंशे १९ अध्यायटीकायां
श्रीधरस्वामी ॥ वह्निपराणे प्रजापतिसर्गनामा-
ध्यायेऽप्ये वम् ॥ * ॥ अपि च ।
“द्वैपायनाच्छुको जज्ञे भगवानेष शङ्करः ।
अंशेनैवावतीर्य्योर्व्यां संप्राप परमं पदम् ॥
शुकस्याप्यभवन् पुत्त्राः पञ्चात्यन्ततपस्विनः ।
भूरिश्रवाः प्रभुः शम्भुः कृष्णो गौरश्च पञ्चमः ।
कन्या कीर्त्तिमती चैव योगमाता धृतव्रता ॥”
इति कौर्म्मे १७ अध्यायः ॥ * ॥
(अस्यान्यविधोत्पत्तिविवरणं यथा, देवीभाग-
वते । १ । १४ । १ -- २३ ।
श्रीसूत उवाच ।
“दृष्ट्वा तामसितापाङ्गीं व्यासश्चिन्तापरोऽभवत् ।
किं करोमि न मे योग्या देवकन्ये यमप्सराः ॥
एवं चिन्तयमानन्तु दृष्ट्वा व्यासं तदाप्सराः ।
भयभीता हि सञ्जाता शापं मां विसृजेदयम् ॥
सा कृत्वाथ शुकीरूपं निर्गता भयविह्वला ।
कृष्णस्तु विस्मयं प्राप्तो विहङ्गीं तां विलोकयन् ॥
कामस्तु देहे व्यासस्य दर्शनादेव सङ्गतः ।
मनोऽतिविस्मितं जातं सर्व्वगात्रेषु विस्मितः ॥
स तु धैर्य्येण महता निगृह्णन् मानसं मुनिः ।
न शशाक नियन्तुञ्च स व्यासः प्रसृतं मनः ॥
बहुशो गृह्यमाणञ्च घृताच्या मोहितं मनः ।
भावित्वान्नैव विधृतं व्यासस्यामिततेजसः ॥
मन्थनं कुर्व्वतस्तस्य मुनेरग्निचिकीर्षया ।
अरण्यामेव सहसा तस्य शुक्रमथापतत् ॥
सोऽविचिन्त्य तथा पातं ममन्थारणिमेव च ।
तस्माच्छुकः समुद्भूतो व्यासाकृतिमनोहरः ॥
विस्मयं जनयन् बालः संजातस्तदरण्यजः ।
यथाध्वरे समिद्धोऽग्निर्भाति हव्येन दीप्तिमान् ॥
व्यासस्तु सुतमालोक्य विस्मयं परमङ्गतः ।
किमेतदिति सञ्चिन्त्य वरदानाच्छिवस्य वै ॥
तेजोरूपी शुको जातोऽप्यरणीगर्भसम्भवः ।
द्वितीयोऽग्निरिवात्यर्थं दीप्यमानः स्वतेजसा ॥
विलोकयामास तदा व्यासस्तु मुदितं सुतम् ।
दिव्येन तेजसा युक्तं गार्हपत्यमिवापरम् ॥
गङ्गाम्भः स्नापयामास समागत्य गिरेस्तदा ।
पुष्पवृष्टिस्तु खाज्जाता शिशोरुपरि तापसाः ! ॥
जातकर्म्मादिकं चक्रे व्यासस्तस्य महात्मनः ।
देवदुन्दुभयो नेदुर्ननृतुश्चाप्सरोगणाः ॥
जगुर्गन्धर्व्वपतयो मुदितास्ते दिदृक्षवः ।
विश्वावसुर्नारदश्च तुम्बुरुः शुकसम्भवे ॥
तुष्टुवुर्मुदिताः सर्व्वे देवा विद्याधरास्तथा ।
दृष्ट्वा व्याससुतं दिव्यमरणीगर्भसम्भवम् ॥
अन्तरीक्षात् पपातोर्व्यां दण्डः कृष्णाजिनं शभम्
कमण्डलुस्तथा दिव्यः शुकस्यार्थे द्विजोत्तमाः ॥
सद्यः स ववृधे बालो जातमात्रोऽतिदीप्तिमान् ।
तस्योपनयनं चक्रे व्यासो विद्याविधानवित् ॥
उत्पन्नमात्रं तं वेदाः सरहस्याः ससंग्रहाः ।
उपतस्थुर्महात्मानं यथास्य पितरन्तथा ॥
यतो दृष्टं शुकीरूपं घृताच्या सम्भवे तदा ।
शुकेति नाम पुत्त्रस्य चकार मुनिसत्तमाः ! ॥
बृहस्पतिमुपाध्यायं कृत्वा व्याससुतस्तदा ।
व्रतानि ब्रह्मचर्य्यस्य चकार विधिपूर्व्वकम् ॥
सोऽधीत्य निखिलान् वेदान् सरहस्यान् ससं-
ग्रहान् ।
धर्म्मशास्त्राणि सर्व्वाणि कृत्वा गुरुकुले शुकः ॥
गुरवे दक्षिणां दत्त्वा समावृत्तो मुनिस्तदा ।
आजगाम पितुः पार्श्वे कृष्णद्वैपायनस्य च ॥”
अस्य दारपरिग्रहादिवृत्तान्तस्तु तत्रैव विशे-
षतो द्रष्टव्यः ॥ * ॥) स च श्रीकृष्णस्य क्रीडार्थं
वृन्दावने उपनन्दस्य कन्या अभूत् । इति पाद्मे
पातालखण्डम् ॥ * ॥ रावणमन्त्री । शिरीष-
वृक्षः । इति मेदिनी ॥ वृक्षविशेषः । इति रत्न-
माला ॥ शेयालकाँटा इति भाषा ॥

शुकच्छदं, क्ली, (शुकवत् छदो यस्य ।) ग्रन्थि-

पर्णम् । इति जटाधरः ॥

शुकजिह्वा, स्त्री, (शुकस्य जिह्वेव फलं यस्याः ।)

वृक्षविशेषः । शुयाठोँटी इति भाषा ॥ यथा,
“शुकाख्या शुकनामा च शुकजिह्वा शुकानना”
इति रत्नमाला ॥

शुकतरुः, पुं, (शुकवत् तरुः । शुकवर्णपर्ण-

विशिष्टत्वादस्य तथात्वम् । शुकप्रियस्तरुर्वा ।)
शिरीषवृक्षः । इति रत्नमाला ॥

शुकद्रुमः, पुं, (शुकवत् द्रुमः । तद्वर्णपर्णविशि-

ष्टत्वात् तथात्वम् । यद्वा, शुकप्रियो द्रुमः ।)
शिरीषवृक्षः । इति शब्दमाला ॥