सामग्री पर जाएँ

शब्दकल्पद्रुमः/ख

विकिस्रोतः तः
पृष्ठ २/२६७

, खकारः । स तु व्यञ्जनद्वितीयवर्णः । अस्यो-

च्चारणस्थानं कण्ठः । (यथा, सिद्धान्तकौमु-
द्याम् । “अ-कु-ह-विसर्ज्जनीयानां कण्ठः ।”
इति । शिक्षाग्रन्थे तु अस्य जिह्वामूलीयत्वमुक्तम् ।
यथा, -- “जिह्वामूले तु कुः प्रोक्तः ।” इति ।
परं जिह्वामूलीयस्यापि कण्ठमूलोच्चारणपर-
त्वात् न दोषाय एव ॥) यथा, कामधेनुतन्त्रे ।
“खकारं परमाश्चर्य्यं शङ्खकुन्दसमप्रभम् ।
कोणत्रययुतं शून्यं बिन्दुत्रयसमन्वितम् ॥
गुणत्रययुतं देवि ! पञ्चदेवमयं सदा ।
त्रिशक्तिसंयुतं वर्णं खकारं प्रणमाम्यहम् ॥”
तस्योत्पत्तिर्यथा, प्रपञ्चसारे ।
“स सर्गः श्लेषितः कण्ठे वायुना कादिमीरयेत् ।
वर्गस्पर्शनमात्रेण कं स्वरस्पर्शनात्तु खम् ॥”
(वङ्गाक्षरैः) तस्य लेखनप्रकारादिर्यथा, --
“शिवरूपा वामरेखा दक्षरेखा प्रजापतिः ।
अधोरेखा विष्णुरूपा साक्षाद्ब्रह्मस्वरूपिणी ॥
वामाद्वामगता रेखा वह्रिरूपा च सा स्मृता ।
मात्रा कुण्डलिनी साक्षात् खकारः पञ्चदैवतः ॥
ध्यानमस्याः प्रवक्ष्यामि शृणुष्व कमलानने ! ।
बन्धूकपुष्पसङ्काशां रत्नालङ्कारभूषिताम् ॥
वराभयकरीं नित्यामीषद्धास्यमुखीं पराम् ।
एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् ॥”
इति वर्णोद्धारतन्त्रम् ॥ * ॥
तस्य नामानि यथा, नानातन्त्रेषु, --
“खः प्रचण्डः कामरूपी ऋद्धिर्वह्निः सरस्वती ।
आकाशमिन्द्रियं दुर्गा चण्डीशस्तापिनी गुरुः ॥
शिखण्डी दन्तजातीशः कफोणिर्गरुतो यदि ।
शून्यं कपाली कल्याणी सूर्पकर्णीऽजरामरः ।
शुभ्राग्नेया चण्डलिङ्गो जना व्यङ्गारखड्गकौ ॥”

खं, क्ली, (खर्व्वति मनोऽस्मिन् खन्यते क्षुभ्यते

मनोऽनेन वा । खर्व्व गतौ, खन दारणे वा
अन्येभ्योपीति डः ।) इन्द्रियम् । (यथा, मनौ ।
२ । ६० ।
“त्रिराचामेदपः पूर्ब्बं द्विः प्रमृज्यात् ततो मुखम् ।
खानि चैव स्पृशेदद्भिरात्मानं शिर एव च ॥”)
पुरम् । क्षेत्रम् । शून्यम् । (यथा, महाभारते ।
१ । ८८ । ७ ।
“पतस्युदीर्णाम्बुधरान्धकारात्
खात् खेचराणां प्रवरो यथार्कः ॥”)
बिन्दुः । (यथा, लीलावत्यां क्षेत्रव्यवहारे ।
“वेदाग्निवाणखाश्वैश्च खखाभ्राभ्ररसैः क्रमात् ॥”)
आकाशम् । (यथा, मनौ । १२ । १२० ।
“खं सन्निवेशयेत् खेषु चेष्टनस्पर्शनेऽनिलम् ॥”
“खं वाह्याकाशं खेषु उदराद्यवछिन्नशरीरा-
काशेषु ।” इति कुल्लूकभट्टः ॥) संवेदनम् । देव-
लोकः । शर्म्म । इति मेदिनी । खे । १ ॥ लग्नात्
दशमराशिः । इति दीपिका ॥ (यथा, जातक-
प्रकरणे । “तनुनिधनखभेशाः केन्द्रकोणे
त्रिलाभे ॥”) अभ्रकम् । इति राजनिर्घण्टः ॥
(शब्दतन्मात्रम् । यथा, मण्डूकोपनिषदि ।
“एतस्माज्जायते प्राणो मनः सर्व्वेन्द्रियाणि च ।
खं वायुर्ज्योतिरापः पृथ्वी सर्व्वस्य धारिणी ॥”
चिदानन्दमयब्रह्माकाशम् । यथा, छान्दोग्योप-
निषदि “कं ब्रह्म खं ब्रह्म यदेव कं तदेव खं
गङ्काकारो वै पुरुषो घकारो घोषयंस्तथा ॥”
छिद्रम् । यथा भागवते । ७ । १२ । २५ ।
“खे खानि वायौ निःश्वासांस्तेजस्युष्माणमात्म-
वान् ॥”)

खः, पुं, (खर्व्वयति स्वरश्मिभिरिति । खर्व्व + अन्त-

र्भूतणिच् + डः ।) सूर्य्यः । इति हेमचन्द्रः ॥

खकुन्तलः, पुं, (खं आकाशं कुन्तलं कुन्तल-

स्थानीयं यस्य ।) शिवः । इति त्रिकाण्डशेषः ॥
(विष्णुः । “आकाशं वै विष्णुर्व्योमकेशः शिवो
महर्षिः ।” इति श्रुतिः ॥)

खक्ख, हासे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

अकं-सेट् ।) कोपधः । खादिः । खक्खति ।
इति दुर्गादासः ॥

खक्खटः, पुं, (खक्ख् + अटन् ।) कक्खटः ।

कठिनः । इत्यमरटीकायां रायमुकुटः ॥

खखोल्कः, पुं, (खे आकाशे सूर्य्यरूपेण खेषु

इन्द्रियेषु आत्मरूपेण उल्का इव । अन्तर्व्वहिः-
प्रकाशकत्वात् तथात्वम् ।) सूर्य्यः । यथा, --
हरिरुवाच ।
“पुनः सूर्य्यार्च्चनं वक्ष्ये यदुक्तं भृगवे पुरा ।
ओम् खखोल्काय ओम् नमः ॥”
इति गारुडे १६ अध्यायः ॥
खषोल्कायेति च पाठः ॥ (अयं हि काशीस्थिता-
दित्यः । इति काशीखण्डम् ॥ यदुक्तं तत्रैव
५० अध्याये ।
“खखोल्को नाम भगवानादित्यः परिकीर्त्तितः ॥”
एतद्विवरणं तत्रैवाध्याये विशेषतो द्रष्टव्यम् ॥)

खगः, पुं, (खे आकाशे गच्छति । ख + गम् + डः ।)

सूर्य्यः । ग्रहः । (यथा, ज्योतिषे ।
“आपोक्लिमे यदि खगाः स किलेन्दुवारः ॥”)
देवः । वाणः । पक्षी । इति मेदिनी । गे । ६ ॥
(यथा, महाभारते । १ । ३३ । १९ ।
“तं व्रजन्तं खगश्रेष्ठं वज्रेणेन्द्रोऽभ्यताडयत् ॥”)
वायुः । इति शब्दचन्द्रिका ॥ (यथा, महाभारते
वनपर्व्वणि ।
“तमांसीव यथा सूर्य्यो वृक्षानग्निर्घनान् खगः ॥”)
शलभः । इत्यमरटीकायां भरतः ॥ (यथा, मनुः ।
१२ । ६३ ।
“मांसं गृध्रो वपां मद्गुस्तैलं तैलपकः खगः ॥”
महादेवः । यथा, महाभारते । १३ । १७ । ६६ ।
“आकाशनिर्व्विरूपश्च निपाती ह्यवशः खगः ॥”)

खगखानं, क्ली, (खन्यते इति । खन् + कर्म्मणि

घञ् । खगानां पक्षिणां खानं वासार्थ-
कोटरम् ।) वृक्षकोटरम् । इति शब्द-
चन्द्रिका ॥

खगपतिः, पुं, (खगान् पातीति । खग + पा +

“आतोऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः ।)
गरुडः । इति शब्दरत्नावली ॥

खगवक्त्रः, पुं, (खगस्य वक्त्रमिव वक्त्रं अग्रभागः

आकृतिर्वा यस्य ।) लकुचवृक्षः । इति शब्द-
चन्द्रिका ॥

खगवती, स्त्री, (पृथिव्याः स्वकक्षायामाकाशगति-

मत्त्वात् खगतुल्यगतित्वेन सादृश्यमस्त्यस्या इति
आर्य्यभट्टः । सूर्य्यसिद्धान्तमते तु खगसादृश्यं
आकाशस्थितित्वेनास्त्यस्याः । मतुप् । मस्य
वः ।) पृथ्वी । इति जटाधरः ॥

खगशत्रुः, पुं, (खगानां शत्रुरिव ।) पृश्निपर्णी

चाकुलिया इति भाषा ॥ इति शब्दचन्द्रिका ॥

खगान्तकः, पुं, (खगानां अन्तकः यम इव । यद्वा,

अन्तयति अन्तं करोति इति । अन्तर्णिच्
ततो ण्वुल् ।) श्येनपक्षी । इति राजनिर्घण्टः ॥

खगासनः, पुं, (खगस्य सूर्य्यस्य आसनमिव उदय-

स्थानं यत्र । आसनत्वेन कल्पितत्वात्तथात्वम् ।)
उदयपर्व्वतः । इति शब्दमाला ॥ (खगो गरुड
आसनं यस्येति विग्रहे ।) विष्णुः । (एतद्बिवरणं
यथा, महाभारते । १ । सौपर्णे । ३३ । १२--१८ ।
“तमुवाचाव्ययो देवो वरदोऽस्मीति खेचरम् ।
स वव्रे तव तिष्ठेयमुपरीत्यन्तरीक्षगः ॥
उवाच चैनं भूयोऽपि नारायणमिदं वचः ।
अजरश्चामरश्च स्याममृतेन विनाप्यहम् ॥
एवमस्त्विति तं विष्णुरुवाच विनतासुतम् ।
प्रतिगृह्य वरौ तौ च गरुडो विष्णुमब्रवीत् ॥
भवतेऽपि वरं दद्यां वृणोतु भगवानपि ।
तं वव्रे वाहनं विष्णुर्गरुत्मन्तं महाबलम् ।
ध्वजञ्च चक्रे भगवानुपरि स्थास्यतीति तम् ॥
एवमस्त्विति तं देवमुक्त्वा नारायणं खगः ।
वव्राज तरसा वेगाद् वायुं स्पर्द्धन् महाजवः ॥”)

खगेन्द्रः, पुं, (खगानां पक्षिणां इन्द्रः ।) गरुडः ।

इति राजनिर्घण्टः ॥ (यथा, महाभारते । १ ।
सौपर्णे । ३१ । ३५ ।
“पतत्रीणाञ्च गरुड इन्द्रत्वेनाभ्यषिच्यत ॥”
अस्य खगेन्द्रत्वकथा यथा तत्रैव । १६--२० ।
“तच्छ्रुत्वा देवराजस्य कश्यपोऽथ प्रजापतिः ।
वालिखिल्यानुपागम्य कर्म्मसिद्धिमपृच्छत ॥
एवमस्त्विति तञ्चापि प्रत्यूचुः सत्यवादिनः ।
तान् कश्यप उवाचेदं सान्त्वपूर्ब्बं प्रजापतिः ॥
अयमिन्द्रस्त्रिभुवने नियोगाद् ब्रह्मणः कृतः ।
इन्द्रार्थे च भवन्तोऽपि यत्नवन्तस्तपोधनाः ॥
न मिथ्या ब्रह्मणो वाक्यं कर्त्तुमर्हथ सत्तमाः ! ॥
भवतां हि न मिथ्याऽयं सङ्कल्पो वै चिकीर्षितः ॥
भवत्वेष पतत्रीणामिन्द्रोऽतिबलसत्त्ववान् ।
प्रसादः क्रियतामस्य देवराजस्य याचतः ॥”)

खगेन्द्रध्वजः, पुं, (खगेन्द्रो गरुडो ध्वजः केतुर्वाहनं

च यस्य ।) विष्णुः । (यथा, भागवते । १ । १८ । १६ ।
“ज्ञानेन वैयासकिशब्दितेन
भेजे खगेन्द्रध्वजपादमूलम् ॥”)

खगेश्वरः, पुं, (खगानां ईश्वरः ।) गरुडः । इत्यमरः । १ । १ । ३१ ॥

खगोलः, पुं, आकाशमण्डलम् । तस्य विवरणं यथा । एतदब्रह्माण्डं सच्छिद्रं कटाहद्बयस्य गोलाकारसम्पुटतुल्यम् । यत्र भूर्भुवःस्वर्महर्जनतपःसत्य-

संज्ञकानि सप्तभुवनानि सन्ति । ब्रह्माण्डमध्ये यः परिधिः स आकाशकक्ष्या । तन्मध्ये परावह-परिवह-सुवह-सम्बहोद्बहाख्यानां पञ्चानां वायूनां
स्थानानि अधोऽधःक्रमेण सन्ति । तदधस्तातधोऽधःस्थितपूर्ब्बाभिमुखशनिबृहस्पतिराहुकेतुमङ्गलसूर्य्यशुक्रबुधचन्द्रग्रहयुक्तं दक्षिणोत्तरस्थितध्रुवाख्य-
ताराद्वयेन बद्धं नक्षत्रचक्रं सदापश्चिमगतिना प्रवहवायुना भ्रमति । ततः अधोऽधःक्रमेण सिद्धविद्याधरमेघविद्युदादियुक्तः सदोत्तरगतिरावहवायुर्भ्रमति
एतद्ब्रह्माण्डस्य मध्ये समन्तात् ईश्वरस्य धारणात्मिकां शक्तिं बिभ्राणो भूगोलः शून्ये तिष्ठति । पृथ्व्यन्तर्गता नागासुरसमाश्रया दिव्यौषधिरसोपेता रम्याः
पाताल-रसातल-महातल-तलातल-सुतल-वितलातल-संज्ञका ऊर्द्ध्वोर्द्ध्वक्रमेण सप्तपातालभूमयश्च सन्ति । सुमेरुपर्व्वतोपरि शून्ये एका ध्रुवतारा भ्रमति ।
एवं वडवानलोपरि शून्ये अन्या ध्रुवतारा भ्रमति ।
अथ कक्ष्यायोजनानि व्यासयोजनानि पृथिव्युच्चयोजनानि
आकाशस्य ब्रह्माण्डस्य वा १८७१२०८०८६४०००००० ५९५३८४३९११२७२७२७ २९७६९२१९५५६३६३६३
नक्षत्रस्य २५९८९०००० ८२६९२२७३ ४१३४५३३६
शनेः १२७६६८२५५ ४०६२०२१७ २१३१००५८
राहुकेत्वोः ८०५७२८६३२ २५६३६८२०१ १२८१८८३३००
गुरोः ५१३७५७६४ १६३४६८३४ ८१७२६१७
चन्द्रोच्चस्य ३८३२८४८४ १२७४२८२८ ६३७०६१४
मङ्गलस्य ८१४६९०९ २५९२१९८ १२९५२९९
सूर्य्यस्य ४३३१५०० १३७८२०४ ६८८३०२
शुक्रशीघ्रस्य २६६४६३७ ८४७८३९ ४२३११९
बुधशीघ्रस्य १०४३२०९ ३३१९३० १६५१६५
बुधशुक्रयोः ४३६१५० १३८७७५ ६८५८८
चन्द्रस्य ३२४००० १०३०९१ ५७४५
आवहवायोः ५१०४ १६२४ १२
भूगोलस्य ४९६७ १५८१ ०
अथ ग्रहाणां मध्यभुक्तयः ।
रवेः चन्द्रस्य मङ्गलस्य
दिने-- ५९ । ८ । १० । ० ७९० । ३४ । ५२ ३१ । २६ । २८
कलाद्याः ५९ । ८ । १० । ० ७९० । ३४ । ५२ ३१ । २६ । २८
वर्षे-- १२ । ० । ० । ० ४ । १२ । ४६ । ४० । ४८ ६ । ११ । २४ । ९ । ३६
राश्याद्याः १२ । ० । ० । ० ४ । १२ । ४६ । ४० । ४८ ६ । ११ । २४ । ९ । ३६
युगे-- ४३२०००० ५७७५३३३६ २२९५८३२
भगणाद्याः ४३२०००० ५७७५३३३६ २२९५८३२
कल्पे-- ४३२००००००० ५७७५३३३६००० २२९५८३२०००
भगणाद्याः ४३२००००००० ५७७५३३३६००० २२९५८३२०००
बधशीघ्रस्य बृहस्पतेः शुक्रशीघ्रस्य
दिने-- २४५ । ३२ । २१ ४ । २९ । ९ ९६ । ७ । ४३
कलाद्याः २४५ । ३२ । २१ ४ । २९ । ९ ९६ । ७ । ४३
वर्षे-- १ । २४ । ४५ । २२ । ४८ १ । ० । २१ । ३ । ३६ ७ । १५ । ११ । ४९ । १२
राश्याद्याः १ । २४ । ४५ । २२ । ४८ १ । ० । २१ । ३ । ३६ ७ । १५ । ११ । ४९ । १२
युगे-- ७१९३७०६० ३६४२२० ३०१२३७६
भगणाद्याः ७१९३७०६० ३६४२२० ३०१२३७६
कल्पे-- ७१९३७०६०००० ३६४२२०००० ३०१२३७६०००
भगणाद्याः ७१९३७०६०००० ३६४२२०००० ३०१२३७६०००
अथ ग्रहाणां मध्यभुक्तयः ।
शनेः राहोः चन्द्रोच्चस्य
दिने-- २ । ० । २३ ३ । १० । ४४ ६ । ४१ । ०
कलाद्याः २ । ० । २३ ३ । १० । ४४ ६ । ४१ । ०
वर्षे-- ० । १२ । १२ । ५४ ० । १९ । २१ । १२ । ३६ १ । १० । ४० । ५९ । ४२
राश्याद्याः ० । १२ । १२ । ५४ ० । १९ । २१ । १२ । ३६ १ । १० । ४० । ५९ । ४२
युगे-- २४६५६८ २३१२३८ ४८८१०३
भगणाद्याः २४६५६८ २३१२३८ ४८८१०३
कल्पे-- २४६५६८००० २३१२३८००० ४८८१०३०००
भगणाद्याः २४६५६८००० २३१२३८००० ४८८१०३०००
अथ राशिषु नक्षत्राणां स्थितिः ।
अश्विनी भरणी कृत्तिका रोहिणी मृगशिरा आर्द्रा पुनर्व्वसुः पुष्या अश्लेषा
राशिः
अंशः २० २९ २० १६ २९
कला ३० १० ४० २० २०
अपक्रम- १० १२ १०
भागाः उत्तरः उत्तरः उत्तरः दक्षिणः दक्षिणः दक्षिणः उत्तरः उत्तरः दक्षिणः
मघा पूर्ब्बफल्गुनी उत्तरफल्गुनी हस्ता चित्रा स्वाती विशाखा अनुराधा ज्येष्ठा
राशिः
अंशः २२ १० २४ २६ २६ २४ २९
कला २० २० ४० १० ४०
अपक्रम- १२ १३ ११ २७ ३४
भागाः
मूला पूर्ब्बाषाढा उत्तराषाढा अभिजित् श्रवणा धनिष्ठा शतभिषा पूर्ब्बभाद्रपद् उत्तरभाद्रपद् रेवती
राशिः १० १० ११ ११
अंशः १४ २० २४ १० २० २० २६ २६
कला १० ४० ५०
अपक्रम- ३० ३० ३३ ३० २४ २६
भागाः ३० द
अथ राशिषु नक्षत्राणां स्थितिः ।
मृगव्याधः ।
अगस्त्यः कालपुरुषः हुतभुक् ब्रह्महृदयं सप्तर्षितारा
राशिः
भागः २० २२ २२
कला
अपक्रम- ६० ६४० ३८ ३३०
भागाः
पुनर्व्वसौ आर्द्रायाम् रोहिण्याम् रोहिण्याम् कृत्तिकायाम्
पृष्ठ २/२७०
अथ खगोलरचना ।
स्ववाञ्छितं काष्ठनिर्म्मितं भूगोलं तन्मध्यगं
सुमेरोरुभयत्र निर्गतं दण्डञ्च कृत्वा षष्ट्युत्तर-
शतत्रय-परिमितं समविभक्तं आधारकक्ष्याद्बयं
विषवकक्ष्यैका च कार्य्या ॥
अथ मेषादिराशिस्थितिः ।
स्वाहोरात्रार्द्धकर्णैः तत्प्रमाणानुमानेन च
क्रान्तिस्थानात् दक्षिणोत्तरविभक्तैर्विक्षेपभागै-
र्निजनिजापक्रमैश्च मेषादीनां राशीनां तिस्रः
कक्ष्याः कुर्य्यात् । ता एव कक्ष्याः कर्कादीनां
वैपरीत्येन कुर्य्यात् । तादृश्यस्तिस्रस्तुलादीनांतथा-
विपर्य्ययात् मकरादीनाञ्च कुर्य्यात् ॥
अहोरात्रार्द्धकर्णज्ञानं यथा ।
स्वक्रान्तेरुत्क्रमक्रमज्ये द्वे कुर्य्यात् । तत्र
उत्क्रमज्यया हीना त्रिज्या दक्षिणोत्तरं दिन-
व्यासदलं स्यात् ॥
विक्षेपज्ञानं यथा ।
चन्द्रः स्वक्रान्त्यंशात् निजपातेन राशिचक्र-
कलाशीतिभागैः परमं दक्षिणोत्तरं विक्षिप्यते ।
तस्य नवभागं द्बिगुणितं बृहस्पतिः मङ्गल-
स्त्रिगुणितं अन्ये चतुर्गुणं विक्षिप्यन्ते । तत्र
क्रमः चन्द्रस्य मध्यविक्षेपकलाः २७० मङ्गलस्य ९०
बुधस्य १२० बृहस्पतेः ६० शुक्रस्य १२०
शनेः १२० रवेर्व्विक्षेपकला नास्ति ॥
अथ नक्षत्रादिकक्ष्यास्थानम् ।
आधारकक्ष्याद्बयोपरियाम्योदग्गोलसंस्थितानां
नक्षत्रादीनां कक्ष्याः कुर्य्यात् । सर्व्वासां कक्ष्याणां
मध्यस्थाने विषुवत्कक्ष्या स्थिता । तदाधार-
कक्ष्ययोर्युतेरूर्द्धं द्वे अयने विषुवद्वयञ्च कुर्य्यात् ।
वियुवस्थानात् भगणसञ्चारपर्य्यन्तं स्फुटभागै-
र्मङ्गलादीनां क्षेत्राण्येव कुर्य्यात् अर्थात् मेषादि-
राशीन् तिर्य्यक्ज्याभी रचयेत् । तथा अयन-
स्थानात् अन्यायनपर्य्यन्तं तिर्य्यक् अपरा कक्ष्या-
क्रान्तिसंज्ञा कार्य्या । तया कक्ष्यया सूर्य्यः
प्रकाशयन् सदा भ्रमति ॥ चन्द्राद्या ग्रहाः
अपमण्डलमाश्रितैः स्वस्वपातांशैरपक्रमात् विक्षे-
पान्तेषु अपक्रमेणाकृष्टाः सन्तो लोकैर्दृश्यन्ते ।
क्षितिजे उदयन् राशिः लग्नं स्यात् तद्वशात्
अस्तं गच्छंश्च अस्ताख्यं स्यात् । लङ्कोदयैर्यथा
सिद्धं दशचतुर्थस्थानञ्च कुर्य्यात् । मध्यक्षिति-
जयोर्म्मध्ये या ज्या सा अन्त्या कथ्यते । विषु-
वत्क्षितिजयोरन्तरज्या चरदलज्या । उपरि
स्वकं स्थानं मध्ये क्षितिजमण्डलं कृत्वा वस्त्र-
वेष्टितं लोकालोकवेष्टितञ्च कृत्वा जलपतनयोगेन
पारदस्रावयोगेन वा कालभ्रमणं साधयेत् ।
इति सूर्य्यसिद्धान्तसम्मतम् ॥

खग्गडः, पुं, (खे आकाशे गलतीति । गल + अच्

पृषोदरात् साधु ।) तृणविशेषः । खाग्डा
इति भाषा ॥ तत्पर्य्यायः पोटगलः २ बृहत्-
काशः ३ काकेक्षुः ४ । इति रत्नमाला ॥

खङ्करः, पुं, (खन्यते कङ्कतिकया इति । खन् दारणे +

क्विप् । कीर्य्यते विकीर्य्यते इति । कॄ विक्षेपे +
अप् । ततः कर्म्मधारयः ।) चूर्णकुन्तलः । इति
हेमचन्द्रः ॥

खच, ग भूतिपूत्योरुत्पत्तौ । इति कविकल्पद्रुमः ॥

(क्र्यां-परं-अकं-सेट् ।) भूतिः सम्पत्तिः पूतिः
पवित्रता तयोरुत्पत्तिः प्रादुर्भावः । भूत्युत्पत्तौ
पूत्युत्पत्तौ चेत्यर्थः । ग, खच्ञाति राजा
समृद्धः स्यादित्यर्थः । शेषार्थः कातन्त्राद्यसम्मतः ।
इति दुर्गादासः ॥

खच, त् क बन्धने । इति कविकल्पद्रुमः ॥ (अदन्त-

चुरां-परं-सकं-सेट् ।) खचयति । इति दुर्गादासः ॥

खचमसः, पुं, (खे आकाशे चम्यते भक्ष्यतेऽसौ

पितृलोकस्थैः पुण्यात्मभिरित्यर्थः । चमु भक्षणे +
असच् । खे चमसः यज्ञीयपात्रमिव अमृतमय-
त्वात्तथात्वम् ।) चन्द्रः । इति त्रिकाण्डशेषः ॥

खचरः, पुं, (खे आकाशे चरतीति । चर +

“चरेष्टः ।” ३ । २ । १६ । इति टः ।) मेघः । इति
शब्दचन्द्रिका ॥ वायुः । राक्षसः । सूर्य्यः । एतेषां
प्रमाणं यथा । महाभारते द्रोणपर्व्वणि ।
“खचरस्य सुतस्य सुतः खचरः
खचरस्य पिता न पुनः खचरः ।
खचरस्य सुतेन हतः खचरः
खचरी परिरोदिति हा खचर ! ॥”
आकाशगामिनि त्रि । यथा । स्मृतिः ।
“पवनो दिक्पतिर्भूमि-राकाशं स्वचरामराः ॥”
रूपकभेदः । यथा । सङ्गीतदामोदरः ।
“खचरो रङ्गताले स्यात् गुरुरादौ लघुस्तथा ॥
शान्तेऽथवा हास्यरसे भवेदेष दशाक्षरः ॥”

खचितं, त्रि, (खच् + क्तः ।) संयुक्तम् । तत्पर्य्यायः

करम्बितम् २ रूषितम् ३ गुरुगुण्डितम् ४ । इति
त्रिकाण्डशेषः ॥ करम्बम् ५ कवरम् ६ मिश्रम् ७
संपृक्तम् ८ । इति हेमचन्द्रः ॥ व्याप्तम् ९ । इति
शब्दरत्नावली ॥ गुण्ठितम् १० छुरितम् ११ ।
इति जटाधरः ॥

खज, मन्थे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-

सेट् ।) मन्थो विलोडनम् । खजति जलं
मत्स्यः । इति दुर्गादासः ॥

खज, इ पाङ्ग्युल्ये । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

अकं-सेट् । इदित् ।) इ, खञ्ज्यते । पङ्गुः खोडः
भावप्रधाननिर्द्देशात् पङ्गुत्वमिति यावत् । सो-
ऽस्यास्तीति चूडादित्वाल्लः । पङ्गुलस्तस्य भावः
पाङ्ग्युल्यं खोटनमित्यर्थः । खञ्जति खोडः ।
भावप्रधाननिर्द्देशो यथा । वुदसवर्ण इति का-
तन्त्रसूत्रम् । अत्र असवर्णे परे उवर्णो वकारत्वं
प्राप्नोतीत्येवार्थः । इति दुर्गादासः ॥

खजः, पुं, (खज्यते निर्म्मथ्यतेऽनेन । खज् + करणे

अप् । यद्वा, खजति मथ्नातीति । खज् + अच् ।)
दर्व्विः । इत्यमरटीकायां भरतः ॥ हाता इति
भाषा ॥ (यथा, महाभारते । १२ । २१४ । २१ ।
“पयस्यन्तर्हितं सर्पिर्यद्वद् निर्म्मथ्यते खजैः ।
शुक्रं निर्म्मथ्यते तद्बद्देहसङ्कल्पजैः खजैः ॥”
“खजेनामथ्य च स्थाप्यं तन्निहन्त्युपयोजितम् ॥”
इति वाभट्टे चिकित्सास्थाने तृतीयेऽध्याये ॥

खजकः, पुं, (खजति मथ्नातीति । खज् + ण्वुल् ।)

मन्थानदण्डः । इति हेमचन्द्रः ॥

खजपं, क्ली, (खज्यते मथ्यते इति । “उषिकुटि-

दलिकचिखजिभ्यः कपन् ।” उणां ३ । १४२ ।
इति कपन् ।) घृतम् । इत्युणादिवृत्तिः ॥

खजलं, क्ली, (खे आकाशे निचितं यज्जलम् ।)

पृष्ठ २/२७१
नीहारः । इति त्रिकाण्डशेषः ॥ आकाशवारि ।
यथाह राजवल्लभः ।
“वर्षासु चरन्ति घनैः सहोरगा वियति कीटलुताश्च ।
तद्विषजुष्टमपेयं खजलमगस्त्योदयात् पूर्ब्बम् ॥”

खजा, स्त्री, (खज् + भावे अप् टाप् च ।) मन्थः ।

मओया इति भाषा ॥ प्रहस्तः । इति मेदिनी ॥
(खज् + करणे अप् स्त्रियां टाप् ।) दर्व्वी ।
इति हेमचन्द्रः ॥ (यथा, चिकित्सितस्थाने षड्-
विंशेऽध्याये सुश्रुतेनोक्तम् ।
“गुप्ताफलं गोक्षुरकाच्च बीजं
तथोच्चटां गोपयसा विपाच्य ।
खजाहतं शर्करया च युक्तं
पीत्वा नरो हृष्यति सर्व्वरात्रम् ॥”
पाकसाधनद्रव्यविशेषः । यथा, महाभारते ।
४ । ७ । १ ।
“खजाञ्च दर्व्वीञ्च करेण धारय-
न्नसिञ्च कालाङ्गमकोषमव्रणम् ।”)
मारणम् । इति शब्दरत्नावली ॥

खजाकः, पुं, (खज् मन्थे + “खजेराकः ।” उणां

४ । १३ । इति आकः ।) पक्षी । इत्युणादिवृत्तिः ॥

खजाका, स्त्री, पुं, (खजति मथ्नाति पाकम् ।

खज् मन्थे + “खजेराकः ।” उणां ४ । १३ । इति
आकः ततष्टाप् ।) दर्व्वी । इत्यमरः । २ । ९ । ३४ ।
हाता चमस इत्यादि भाषा ॥
(“खजाकः पक्षिणि ख्यातः खजाका दर्व्विरुच्यते ॥”
इत्युणादिवृत्तिटीका ।)

खजित्, पुं, (खेन आकाशध्यानेन शून्यभावनयेति

भावः जयति संसारभावं यः । जि + क्विप् । शून्य-
वादिनां बौद्धानां शून्यं सर्व्वमेव इत्याकार-
भावनया संसारभावजयनात् तथात्वम् ।) बुद्ध-
विशेषः । इति हेमचन्द्रः । २ । १४९ ॥

खज्योतिः, [स्] पुं, (खे आकाशे ज्योतिर्यस्य ।)

खद्योतः । इति राजनिर्घण्टः ॥

खञ्जः, त्रि, (खजि गतिवैकल्ये + अच् ।) विकल-

गतिः । खोँडा इति भाषा ॥ यथा, मनुः । ३ । २४२ ।
“खञ्जो वा यदि वा काणो दातुः प्रेष्योऽपि वा
भवेत ॥”)
तत्पर्य्यायः । खोडः २ । इत्यमरः । २ । ६ । ४९ ।
खोलः ३ । इति शब्दरत्नावली ॥ खोरः ४
खञ्जकः ५ । इति हेमचन्द्रः ॥ खोटः ६ । इति
खोडधात्वर्थदर्शनात् ॥ तस्य लक्षणं यथाह
माधवकरः ।
“वायुः कट्याश्रितः सक्थ्नः कण्डरामाक्षिपेद्यदा ।
खञ्जस्तदा भवेज्जन्तुः पङ्गुसक्य्नोर्द्वयोर्वधात् ॥”

खञ्जकः, त्रि, (खञ्जतीति । खजि + कर्त्तरि ण्वुल् ।

स्वार्थे कन् वा ।) खञ्जः । इति हेमचन्द्रः । ३ । ११९ ॥

खञ्जकारिः, पुं, (खञ्जकस्य अरिः नाशकः ।) सुस्ना ।

इति राजनिर्घण्टः ॥ खेँसारि इति भाषा ॥

खञ्जखेटः, पुं, (खञ्ज इव खेटति गच्छति नृत्यन्निव

भूमौ चरतीत्यर्थः । खिट् + अच् ।) खञ्जन-
पक्षी । इति शब्दमाला ॥

खञ्जखेलः, पुं, (खञ्ज इव खेलति तद्बच्चलनादि-

त्यर्थः । खेल् + अच् ।) खञ्जनपक्षी । इति
त्रिकाण्डशेषः ॥

खञ्जनं, क्ली, (खजि विकलगतौ + भावे ल्युट् ।)

गमनम् । इति मेदिनी । ने । ५५ ॥

खञ्जनः, पुं, (खजि + कर्त्तरि ल्युः ।) स्वनामख्यात-

पक्षी । तत्पर्य्यायः । खञ्जरीटः २ । इत्यमरः ।
२ । ५ । १५ ॥ कणाटीनः ३ काकच्छर्द्दिः ४ खञ्जखेलः ५
तातनः ६ मुनिपुत्त्रकः ७ भद्रनामा ८ रत्न-
निधिः ९ । इति त्रिकाण्डशेषः ॥ खञ्जखेटः १०
गूढनीडः ११ तण्डकः १२ चरः १३ । इति
शब्दमाला ॥ काकच्छदः १४ नीलकण्ठः १५
कणाटीरः १६ कणाटारकः १७ । इति शब्द-
रत्नावली ॥ (अस्य दर्शनेन यत् शुभाशुभं फलं
भवति तदुक्तं बृहत्संहितायां ४५ अध्याये ।
तद्यथा, --
“खञ्जनको नामायं यो विहगस्तस्य दर्शने प्रथमे ।
प्रोक्तानि यानि मुनिभिः फलानि तानि
प्रवक्ष्यामि ॥”
तत्र चत्वारः खञ्जना भवन्ति । तेषां नामान्याह ।
“स्थूलोऽभ्युन्नतकण्ठः कृष्णगलो भद्रकारको भद्रः ।
आकण्ठमुखात् कृष्णः सम्पूर्णः पूरयत्याशाम् ॥
कृष्णो गलेऽस्य विन्दुः सितकरटान्तः स रिक्त-
कृद्रिक्तः ।
पीतो गोपीत इति क्लेशकरः खञ्जनो दृष्टः ॥”
अथ कस्मिन् काले दृष्टः कीदृक्फलं करोति
इत्याह ।
“अथ मधुरसुरभिफलकुमुमतरुषु सलिलाशयेषु
पुण्येषु ।
करितुरगभुजगमूर्द्ध्नि प्रासादोद्यानहर्म्म्येषु ॥
गोगोष्ठसत्समागमयज्ञोत्सवपार्थिवद्विजसमीपे ।
हस्तितुरङ्गमशालाच्छत्रध्वजचामराद्येषु ॥
हेमसमीपसिताम्बरकमलोत्पलपूजितोपलिप्तेषु ।
दधिपात्रधान्यकूटेषु च श्रियं खञ्जनः कुरुते ॥
पङ्के स्वाद्वन्नाप्तिर्गोरससम्पच्च गोमयोपगते ।
शाद्वलगे वस्त्राप्तिः शकटस्थे देशविभ्रंशः ॥
गृहपटलेऽर्थभ्रंशो वध्रे बन्धोऽशुचौ भवति रोगः ।
पृष्ठे त्वजाविकानां प्रियसङ्गममावहत्याशु ॥
महिषोष्ट्रगर्द्दभास्थिश्मशानगृहकोणशर्करा-
द्रिस्थः ।
प्राकारभस्मकेशेषु चाशुभो मरणरुग्भयदः ॥
पक्षौ धुन्वन्नशुभः शुभः पिबन्वारि निम्नगासंस्थः ।
सूर्य्योदयेऽथ शस्तो नेष्टफलः खञ्जनोऽस्तमये ॥
नीराजने निवृत्ते यया दिशा खञ्जनं नृपो यान्तम् ।
पश्येत्तया गतस्य क्षिप्रमरातिर्वशमुपैति ॥
तस्मिन् निधिर्भवति मैथुनमेति यस्मिन्
यस्मिंस्तु छर्द्दयति तत्रतलेऽस्ति काचः ।
अङ्गारमप्युपदिशन्ति पुरीषणेऽस्य
तत्कौतुकापनयनाय खनेद्धरित्रीम् ॥
मृतविकलविभिन्नरोगितः
स्वतनुसमानफलप्रदः खगः ।
धनकृदभिनिलीयमानको
वियति च बन्धुसमागमप्रदः ॥
नृपतिरपि शुभं शुभप्रदेशे
खगमवलोक्य महीतले विदध्यात् ।
सुरभिकुमुमधूपयुक्तमर्घं
शुभमभिनन्दितमेवमेति वृद्धिम् ॥
अशुभमपि विलोक्य खञ्जनं
द्विजगुरुसाधुसुरार्च्चने रतः ।
न नृपतिरशुभं समाप्नुया-
न्न यदि दिनानि च सप्त मांसभुक् ॥”
ततः कालफलप्रदर्शनार्थमाह ।
“आ वर्षात् प्रथमे दर्शने फलं प्रतिदिनं तु दिनशेषे ।
दिक्स्थानमूर्त्तिलग्नर्क्षशान्तदीप्तादिभिश्चोह्यम् ॥”
शाकुने दिग्विशेषेऽस्य शब्दफलं यथा, --
“वित्तं ब्रह्मणि कार्य्यसिद्धिरतुला शक्रे हुताशे भयं
याम्यामग्निभयं सुरद्विषि कलिर्लाभः समुद्रालये ।
वायव्यां वरवस्त्रगन्धसलिलं दित्याङ्गना चोत्तरे-
ऐशान्यां मरणं ध्रुवं निगदितंदिग्लक्षणं खञ्जने ॥”)

खञ्जनरतं, क्ली, (खञ्जनस्य रतमिव गोपनीयं

अव्यक्तं रतं रतिः ।) यमिनां गोप्यं रतम् ।
यतिनां गोपनीयमैथुनम् । इति हारावली ॥

खञ्जना, स्त्री, (खञ्जन इवाचरति । खञ्जन + ङ्यच्

+ क्विप् टाप् च । यद्बा, खजि + युच् + टाप् ।)
सर्षपी । क्षुद्रखञ्जनजातिः । इति मेदिनी ॥

खञ्जनाकृतिः, स्त्री, (खञ्जनस्याकृतिरिवाकृतिरस्य ।)

खञ्जनविशेषः । इति शब्दचन्द्रिका ॥ तत्-
पर्य्यायः । हापुत्त्रिका २ खञ्जनिका ३ सर्षपी ४ ।
इति शब्दरत्नावली ॥

खञ्जनिका, स्त्री, (खञ्जनस्तदाकारोऽस्त्यस्याः इति ।

खञ्जन + ठन् टाप् च ।) खञ्जनाकारपक्षि-
विशेषः । तत्पर्य्यायः । हापुत्त्रिका २ तुलिका ३
स्कोटिका ४ सर्षपी ५ । इति त्रिकाण्डशेषः ॥
खञ्जनाकृतिः ६ । इति शब्दचन्द्रिका ॥

खञ्जरीटः, पुं, (खञ्ज इव ऋच्छतीति । ऋ गतौ +

बाहुलकात् कीटन् ।) खञ्जनपक्षी । इत्यमरः ।
२ । ५ । १५ ॥ (यथा, अमरुशतके । ९९ ।
“तन्वी शरत्त्रिपथगापुलिने कपोलौ
लोले दृशौ रुचिरचञ्चलखञ्जरीटौ ॥”)

खट, काड्क्षि । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् ।) खटति । काङ्क्षि आकाङ्क्षायाम् ।
इति दुर्गादासः ॥

खटः पुं, (खट् + अच् ।) अन्धकूपः । कफः ।

प्रहारान्तरम् । टङ्कः । इति मेदिनी ॥ तृणम् ।
इति हेमचन्द्रः ॥ लाङ्गलम् । कत्तृणम् । इत्य-
जयपालः ॥

खटकः, पुं, (खट् + बाहुलकाद् बुन् ।) घटकः ।

तत्पर्य्यायः । नागवीटः २ टाङ्करः ३ त्र्यक्षरः ४ ।
इति त्रिकाण्डशेषः ॥ कुब्जितपाणिः । इति शब्द-
माला ॥

खटिकः, पुं, (खटः अस्त्यस्य इति ठन् ।) कुब्जित-

पाणिः । इति हेमचन्द्रः ॥

खटिका, स्त्री, (खट् + अच् । ततः संज्ञायां कन्

टाप् अत इत्वञ्च ।) लेखनद्रव्यम् । खडी इति
भाषा । (यथा, कलाविलासे । २ । २३ ।
पृष्ठ २/२७२
“विविधनवांशुकमृगमदचन्दनकर्पूरमरिच
पूगफलैः ।
खटिकाहस्तः स सदा गणयति कोटीर्मुहूर्त्तेन ॥”)
कर्णरन्ध्रम् । वीरणम् । इति विश्वः ॥

खटिनी स्त्री, (खट् + बाहुलकात् इनिः । ङीप् च ।)

खटी । इति राजनिर्घण्टः ॥ (यथा, हितापदेशे ।
“न पतति खटिनी ससम्भ्रमा यस्य महद्गण-
नायाम् ॥”)

खटी, स्त्री, (खट् + अच् । गौरादित्वात् ङीष् ।)

लेखनद्रव्यम् । खडी इति भाषा । तत्पर्य्यायः ।
खटिनी २ खटिका ३ धवलमृत्तिका ४ सितधातुः ५
पाण्डुमृत् ६ पाण्डुमृत्तिका ७ । अस्या गुणाः ।
मधुरत्वम् । तिक्तत्वम् । शीतलत्वम् । पित्तदाह-
व्रणदोपकफास्रनेत्ररोगनाशित्वञ्च । इति राज-
निर्धण्टः ॥ अस्याः पर्य्यायान्तराणि कठिनीशब्दे
द्रवृव्यानि ॥ (यथास्याः पर्य्याया गुणाश्च भाव-
प्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ।
“खटिका कठिनी चापि लेखनी च निगद्यते ।
खटिका दाहजिच्छीता मधुरा विषशोथजित् ॥
लेपादेतद्गुणाः प्रोक्ता भक्षिता मृत्तिका समा ।
खटी गौरखटी द्वे च गुणैस्तुल्ये प्रकीर्त्तिते ॥”)

खट्ट, क वृतौ । इति कविकल्पद्रुम ॥ (चुरां-परं-

सकं-सेट् ।) टद्बयान्तः । क, खट्टयति । वृतिः
संवरणम् । इति दुर्गादासः ॥

खट्टनः, त्रि, (खट्ट्यते व्रियते शय्यादिभिः इति ।

खट्ट वृतौ + कर्म्मणि ल्युट् ।) खर्व्वः । इति हेम-
चन्द्रः । छोट इति भाषा ॥ खदृत इति पाठो-
ऽपि दृष्टः ॥

खट्टा, स्त्री, (खट्ट + टाप् ।) खट्ठा । इति शब्द-

चन्द्रिका ॥

खट्टाशः, पुं स्त्री, (खट्टः आत्मा वृतः सन् अश्नाति

इति । अश् + अच् । अश्नुते व्याप्नोति गात्र-
गन्धेन वा । अशूङ् नव्याप्तौ + अच् ।) वनजन्तु-
विशेषः । खटाश इति गन्धगोकुला इति च
भाषा । तत्पर्य्यायः । गन्धौतुः २ वनवासनः ३ ।
इति त्रिकाण्डशेषः ॥ खट्टाशी ४ वनाखुः ५ । इति
शब्दरत्नावली ॥ खट्टासः ६ गन्धमार्जारः ७
वनश्वा ८ शालिः ९ । इति जटाधरः ॥ पुष्य-
लकः १० । इति दुर्गादासधृतवचनम् ॥

खट्टासः, पुं, (खट्टाश + पृषोदरात् शकारस्य सत्वम् ।

यद्वा, खट्ट इवासति दीप्यते प्रकाशते । अस
दीप्तौ + अच् ।) खट्टाशः । इति जटाधरः ॥
(लक्षणमस्य यथा भैषज्यरत्नावल्यां वातव्याध्य-
धिकारे ।
“खट्टासोऽनूपजः श्रेष्ठो वर्त्तुलो मांसलश्च यः ।
सम्मतो मध्यदेशीयो मध्यमो मरुजोऽधमः ॥”)

खट्टिः, पुं, (खट्ट + इन् ।) शवयानम् । तत्पर्य्यायः ।

अन्तशय्या २ वारुठः ३ । इति त्रिकाण्डशेषः ॥

खट्टिकः, त्रि, (खट्टनं आवरणं खट्टः स शिल्पत्वेना-

स्यास्तीति । ठन् ।) शाकुनिकः । इति शब्द-
माला । पाखिमारा इति भाषा ॥

खट्टिका, स्त्री, (खट्ट + स्वार्थे स्वल्पार्थे वा कन् + टाप्

अत इत्वञ्च ।) क्षुद्रखट्टा । तत्पर्य्यायः । निषद्या २
सन्दी ३ । इति त्रिकाण्डशेषः ॥ आसन्दी ४ ।
इति जटाधरः । शवयानम् । इति शब्दमाला ॥

खट्टेरकः, त्रि (खट्ट + बाहुलकात् कर्म्मणि एरक् ।)

खर्व्वः । इति शब्दमाला ॥

खट्वा, स्त्रा, (खट्यते काङ्क्ष्यते शयनार्थिभिरिति ।

खट् काङ्क्षायां + “अशूप्रुषिलटीति ।” उणां
१ । १५१ । इति क्वन् ।) काष्ठादिरचितशय्या-
धारः । खाट् इति भाषा । तत्पर्य्यायः । शय-
नम् २ मञ्चः ३ पर्य्यङ्कः ४ पल्यङ्कः ५ । इत्यमरः ।
२ । ६ । १३८ ॥ तल्पम् ६ शयः ७ । इति शब्द-
रत्नावली ॥ * ॥ तद्युक्तिर्यथा, --
“अष्टाभिः काष्ठखण्डैश्च खट्वेति प्रतिचक्षते ॥”
अथैषां नामानि ।
“तिष्ठेत् यदालम्ब्य खट्वा तज्ज्ञेयं चरणाह्वयम् ।
शिरःस्थं व्युपधानं स्यात् अधःस्थं स्यात् निरूपकम् ॥
आलिङ्गने उभे पार्श्वे प्राह भोजमहीपतिः ।
आलिङ्गने चतुर्हस्ते व्युपधाननिरूपके ॥
तदर्द्धेन तदर्द्धेन चत्वारश्चरणा इति ।
सर्व्वषोडशिका खट्वा सर्व्वत्राभयदायिका ॥
आलिङ्गने सार्द्धवेदे व्युपधाननिरूपके ।
सार्द्धद्वये च चरणा हस्तैकपरिसम्मिताः ॥
सर्व्वाष्टादशका खट्वा सर्व्वकामफलप्रदा ।
आलिङ्गने पञ्चहस्ते व्युपधाने निरूपके ॥
तदर्धेन तदर्द्धेन चत्वारश्चरणा इति ।
सर्व्वविंशतिका खट्वा धनधान्यजयप्रदा ॥
आलिङ्गने पञ्चहस्ते व्युपधाने निरूपके ।
त्रिहस्तसम्मिते पादा हस्तैकपरिसम्मिताः ॥
सर्व्वविंशतिका खट्वा एवमप्युपजायते ।
आलिङ्गने सार्द्धपञ्चे व्युपधाने निरूपके ॥
तदर्द्धेन तदर्द्धेन चत्वारश्चरणा इति ।
सर्व्वद्वाविंशिका खट्वा सर्व्वसम्पत्प्रदायिनी ॥
आलिङ्गने च षड्ढस्ते व्युपधाने निरूपके ।
त्रिहस्तसम्मिते पादाश्चत्वारश्चरणा इति ॥
चतुर्विंशतिका खट्वा सर्व्वरोगक्षयङ्करी ।
आलिङ्गने सप्तहस्ते व्युपधाने निरूपके ॥
त्रिहस्ते सार्द्धहस्ताश्च चत्वारश्चरणा इति ।
सर्व्वषड्विंशिका खट्वा सर्व्वसौभाग्यकारिका ॥
आलिङ्गने सार्द्धसप्ते व्युपधाने निरूपके ।
सार्द्धत्रिहस्ते सार्द्धाश्च चत्वारश्चरणा इति ॥
सर्व्वाष्टाविंशिका खट्वा सर्व्वभोगप्रदायिका ।
आलिङ्गने चाष्टहस्ते व्युपधाने निरूपके ॥
चतुर्हस्ते सार्द्धहस्ताश्चत्वारश्चरणा इति ।
सर्व्वत्रिंशतिका खट्वा सर्व्वकामार्थदायिनी ॥
एवमष्टविधाः खट्वाः समासेनोपदर्शिताः ।
आदित्यादिदशाजानां नृणां सम्पत्तिदायिकाः ॥
कार्य्याः शिल्पिभिरेतासु विविधाकृतिकल्पनाः ।
सर्व्वषोडशिका खट्वा सर्व्वेषामेव युज्यते ॥
अष्टौ खण्डानि यस्याः स्युश्चतुर्हस्तयुतानि च ।
श्रीसर्व्वमङ्गला नाम खट्वैषा पृथिवीपतेः ॥
इयं यदा सच्छदना तदा सर्व्वजयाभिधा ।
यात्रासिद्धिः सर्व्वसिद्धिर्विजया चाष्टमङ्गला ॥ * ॥
एकैकहस्तवृद्ध्या तु भवेन्मञ्चमतः परम् ।
जयोऽथ मङ्गलः प्रेयान् चित्रकान्तः परो महान् ॥
एकैकहस्तवृद्ध्या तु मञ्चानामिति लक्षणम् ।
सा तुङ्गा ह्यतितुङ्ग च शिखरी विषयेक्षणा ॥
एकैकहस्तवृद्ध्या तु टङ्क इत्यभिधीयते ।
यात्रासिद्धिं समारभ्य येऽमी षोडश कीर्त्तिताः ॥
आदित्यादिदशाजानामाद्यन्तैकद्वयं क्रमात् ।
दूरदर्शी दीर्घदर्शी दुर्ल्लङ्घ्योऽथ दुरासदः ॥
यथोत्तरं दशगुणाः पादैकपरिणाहिनः ।
प्रासादसंज्ञकाः कार्य्या राज्ञा सुखमभीप्सता ॥
चत्वार एते सर्व्वेषां भूपतीनां सुखावहाः ॥” * ॥
भोजमते च ।
“सर्व्वत्रिंशतिकां यावत् आरभ्याभयषोडशीम् ।
खट्वानामिति नामानि अष्टौ हस्तद्वयाधिकाम् ॥”
तद्यथा, --
“मङ्गला विजया पुष्टिः क्षमा तुष्टिः सुखासनम् ।
प्रचण्डा सर्व्वतोभद्रा खट्वानामाष्टकं विदुः ॥”
आसां विभागः पूर्ब्बवत् ॥ * ॥
पराशरसंहितायान्तु ।
“अष्टाभिः काष्टखण्डैस्तु योऽक्षपिण्डो विजायते ।
स चेत् समो भवेत् खट्वा प्रणश्या स्यादतोऽन्यथा ॥
समे सर्व्वायसम्पत्तिर्विषमे विषमास्पदम् ।
तस्मात् खट्वाङ्गपिण्डो यः समः कार्य्यः स सूरिभिः ॥”
इदन्तु सामान्यं सर्व्वसम्मतञ्च । काष्ठनियमस्तु
पूर्ब्बवदेव । इत्यासनयुक्तौ स्वट्वोद्देशः ॥ * ॥
तस्या दोषगुणा यथा, --
“खट्वायां यो गुणो दोषो मानञ्च परिकीर्त्तितम् ।
तेनैव खट्वा काष्ठोत्था तथैव गुणमावहेत् ॥
अनेनैव विधानेन कार्य्यं बहुविधासनम् ।
विना नौकां समं कार्य्यं सर्व्वत्रैवासनं गुरु ॥”
इति तत्रैव युक्तिकल्पतरुः ॥
अस्या गुणः । वातलत्वम् । इति राजवल्लभः ॥
प्रेङ्खा । इत्यमरटीका ॥ कोलशिम्बी । इति
राजनिर्घण्टः ॥

खट्वाङ्गं, क्ली, (खट्वाया अङ्गम् । तदिवाकृति-

र्यस्य इति ।) शिवस्यास्त्रविशेषः । तत्पर्य्यायः ।
सुखंसुणः २ ॥ इति हेमचन्द्रः ॥ (यथा,
मार्कण्डेये । ८७ । ६ ।
“विचित्रखट्वाङ्गधरा नरमालाविभूषणा ॥”)

खट्वाङ्गः, पुं, (खट्वाङ्ग इत्याख्याऽस्य । शिवस्य

खट्वाङ्गास्त्रवत् सर्व्वत्र दुर्लङ्घ्यशासनत्वात् अमोघ-
वीर्य्यवत्त्वाच्चास्य तथात्वम् ।) सूर्य्यवंशीयराज-
विशेषः । स तु विश्वसहराजपुत्त्रः । यथा, --
श्रीमद्भागवते । ९ । ९ । ४१ ।
“ततो दशरथस्तस्मात् पुत्त्र ऐडविडस्ततः ।
राजा विश्वसहो यस्य खट्वाङ्गश्चक्रवर्त्त्यभूत् ॥”

खट्वाङ्गभृत्, पुं, (खट्वाङ्गं बिभर्त्ति इति । भृ +

क्विप् ।) शिवः । इति हेमचन्द्रः ॥

खट्वाङ्गी, [न्] पुं, (खट्वाङ्गं अस्वविशेषः सोऽस्या-

स्थीति इनिः ।) शिवः । इति हारावली ॥
(प्रायश्चित्तार्थं धारणीयं खट्वाङ्गाकृतिकाष्ठ-
खण्डविशेषः । यथा, मनुः । ११ । १०५ ।
पृष्ठ २/२७३
“खट्वाङ्गी चीरवासा वा श्मश्रुलो विजने वने ।
प्राजापत्यं चरेत् कृच्छ्रमब्दमेकं समाहितः ॥”)

खट्वारूढः, त्रि, (खट्वामारूढः । “खट्वा क्षेपे ।”

२ । १ । २६ । इति निन्दायां द्वितीयान्तस्य क्तान्तेन
नित्यसमासः ।) अविनीतः । प्रमादवान् । इति
त्रिकाण्डशेषभूरिप्रयोगौ ॥ (यथा, भट्टौ । ५ । १० ।
“वृतस्त्वं पात्रेसमितैः खट्वारूढः प्रमादवान् ।
पानशौण्डः श्रियं नेता नात्यन्तीनत्वमुन्मनाः ॥”
“खट्वारूढः उत्पथस्थितः । खट्वा क्षेपे इति
द्वितीया ।” इति जयमङ्गलटीका ॥) खट्वारूढो
नरो जाल्मः । इति कलापव्याकरणम् ॥ (वेदं
व्रतानि च समाप्य समावृत्तेन हि खट्वा रोढव्या
ब्रह्मचर्य्य एव भूमिशयनार्होऽपि यः खट्वामारो-
हति स जाल्मः । रूढश्चायं तेन खट्वामारोहतु मा
वा निषिद्धानुष्ठानपरः सर्व्वोऽपि खट्वारूढ उच्यतो
इति शब्दार्थचिन्तामणिः ॥) खट्वोपरिस्थितश्च ॥

खट्विका, स्त्री, (अल्पा खट्वा । अल्पार्थे कन् ।

अत इत्वञ्च ।) क्षुद्रखट्वा । इति जटाधरः ॥
खट्वाविशेषः । तद्युक्तिर्यथा, --
“ब्रह्मक्षत्त्रियवैश्यानां चतुःषडष्टकोणिकाः ।
खट्विकाः सुखसम्भूताः शुक्लरक्तासिताम्बराः ॥”
इति युक्तिकल्पतरौ खट्विकोद्देशः ॥

खड, इ ङ मथि । इति कविकल्पद्रुमः ॥ (भ्वां-

आत्मं-सकं-सेट् । इदित् ।) मथि मन्थने
मन्थनञ्चेह भञ्जनम् । इ, खण्ड्यते । ङ, खण्डते
दण्डेन भाण्डं लोकः । इति दुर्गादासः ॥

खड, क भेदे । इति कविकल्पद्रुमः ॥ (चुरां-

परं-सकं-सेट् ।) क, खाडयति । इति दुर्गादासः ॥

खडं, क्ली, पुं, (खण्ड्यते छिद्यते धान्ये पक्वे सति

इति । खड + कर्म्मणि अप् ।) लघुतृणम् । इति
शब्दरत्नावली । खड् इति भाषा ॥

खडः, पुं, (खड + भावकर्म्मादौ यथायथं अप् ।)

पानान्तरम् । भेदः । इति मेदिनी । डे । ८ ॥
खडयूषो यथा, चक्रदत्ते ।
“तक्रं कपित्थचाङ्गेरीमरिचाजाजिचित्रकैः ।
सुपक्कं खडयूषोऽयमयं काम्बलिकोऽपरः ॥”

खडक्किका, स्त्री, (खडक् इत्यव्यक्तशब्दं करोतीति ।

कृ + बाहुलकात् डः ततो गौरादित्वात् ङीष् ।
ततः स्वार्थे कन् टाप् पूर्ब्बह्रस्वश्च ।) पक्षद्वारम् ।
इति हाराबली ॥ खड्किद्वार इति भाषा ॥

खडतूः, पुं, (खड + अतूप्रत्ययः ।) बाहुजङ्घा-

भरणम् । इति संक्षिप्तसारे उणादिवृत्तिः ॥

खडिका, स्त्री, (खड् + अप् + गौरादित्वात् ङीष् ।

ततः स्वार्थे कन् पूर्ब्बह्रस्वः ।) कठिनी । इति
जटाधरः ॥

खडी, स्त्री, (खड् + अप् + ततो ङीष् ।) कठिनी ।

स्वनामख्यातश्वेतवर्णमृत्तिकाविशेषः । इति शब्द-
चन्द्रिका ॥ अस्या गुणपर्य्यायौ कठिनीशब्दे
खटीशब्दे च द्रष्टव्यौ ॥

खडूः, स्त्री, (खड् + “खडेर्डुड्वा ।” उणां । १ । ८४ ।

इति ऊः ।) मृतशय्या । (बाहुजङ्घाभरणम् ।
इत्युज्ज्वलदत्तः ॥)

खड्गं, क्ली, (खड भेदे + “छापूखडिभ्यः कित् ।”

उणां । १ । १२३ । इति गन् प्रत्ययः ।) लोहम् ।
इति राजनिर्घण्टः ॥

खड्गः, पुं, (खडति भिनत्तीति । खड् + “छापू-

खडिभ्यः कित् ।” उणां । १ । १२३ । इति गन् ।)
गण्डकः । गण्डार इति भाषा ॥ (यथा, मनुः ।
३ । २७२ ।
“कालशाकं महाशल्काः खड्गलोहामिषं मधु ।
आनन्त्यायैव कल्पन्ते मुन्यन्नानि च सर्व्वशः ॥”
“खड्गो गण्डकः लोहो लोहितवर्णश्छाग एव ।”
इति कुल्लूकभट्टः ॥) गण्डकशृङ्गम् । खाग इति
भाषा । बुद्धभेदः । इति मेदिनी ॥ चोरकनाम-
गन्धद्रव्यम् । इति राजनिर्घण्टः ॥ अस्त्रविशेषः ।
खाँडा तरवाल इत्यादि भाषा ॥ (यथा, महा-
भारते । ४ । ४१ । २५ ।
“यस्त्वयं विपुलः खड्गो गव्ये कोषे समर्पितः ।
सहदेवस्य विद्ध्येनं सर्व्वभारसहं दृढम् ॥”)
तत्पर्य्यायः । निस्त्रिंशः २ चन्द्रहासः ३ असिः ४
रिष्टिः ५ कौक्षेयकः ६ मण्डलाग्रः ७ करबालः ८
कृपाणः ९ । इत्यमरः । २ । ८ । ८९ ॥ ऋष्टिः १० कर-
पालः ११ । इति तट्टीका ॥ विशसनः १२
तीक्ष्णधारः १३ दुरासदः १४ श्रीगर्भः १५ विजयः १६
धर्म्मपालः १७ कौक्षेयः १८ तरवारिः १९
तवराजः २० कृपाणकः २१ कृपाणी २२
शस्त्रः २३ । इति शब्दरत्नावली ॥ * ॥ तस्योत्-
पत्तिर्ब्रह्मणो यज्ञाग्नौ यथा, --
“विकीर्य्याग्निं तथाभूतमुत्थितं श्रूयते तदा ।
नीलोत्पलसवर्णाभं तीक्ष्णदंष्ट्रं कृशोदरम् ॥
प्रांशुं सुदुर्द्ध्वर्षतरं तथैव ह्यमितौजसम् ।
ततस्तद्रूपमुत्सृज्य बभौ निस्त्रिंश एव सः ॥
विमलस्तीक्ष्णधारश्च कालान्तक इवोद्यतः ।
ततः स शितिकण्ठाय रुद्रायर्षभकेतवे ॥
ब्रह्मा ददावसिं तीक्ष्णमधर्म्मप्रतिवारणम् ।
ततः स भगवान् रुद्रो दानवक्षतजोक्षितम् ॥
असिं धर्म्मस्य गोप्तारं ददौ सत्कृत्य विष्णवे ।
विष्णुर्मरीचये स महर्षिभ्यः ते इन्द्राय स लोक-
पालेभ्यः ते मनवे सूर्य्यपुत्त्राय स क्षुपाय स
इक्ष्वाकवे स पुरूरवसे स आयवे स नहुषाय स
ययातये स पूरवे स अमूर्त्तरयसे स भूमिशयाय
सभरताय स ऐडविडाय स धुन्धुमाराय स
काम्बोजाय स मुचुकुन्दाय स मरुत्ताय स रैव-
ताय स यौवनाश्वाय स रघवे स हरिणाश्वाय
स शुनकाय स उशीनराय स भोजाय स शिवये
स प्रतर्द्दनाय स अष्टकाय स ऋषदश्वाय स भर-
द्वाजाय स द्रोणाय स कृपाय स पाण्डवेभ्यो
दत्तवान् ॥ * ॥ अथ खड्गविषयकत्रयोदश-
विधसञ्चरणं यथा, महाभारते ।
“मण्डलाकारतः खड्गभ्रामणं भ्रान्तमुच्यते ।
तदेव बाहुमुद्यम्य कृतमुद्भ्रान्तमीरितम् ॥
भ्रामणं स्वस्य परितः खड्गस्याविद्धमुच्यते ।
परप्रयुक्तशस्त्रस्य वारणार्थमिदं त्रयम् ॥
णत्रोराक्रमणार्थाय गमनन्त्वाप्लुतं मतम् ।
खड्गस्याग्रेण तद्देहस्पर्शनं प्रसृतं मतम् ॥
वञ्चयित्वा रिपौ शस्त्रपातनं गदितं स्मृतम् ।
परिवृत्यं भवेत् शत्रोर्वामदक्षिणतो गतिः ॥
पश्चात् पदापसरणं निवृत्यं संप्रचक्षते ।
अन्योऽन्यताडनं प्राहुः सम्पातमुभयोरपि ॥
आधिक्यमात्मनो यत् तत् समुदीर्णमुदीरितम् ।
अङ्गप्रत्यङ्गदेशेषु भ्रामणं भारतं स्मृतम् ॥
विचित्रखड्गसञ्चारदर्शनं कौशिकं स्मृतम् ।
निलीय चर्म्मणि क्षेपो यदसेः सात्वतं हि तत् ॥”
तस्य परीक्षा तरवारिशब्दे द्रष्टव्या ॥ (अस्य
लक्षणादिकं यथा, बृहत्संहितायां ५० अध्याये ।
“अङ्गलशतार्धमुत्तम ऊनः स्यात्पञ्चविंशतिं खड्गः ।
अङ्गलमानाज्ज्ञेयो व्रणोऽशुभो विषमपर्वस्थः ॥
श्रीवृक्षवर्धमानातपत्रशिवलिङ्गकुण्डलाब्जानाम् ।
सदृशा व्रणाः प्रशस्ता ध्वजायुधस्वस्तिकानाञ्च ॥
कृकलासकाककङ्कक्रव्यादकबन्धवृश्चिकाकृतयः ।
खड्गे व्रणा न शुभदा वंशानुगाः प्रभूताश्च ॥
स्फुटितो ह्रस्वः कुण्ठो वंशच्छिन्नो न दृङ्मनो-
ऽनुगतः ।
अस्वन इति त्तानिष्टः प्रोक्तविपर्यस्त इष्टफलः ॥
क्वणितं मरणायोक्तं पराजयाय प्रवर्त्तनं कोशात् ।
स्वयमुद्गीर्णे युद्धं ज्वलिते विजयो भवति खड्गे ॥
नाकारणं विवृणुयान्न विघट्टयेच्च
पश्येन्न तत्र वदनं न वदेच्च मूल्यम् ।
देशं न चास्य कथयेत् प्रतिमानयेच्च
नैव स्पृशेन्नृपतिरप्रयतोऽसियष्टिम् ॥
गोजिह्वासंस्थानो नीलोत्पलवंशपत्रसदृशश्च ।
करवीरपत्रशूलाग्रमण्डलाग्राः प्रशस्ताः स्युः ॥
निष्पन्नो न च्छेद्यो निकषैः कार्य्यः प्रमाणयुक्तः सः ।
मूले म्रियते स्वामी जननी तस्याग्रतश्छिन्ने ॥
यस्मिन् त्सरुप्रदेशे व्रणो भवेत्तद्वदेव खड् गस्य ।
वनितानामिव तिलको गुह्ये वाच्यो मुखे दृष्ट्वा ॥
अथषा स्पशति यदङ्गं प्रष्टा निस्त्रिंशभृत्तद-
वधाय्यं ।
कोशस्थस्यादेश्यो व्रणोऽस्ति शास्त्रं विदित्वेदम् ॥
शिरसि स्पृष्टे प्रथमेऽङ्गुले द्वितीये ललाटसंस्पर्शे ।
भ्रूमध्ये च तृतीये नेत्रे स्पृष्टे चतुर्थे च ॥
नासोष्ठकपोलहनुश्रवणग्रीवांसकेषु पञ्चाद्याः ।
उरसि द्वादशसंस्थस्त्रयोदशे कक्षयोर्ज्ञेयः ॥
स्तनहृदयोदरकुक्षीनाभीषु चतुर्द्दशादयो ज्ञेयाः ।
नाभीमूले कट्यां गुह्ये चैकोनविंशतितः ॥
ऊर्वोर्द्वाविंशे स्याद् ऊर्वोर्मध्ये व्रणस्त्रयोविंशे ।
जानुनि च चतुर्विंशे जङ्घायां पञ्चविंशे च ॥
जङ्घामध्ये गुल्फे पार्ष्ण्यां पादे तदङ्गलीष्वपि च ।
षड् विंशतिकाद्यावत्त्रिंशदिति मतेन गर्गस्य ॥
पुत्त्रमरणं धनाप्तिर्धनहानिः सम्पदश्च बन्धश्च ।
एकाद्यङ्गुलसंस्थैर्व्रणैः फलं निर्द्दिशेत् क्रमशः ॥
सुतलाभः कलहो हस्तिलब्धयः पुत्त्रमरण-
धनलाभौ ।
क्रमशो विनाशवनिताप्तिचित्तदुःखानि षट्प्रभृति ॥
लब्धिर्हानिस्त्रीलब्धयो वधो वृद्धिमरणपरितोषाः ।
ज्ञेयाश्चतुर्द्दशादिषु धनहानिश्चैकविंशे स्मात् ॥
पृष्ठ २/२७४
वित्ताप्तिरनिर्वाणं धनागमो मृत्युसम्पदोऽस्वत्वम् ।
ऐश्वर्य्यमृत्युराज्यानि च क्रमात्त्रिंशदिति यावत् ॥
परतो न विशेषफलं विषमसमस्थास्तु पाप-
शुभफलदाः ।
कैश्चिदफलाः प्रदिष्टास्त्रिंशत्परतोऽग्रमितियावत् ॥
करवीरोत्पलगजमदघृतकुङ्कुमकुन्दचम्पकसगन्धः ।
शुभदोऽनिष्टो गोमूत्रपङ्कमेदःसदृशगन्धः ॥
कूर्म्मवसासृक्क्षारोपमश्च भयदुःखदो भवति गन्धः ।
वैदूर्यकनकविद्युत्प्रभो जयारोग्यवृद्धिकरः ॥
इदमौशनसं त्त शस्त्रपानं
रुधिरेण श्रियमिच्छतः प्रदीप्ताम् ।
हविषा गुणवत्सुताभिलिप्सोः
सलिलेनाक्षयमिच्छतश्च वित्तम् ॥
वडवोष्ट्रकरेणुदुग्धपानं
यदि पापेन समीहतेऽर्थसिद्धिम् ।
झषपित्तमृगाश्ववस्तदुग्धैः
करिहस्तच्छिदये सतालगर्भैः ॥
आर्कं पयो हुडुविषाणमषीसमेतं
पारावताखुशकृता च युतं प्रलेपः ।
शस्त्रस्य तैलमथितस्य ततोऽस्य पानं
पश्चाच्छितस्य न शिलासु भवेद्विघातः ॥
क्षारे कदल्या मथितेन युक्ते
दिनोषिते पायितमायसं यत् ।
सम्यक् छितं चाश्मनि नैति भङ्गं
न चान्यलोहेष्वपि तस्य कौण्ठ्यम् ॥”)

खड्गकोषः, पुं, खड्गलता । तत्पर्य्यायः ।

खड्गपत्रः २ खड्गिमारः ३ अश्वपुच्छकः ४ ।
इति शब्दचन्द्रिका ॥ (खड्गस्य कोषः ।)
खड्गाधारः । खाप इति भाषा । अयं व्युत्-
पत्तिलब्धोऽर्थः ॥

खड्गटः, पुं, (खड्गैव अटतीति । अट् + अच् ।

शकन्ध्वादित्वात् साधुः ।) बृहत्काशः । इति
हारावली ॥

खड्गधेनुः, स्त्री, खड्गपुत्त्रिका । छुरि इति

भाषा । (खड्गस्य गण्डकस्य धेनुः पत्नी ।)
गण्डकस्त्री । इति मेदिनी ॥ मादी गण्डार इति
भाषा ॥

खड्गपत्रः, पुं, (खड्गाकाराणि पत्राणि अस्य ।)

खड्गलता । इति शब्दचन्द्रिका ॥

खड्गपिधानं, क्ली, (खड्गस्य पिधानमाच्छा-

दनम् ।) खड्गकोषः । खाप इति भाषा ।
इति हलायुधः ॥

खड्गपिधानकं, क्ली, (खड्गस्य पिधानकम् ।)

खड्गपिधानम् । खाप इति भाषा । तत्-
पर्य्यायः । प्रत्याकारः २ परीवारः ३ कोशः ४ ।
इति हेमचन्द्रः ॥

खड्गारीटः, त्रि, (खड्गं ऋच्छतीति । ऋ + कीटन् ।

निपातनात् पूर्ब्बवृद्धिः । यद्बा खड्गारिरिवा-
चरति इति । क्विः ततः कीटन् ।) फलकः ।
असिधाराव्रतधारी । इति मेदिनी ॥

खड्गिकः, पुं, महिषीक्षीरफेनः । शौनिकः । इति

मेदिनी ॥

खड्गिमारः, पुं, (खड्गिनं गण्डकं मारयतीति ।

मृ + णिच् “कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।
अस्त्रविशेषः ।) खड्गकोषलता ॥ इति शब्द-
चन्द्रिका ॥

खड्गी, [न्] पुं, (खड्गस्तदाकारं शृङ्गमस्या-

स्तीति । इनिः ।) वनजन्तुविशेषः । गण्डार
इति भाषा । तत्पर्य्यायः । गण्डकः २ खड्गः ३ ।
इत्यमरः । २ । ५ । ४ ॥ खड्गमृगः ४ क्रोडीमुखः ५
तुङ्गमुखः ६ बली ७ वज्रचर्म्मा ८ वार्द्ध्रीनसः ९ ।
इति राजनिर्घण्टः ॥ एकचरः १० गणोत्-
साहः ११ । इति त्रिकाण्डशेषः ॥ गण्डः १२
स्वनोत्साहः १३ । इति शब्दरत्नावली ॥ अस्य
मांसगुणाः । बलकारित्वम् । बृंहणत्वम् । गुरु-
त्वम् । इति राजनिर्घण्टः ॥ कफवायुनाशित्वम् ।
कषायत्वम् । पितृलोकतृप्तिकारित्वम् । पवित्र-
त्वम् । आयुर्हितत्वम् । मूत्रबन्धकारित्वम् ।
रूक्षत्वञ्च । इति राजवल्लभः ॥
(“कफघ्नं खड्गिपिशितं कषायमनिलापहम् ।
पित्र्यं पवित्रमायुष्यं बद्धमूत्रं विरूक्षणम् ॥”
इति सुश्रुते सूत्रस्थाने षट्चत्वारिंशत्तमेऽध्याये ॥
महादेवः । यथा, महाभारते । १३ । १७ । ४२ ।
“अशनी शतघ्नी खड्गी पट्टिशी चायुधी
महान् ॥”
खड्गो विद्यतेऽस्य इति व्युत्पत्या तु वाच्य-
लिङ्गः । यथा, भागवते । ८ । १५ । ८ ।
“सुस्रग्धरोऽथ सन्नह्य धन्वी खड्गी धृतेषुधिः ॥”)

खड्गीकं, क्ली, (खड्गस्तत् कर्म्मणि कुशलम् । बाहु-

लकात् ईकः ।) दात्रम् । इति शब्दरत्नावली ॥

खण्डं, क्ली, (खडि + धञ् । इदित्वात् नुम् ।)

विड्लवणम् । इति राजनिर्घण्टः ॥ इक्षुवि-
कारः । अस्य गुणाः । वृष्यतमत्वम् । चक्षु-
ष्यत्वम् ॥ वातपित्तनाशित्वञ्च । इति राजवल्लभः ॥
(अस्य गुणाः यथा, --
“खण्डन्तु मधुरं वृष्यं चक्षुष्यं बृंहणं हिमम् ।
वातपित्तहरं स्निग्धं बल्यं वान्तिहरं परम् ॥”
मधुखण्डगुणाः यथा, --
“मधुजा शर्करा रूक्षा कफपित्तहरी गुरुः ।
छर्द्यतीसारतृड्दाहरक्तहृत्तुवरा हिमा ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)

खण्डः, पुं, क्ली, (खडि + घञ् इदित्वात् नुम् ।) एक-

देशः । तत्पर्य्यायः । भित्तम् २ शकलम् ३ । इत्य-
मरः । १ । ३ । १६ ॥ (यथा, मार्कण्डेये । ८३ । २६ ।
“धुतशृङ्गविभिन्नाश्च खण्डखण्डं ययुर्घनाः ॥”
अब्जादिसमूहः । इत्यमरः । १ । १० । ४२ ।)

खण्डः, पुं, (खडि + घञ् ।) इक्षुविकारः । खाँड

इति भाषा । मणिदोषः । इति मेदिनी ॥ (योगि-
विशेषः । यथा, हठयोगदीपिकायाम् । १ । ८ ।
“भानुकीनारदेवश्च खण्डः कापालिकस्तथा ॥”)

खण्डकः, पुं, (खण्डेन निर्वृत्तः इति संज्ञायां कः ।)

निर्नखः । इति शब्दचन्द्रिका ॥ सिताखण्डः ।
इति राजनिर्घण्टः ॥ (खण्डयतीति । खडि +
ण्वुल् । छेदकारी ॥)

खण्डकथा, स्त्री, (खण्डा खण्डिता कथा ।)

वाङ्मयभेदः । इति त्रिकाण्डशेषः ॥

खण्डकर्णः, पुं, (खण्ड इव कर्णः कन्दो यस्य ।)

आलुविशेषः । शकरकन्द आलु इति भाषा ॥
तत्पर्य्यायः । वज्रकन्दः २ । इति रत्नमाला ॥
अस्य गुणाः । कफपित्तनाशित्वम् । कटुपाकि-
त्वम् । इति राजवल्लभः ॥

खण्डकालु, क्ली, (खण्ड इव कायतीति । कै + कः ।

ततः खण्डकं आलु इति कर्म्मधारयः ।) आलु-
विशेषः । इति शब्दचन्द्रिका ॥

खण्डजः, पुं, (खण्ड इव जायते खण्डाकारेण

जायते वा । जन् + डः ।) गुडः । यवासशर्करा ।
इति राजनिर्घण्टः ॥

खण्डजोद्भवजः, पुं, (खण्डज उद्भवोऽस्य इति खण्ड-

जोद्भवः तस्माज्जायते इति । जन् + डः ।) तव-
राजोद्भवखण्डः । इति राजनिर्घण्टः ॥

खण्डतालः, पुं, (खण्डेन वाद्यांशभेदेन निर्वृत्त-

स्तालः ।) तालविशेषः । यथा, --
“द्रुतमेकं भवेद्यत्र खण्डतालः स उच्यते ।
अपरं नियमं विना ।”
इति सङ्गीतदामोदरः ॥

खण्डधारा, स्त्री, (खण्डे एकदेशे धारो यस्याः ।)

कर्त्तरी । इति शब्दमाला ॥ काँचि इति भाषा ॥

खण्डनं, क्ली, (खडि भावे + ल्युट् ।) भञ्जनम् ।

भेदनम् । निराकरणम् । छेदनम् । यथा, --
“घटय भुजबन्धनं जनय रदखण्डनं देहि पद-
पल्लवमुदारम् ॥” इति जयदेवः ॥

खण्डपरशुः, पुं, (खण्डयति शत्रून् इति खण्ड-

स्तादृशः परशुरस्य ।) शिवः । इत्यमरः । १ । १ । ३३ ॥
(यथा, महाभारते ७ । रुद्रमाहात्म्ये । २०० । ४१ ।
“पिनाकिनं खण्डपरशुं लोकानां पतिमीश्वरम् ॥”
विष्णुः । यथा, महाभारते । १३ । १४९ । ७४ ।
“सुधन्वा खण्डपरशुर्द्दारुणो द्रविणप्रदः ॥”)

खण्डपर्शुः, पुं, (शत्रून् खण्डयति विदारयति इति

खण्डस्तथाविधः पर्शुरस्य ।) परशुरामः । शिवः ।
चूर्णलेपी । खण्डामलकभैषज्यम् । राहुः । इति
मेदिनी ॥ भग्नदन्तहस्ती । इति शब्दरत्नावली ॥

खण्डपालः, पुं, (खण्डं पालयतीति । पालि + “कर्म्म-

ण्यण् ।” ३ । २ । १ । इत्यण् ।) मोदकः । मयरा
इति भाषा । तत्पर्य्यायः । खाण्डिकः २ । इति
हारावली ॥

खण्डमोदकः, पुं, (खण्डेन खण्डोत्पादितलड्डुका-

दिना वा मोदयतीति । खण्ड + मुद् + णिच् +
ण्वुल ।) यवासशर्करा । इति राजनिर्घण्टः ॥

खण्डलवणं, क्ली, (खण्ड्यते इति खण्डम् । खडि +

कर्म्मणि घञ् । तच्च तत् लवणञ्चेति ।) विड्-
लवणम् । इति राजनिर्घण्टः ॥ (विडशब्देऽस्य
विवरणं ज्ञातव्यम् ॥)

खण्डशाखा, स्त्री, (खण्डा खण्डिता शाखा

अस्याः ।) महिषवल्ली । इति राजनिर्घण्टः ॥

खण्डसरः, पुं, (खण्ड इव सरतीति । सृ + अच् ।)

यवासशर्करा । इति राजनिर्घण्टः ॥
पृष्ठ २/२७५

खण्डाभ्रं, क्ली, (खण्डं अभ्रं मेघः ।) अभ्रलेशः ।

छेँडा मेघ इति भाषा । दन्तक्षतविशेषः । इति
मेदिनी ॥

खण्डिकः, पुं, (खण्डोऽस्यास्तीति । ठन् ।) कलायः ।

कडाइ इति भाषा । इत्यमरः ॥ (अस्य पर्य्याया
यथा, --
“त्रिपुटः खण्डिकोऽपि स्यात् कथ्यन्ते तदगुणा अथ ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
गुणाश्चास्य त्रिपुटशब्दे वक्तव्याः ॥) कक्षः । इति
हेमचन्द्रः ॥ वगल इति भाषा ॥

खण्डितं, त्रि, (खडि + क्तः ।) खण्डीकृतम् । तत-

पर्य्यायः । छिन्नम् २ लूनम् ३ छितम् ४ दितम्
५ छेदितम् ६ वृक्नम् ७ वृत्तम् ८ । इति हेम-
चन्द्रः ॥ (यथाह शब्दार्थचिन्तामणिः ।
“चन्द्रे कलङ्कः सुजने दरिद्रता
विकाशलक्ष्मीः कमलेषु चञ्चला ।
मुखेऽप्रसादः सधनेषु सर्व्वदा
यशो विधातुः कथयन्ति खण्डितम् ॥”
खण्डिताङ्गः । खण्डिताङ्गत्वं दुष्टवचनकर्म्म-
विपाकः । यथाह शातातपः । ३ अध्याये ।
“दुष्टवादी खण्डितः स्यात् स वै दद्यात् द्बिजातये ।
रूप्यं पलद्वयं दुग्धं घटद्वयसमन्वितम् ॥”)

खण्डिता, स्त्री, (खण्डित + टाप् ।) स्वीयादि-

नायिकाया भेदः । अस्या लक्षणम् । अन्योप-
भोगचिह्नितः पतिः प्रातरागच्छति यस्याःसा ।
अस्याश्चेष्टा । “अस्फुटालापचिन्तासन्ताप-
निश्वासतूष्णीम्भावाश्रुपातादयः ।” इति रस-
मञ्जरी ॥ (साहित्यदर्पणोक्तलक्षणं यथा,
तत्रैव । ३ । ८३ ।
“पार्श्वमेति प्रियो यस्या अन्यसम्भोगचिह्नितः ।
सा खण्डितेति कथिता धीरैरीर्षाकषायिता ॥
उदाहरणं यथा, तत्रैव ।
“तदवितथमवादीर्यन्मम त्वं प्रियेति
प्रियजनपरिभुक्तं यद्दुकूलं दधानः ।
मदधिवसतिमागाः कामिनां मण्डनश्री-
र्व्रजति हि सफलत्वं वल्लभालोकनेन ॥”)

खण्डिनी, स्त्री, (खण्डोऽस्यास्तीति । खण्ड + इनिः ।

स्त्रियां ङीप् । यद्वा, खण्डयति आत्मानं द्बीप-
पर्व्वतसमुद्रादिव्यवच्छेदेनेति शेषः । खडि +
णिनिः ।) पृथ्वी । इति शब्दरत्नावली ॥

खण्डी, [न्] पुं, (खण्डयति आत्मानं द्विदलरूपेण

इति । खडि + णिनिः ।) वनमुद्गः । इति हेमचन्द्रः ॥

खण्डीरः, पुं, (खण्डी + शुण्डादित्वात् रः ।) पीत-

मुद्गः । इति हेमचन्द्रः ॥

खतमालः, पुं, (खे आकाशे अन्तरीक्षे तमाल

इव । तत्वर्णसादृश्यात्तथात्वम् ।) धूमः । मेघः ।
इति मेदिनी ॥

खद, स्थैर्य्ये । वधे । इति कविकल्पद्रुमः ॥ (भ्वां-

परं-अकं-वधे तु सकं-सेट् ।) खदति । इति
दुर्गादासः ॥

खदिका, स्त्री, (खे भर्ज्जनपात्रादूर्द्ध्वाकाशे दीयते

खण्ड्यते इति । ख + दो अवखण्डने + घञर्थे
कः । ततः संज्ञायां कन् टाप् अत इत्वञ्च ।)
लाजाः । इति त्रिकाण्डशेषः ॥ खै इति
भाषा ॥

खदिरः, पुं, (खद स्थैर्य्यहिंसयोः + “अजिर-

शिशिरशिथिलेति ।” उणां । १ । ५४ । इति
किरच् ।) वृक्षविशेषः । खयेरगाछ इति भाषा ।
तत्पर्य्यायः । गायत्त्री २ बालतनयः ३ दन्त-
धावनः ४ । इत्यमरः । २ । ४ । ४९ ॥ तिक्तसारः
५ कण्टकीद्रुमः ६ । इति रत्नमाला ॥ बालपत्रः
७ खद्यपत्री ८ क्षितिक्षमः ९ सुशल्यः १० वक्र-
कण्टः ११ यज्ञाङ्गः १२ जिह्वाशल्यः १३ कण्टी
१४ सारद्रुमः १५ कुष्ठारिः १६ बहुसारः १७
मेध्यः १८ बालपुत्त्रः १९ रक्तसारः २० कर्कटी
२१ जिह्वशल्यः २२ । इति जटाधरः ॥ कुष्ठ-
हृत् २३ बालपत्रकम् २४ यूपद्रुमः २५ ।
इति शब्दरत्नावली ॥ अपि च भावप्रकाशे ।
“खदिरो रक्तसारश्च गायत्त्री दन्तधावनः ।
कण्टकी बालपत्रश्च बहुशल्यश्च पाक्षिकः ॥
खदिरः शीतलो दन्त्यः कण्डूकासारुचिप्रणुत् ।
तिक्तः कषायो मेदोघ्नः कृमिमेहज्वरव्रणान् ।
श्वित्रशोथामपित्तास्रपाण्डुकुष्ठकफान् हरेत् ॥”
अस्य गुणाः । तिक्तरसत्वम् । शीतत्वम् ।
पित्तकफकुष्ठकासरक्तशोफकण्डुव्रणनाशित्वम् ।
पाचनत्वञ्च । इति राजनिर्घण्टः ॥ विसर्पवेदना-
मेहमेदोनाशित्वम् । इति राजवल्लभः ॥ * ॥ (अथ
श्वेतखदिरः । पपरी खयेर इति भाषा ॥
“खदिरः श्वेतसारोऽन्यः कदरः सोमवल्कलः ।
कदरो विशदो वर्ण्यो मुखरोगकफास्रजित् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे च ॥
खदति हन्ति शत्रून् इति । खद् + किरच् ।)
इन्द्रः । इति त्रिकाण्डशेषः ॥ (खे आकाशे
दीर्य्यते यस्माच्चन्द्रलोकादिष्ट्यापूर्त्तादिकर्म्मिभिः ।
दृ + बाहुलकात् अपादाने किरच । इष्ट्या-
पूर्त्तादिकर्म्मिणां हि आरब्धाम्मयदेहविदारेण
चन्द्रमण्डलात् आकाशे पतनात् तथात्वम् ।)
चन्द्रः । इति मेदिनी ॥ (तथा च साङ्ख्यदर्शनभाष्ये ।
“येन कर्म्मबृन्देन चन्द्रमसमारूढाः फलोप-
भोगाय तस्मिन् उपभोगेन क्षयिते तेषां यद-
म्मयं शरीरं चन्द्रमस्युपभोगायारब्धं तदुपभोग-
क्षयदर्शनशोकाग्निसम्पर्कात् प्रलीयते सवितृ-
सम्पर्कात् हिमकरका इव हुतभुगर्च्चिःसम्प-
र्कादिव च घृतकाठिन्यम् । ततः कृतात्यये कृतस्य
इष्ट्यादेः कर्म्मणः फलोपभोगेनोपक्षये सति
सानुशया एवेममवरोहन्ति ॥”)

खदिरपत्रिका, स्त्री, (खदिरस्य पत्रमिव पत्रमस्याः ।

कप् कापि अत इत्वम् ।) अरिखदिरः ।
लज्जालुलता । इति राजनिर्घण्टः ॥

खदिरपत्री, स्त्री, (खदिरस्य पत्रमिव पत्रमस्याः ।)

लज्जालुलता । इति वैद्यकम् ॥

खदिरा, स्त्री, (खदिरस्तत्पत्राकारोऽस्त्यस्याः । अच्

टाप् च ।) लज्जालुलता । इति राजनिर्घण्टः ॥

खदरिका, स्त्री, (खदिरेण खदिररसेन समो रसो-

ऽस्त्यस्याः । अस्त्यर्थे + ठन् ततः टाप् ।) लाक्षा ।
इति राजनिर्घण्टः ॥

खदिरी, स्त्री, (खद् + किरच् । गौरादित्वात्

ङीष् ।) खदिरीशाकम् । लाजालु इति
ख्याता । इति केचित् । किन्तु रभसेन
वराहक्रान्ता लज्जालुः समङ्गा जलकारिकेति
खदिरिकायांसङ्कोचपत्री लज्जालुरिति लज्जालु-
कायां पठितम् । इति भरतः ॥ तत्पर्य्यायः ।
नमस्कारी २ गण्डकाली ३ समङ्गा ४ । इत्य-
मरः । २ । ४ । १४१ ॥ (क्वचित् खदिरेति पाठो
दृश्यते ॥) गण्डकारी ५ । इति भरतः ॥ शमी
पत्रा ६ रक्तपत्री ७ अञ्जलिकारिका ८ रास्ना ९ ।
इति जटाधरः ॥
(“गण्डकाली नमस्कारी समङ्गा खदिरी क्वचित् ।”
इति वैद्यरत्नमालायाम् ॥)

खदिरोपमं, क्ली, (खदिरेण उपमीयते इति । खदिर

उपमा अस्य वा ।) कदरः । इति रत्नमाला ।
काँटा वावला इति भाषा ॥

खदूरवासिनी, स्त्री, (खे शून्ये दूरे च वसतीति ।

वस् + णिनिः । ततो ङीप् ।) बुद्धशक्तिविशेषः ।
इति त्रिकाण्डशेषः ॥

खद्योतः, पुं, (खं आकाशं द्योतयतीति । द्युत्

दीप्तौ + णिच् + “कर्म्मण्यण् ।” ३ । २ । १ । इति
अण् ।) सूर्य्यः । इति जटाधरः ॥ (यथा, भाग-
वते । ४ । २९ । १० ।
“खद्योताविर्म्मुखी चात्र नेत्रे एकत्र निर्म्मिते ।
रूपं विभ्राजितं ताभ्यां विचष्टे चक्षषेश्वरः ॥”
नेत्रस्य हि सूर्य्याधिष्टातृतया रूपादिदर्शनशक्ति-
रिति प्रसिद्धेस्तथात्वम् ॥ खे आकाशे द्योतते
इति । द्युत् + अच् ।) कीटविशेषः । जोनाक
पोका इति भाषा । तत्पर्य्यायः । ज्योतिरिङ्गणः २ ।
इत्यमरः । २ । ५ । २८ ॥ खज्योतिः ३ प्रभाकीटः ४
उपसूर्य्यकः ५ । इति राजनिर्घण्टः ॥ ध्वान्तो-
न्मेषः ६ तमोमणिः ७ दृष्टिबन्धुः ८ तमोज्योतिः ९
ज्योतिरिङ्गः १० निमेषकः ११ । इति शब्द-
रत्नावली ॥ (यथा, श्रीमद्भागवते । ६ । १६ । ४६ ।
“विदितमनन्तसमस्तं
तव जगदात्मनो जनैरिहाचरितम् ।
विज्ञाप्यं परमगुरोः
कियदिव सवितुरिव खद्योतैः ॥”)

खद्योतनः, पुं, (द्योतयतीति । द्युत् + णिच् + कर्त्तरि

ल्युः । ततः खस्य आकाशस्य द्योतनः प्रका-
शकः ।) सूर्य्यः । इति जटाधरः ॥

खधूपः, पुं, (खं आकाशं धूपयति । खे धूपः

ज्वलच्छिखवह्निरिव वा । धूप् + “कर्म्मण्यण् ।”
। ३ । २ । १ । इति अण् ।) अग्निक्रीडा-
विशेषः । हाउइ इति भाषा । यथा, भट्टौ ।
३ । ५ ।
“उक्षाम्प्रचक्रुर्नगरस्य मार्गान्
ध्वजान् बबन्धुर्मुमुचुः खधूपान् ॥”
पृष्ठ २/२७६

खन, उ ञ विदारे । इति कविकल्पद्रुमः ॥ (भ्वां-

उभं-सकं-सेट् ।) उ, खनित्वा खान्त्वा । ञ,
तृषितो जाह्नवीतीरे कूपं खनति दुर्म्मतिः ।
खनते । इति दुर्गादासः ॥

खनकः, पुं, (खन् + “शिल्पिनि ष्वुन् ।” ३ । १ । १४५ ।

इति वुन् स च षित् ।) उन्दुरुः । सन्धितस्करः ।
सिँदेल चोर इति भाषा । भूमिवित्तज्ञः ।
स्वर्णाद्युत्पत्तिस्थानज्ञः । इति हेमचन्द्रः ॥
(स्वनामप्रसिद्धो विदुरस्य बन्धुविशेषः । यथा,
महाभारते जतुगृहे । १ । १४८ । १ ।
“विदुरस्य सुहृत् कश्चित् खनकः कुशलो नरः ॥”)

खनकः, त्रि, (खन् + वुन् ।) अवदारकः । खनन-

कर्त्ता । इति मेदिनी ॥ (यथा, गोः रामा-
यणे । १ । १२ । ६ ।
“स्थापत्ये चेह स्थाप्यन्तां वृद्धाः परमधार्म्मिकाः ।
कर्म्मान्तिका लिपिकरा वर्धकाः खनका अपि ॥”)

खननं, क्ली, (खन् + भावे ल्युट् ।) विदारणम् ।

खोँडन खोदन इति च भाषा । यथाह कश्चित् ।
“पश्य त्वं खननं नखेन तद्भूदालोक्य मूकः शठः ॥”

खनयित्री, स्त्री, (खन् + णिच् न वृद्धिर्निपातनात् ।

ततस्तृच् ङीप् च ।) अस्त्रभेदः । खन्तीति
भाषा । यथा, नारदपञ्चरात्रे पाद्मसंहिता ।
“खनयित्री शुभा यात्रा जयार्थं जयकाङ्क्षि-
णाम् ।
पञ्चवर्णांशुकयुता चालनीया पुरः सताम् ॥”

खनिः, स्त्री, (खन विदारे + “खनिकष्यञ्ज्यसीति ।”

उणां । ४ । १३९ । इति इन् ।) रत्नाद्युत्पत्तिस्थानम् ।
खानि इति भाषा ॥ (यथा, रघुः । १८ । २२ ।
“उत्खातशत्रुं वसुधोपतस्थे
रत्नोपहारैरुदितैः खनिभ्यः ॥”)
तत्पर्य्यायः । आकरः २ । इत्यमरः । २ । ३ । ७ ॥
खानी ३ खनी ४ खानिः ५ । इति शब्दरत्ना-
वली ॥ गञ्जा ६ । इति हेमचन्द्रः ॥

खनित्रं, क्ली, (खन् + “अर्त्तिलूधूसूखनेति ।”

। ३ । २ । १८४ । इत्र ।) अस्त्रविशेषः । खन्ता इति
भाषा । तत्पर्य्यायः । अघदारणम् । इत्यमरः ।
२ । ९ । १२ ॥ (“तथाहि भागवते । ७ । २ । १५ ।
“केचित् खनित्रैर्बिभिदुः सेतुप्राकारगोपुरान् ॥”)

खनी, स्त्री, (खनि + वा ङीष् ।) रत्नाद्युत्पत्ति-

स्थानम् । इति शब्दरत्नावली ॥

खपुरं, क्ली, (खं आकाशं पिपर्त्ति । पॄ + कः ।)

घटः । इति हेमचन्द्रः ॥ (खे आकाशे चरं
पुरम् ।) ऊर्द्ध्वगं पुरम् । (स तु दैत्यपुरविशेषः ।
तदुत्पत्तिकथा यथा, महाभारते । ३ । १७३ ।
निवातकवचवधे । ७-११ ।
“पुलोमा नाम दैतेयी कालका च महासुरी ।
दिव्यवर्षसहस्रं ते चेरतुः परमं तपः ॥
तपसोऽन्ते ततस्ताभ्यां स्वयम्भूरददद्वरम् ॥
अगृह्णीतां वरं ते तु सुतानामपदुःखिताम् ।
अवध्यताञ्च राजेन्द्र ! सुरराक्षसपन्नगैः ॥
पुरं सुरमणियञ्च खेचरञ्च महाप्रभम् ।
सर्व्वरत्नैः समुदितं दुर्द्धर्षममरैरपि ॥
महर्षियक्षगन्धर्व्वपन्नगासुरराक्षसैः ।
सर्व्वंकामगुणोपेतं वीतशोकमनामयम् ॥
ब्रह्मणा भरतश्रेष्ठ ! कालकेयकृते कृतम् ।
तदेतत् खपुरं दिव्यं चरत्यमरवर्ज्जितम् ॥”
खे आकाशे उत्थितं पुरम् । शुभाशुभादि-
सूचनार्थं प्रकाशितं गन्धर्व्वनगरम् । अस्यो-
त्तरादिदिग्भेदेनोदये फलभेदो यथा, बृहत्-
संहितायाम् ३६ अध्याये ।
“उदगादिपुरोहितनृपबलपतियुवराजदोषदं
खपुरम् ।
सितरक्तपीतकृष्णं विप्रादीनामभावाय ॥
नागरनृपतिजयावहमुदग्विदिक्स्थं विवर्ण-
नाशाय ।
शान्ताशायां दृष्टं सतोरणं विजयाय ॥
सर्व्वदिगुत्थं सततोत्थितञ्च भयदं नरेन्द्रराष्ट्रा-
णाम् ।
चौराटविकान् हन्याद्धूमानलशक्रचापाभम् ॥
गन्धर्व्वनगरमुत्थितमापाण्डुरमशनिनिपातवात-
करम् ।
दीप्ते नरेन्द्रमृत्युर्वामेऽरिभयं जयः सव्ये ॥
अनेकवर्णाकृति खे प्रकाशते
पुरं पताकाध्वजतोरणान्वितम् ।
यदा तदा नागमनुष्यवाजिनां
पिबत्यसृग्भूरि रणे वसुन्धरा ॥”)
हरिश्चन्द्रपुरम् । इति त्रिकाण्डशेषः ॥

खपुरः, पुं, (खं पिपर्त्ति उच्छ्रयत्वेन । पॄ + कः ।)

गुवाकः । (अस्य पर्य्याया यथा ।
“खपुरो ह्रस्वकः पूगः ।” इति वैद्यकरत्नमाला-
याम् ॥ खेन आकाशागतेन हिमकरादिना
पूर्य्यते इति । पॄ + कर्म्मणि घञर्थे कः ।) भद्रमुस्त-
कम् । (खमिन्द्रियं पिपर्त्ति । पॄ + कः ।)
अलसके त्रि । इति मेदिनी ॥ व्यालनखः । इति
राजनिर्धण्टः ॥

खभ्रान्तिः, पुं, (खे आकाशे अन्तरिक्षे भ्रान्तिर्भ्रमणं

आमिषार्थं यस्य ।) चिल्लः । इति शब्दरत्ना-
वली ॥ चिल् इति भाषा ॥

खेमणिः, पुं, (खे आकाशे मणिरिव ज्योतिर्मय-

त्वात् प्रकाशकत्वाद्वा ।) सूर्य्यः । इति त्रिकाण्ड-
शेषः ॥

खमीलनं, क्ली, (खानां इन्द्रियाणां मीलनम् ।)

तन्द्रा । इति शब्दरत्नावली ॥

खमूलिः, स्त्री, (खं शून्यभूतं मूलमस्याः पृषो-

दरात् साधुः । मूलराहित्यादस्यास्तथात्वम् ।)
कुम्भिका । इति शब्दरत्नावली ॥ पाना इति
भाषा ॥

खमूलिका, स्त्री, (खमूलि + खार्थे कन् ततष्टाप् ।)

खमूली । कुम्भिका । इति शब्दरत्नावली ॥

खम्ब, गतौ, इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-

सेट् ।) ओष्ठवर्गशेषोपधः । खम्बति । इति
दुर्गादासः ॥

खरं, क्ली, (खाय अन्तरिन्द्रियाय खस्य वा तीव्रता-

रूपगुणं रातीति । ख + रा + कः ।) तीव्रम् ।
तत्पर्य्यायः । तिग्मम् २ तीक्ष्णम् ३ ॥ इत्य-
मरः । १ । ३ । ३५ ॥ (यथा, भागवते । ७ । ८ । २८ ।
“कृत्वाऽट्टहासं खरमुत् स्वनोल्वणं
निमीलिताक्षं जगृहे महाजवः ॥”
तद्वति त्रि । यथा, रघुवंशे । ८ । ९ ।
“न खरो न च भूयसा मृदुः
पवमानः पृथिवीरुहानिव ॥”)

खरः, पुं, (खं मुखकुहरं छिद्रंमतिशयेनास्या-

स्तीति । रः ।) गर्द्दभः । इत्यमरः । २ । ९ । ७७
(यथा, मनुः । २ । २०१ ।
“परीवादात् खरो भवति श्वा वै भवति
निन्दकः ॥”
अश्वतरः । यथा, तत्रैव । ११ । २० ।
“उष्ट्रयानं समारुह्य खरयानन्तु कामतः ॥”)
घर्म्मः । इति मेदिनी ॥ निष्ठुरः । राक्षसविशेषः ।
स तु रावणभ्राता । इतिं हेमचन्द्रः ॥ (यथा,
रामायणे । १ । ३ । २० ।
“वधं खरत्रिशिरसोरुत्थानं रावणस्य च ॥”)
दैत्यः । इति त्रिकाण्डशेषः ॥ (यथा, भाग-
वते । २ । ७ । ३४ ।
“ये च प्रलम्बखरदर्दुरकेश्यरिष्ट-
मल्लेभकंसयवनाः कुजपौण्ड्रकाद्याः ॥”)
कण्टकिवृक्षविशेषः । इत्यजयः ॥ कङ्कः । काकः ।
कुररपक्षी । इति राजनिर्घण्टः ॥ (वत्सर-
विशेषः । यथा, ज्योतिषतत्त्वे ।
“उपद्रुतं जगत् सर्व्वं तस्करैर्मूषिकैः खगैः ।
पीडिताश्च प्रजाः सर्व्वाः देशभङ्गः खरे प्रिये ! ॥”
कठिनम् । रविपार्श्वगः । पश्चिमद्वारगृहम् ।
इति शब्दार्थचिन्तामणिः ॥)

खरकाष्ठिका, स्त्री, (खरं उग्रं काष्ठं यस्याः ।

ततः कप् टाप् च । कापि अत इत्वम् ।)
बला । इति राजनिर्घण्टः ॥

खरकुटी, स्त्री, (खरा क्षुरवत्त्वया तीव्रा कुटी ।)

नापितशालिका । नापितस्य गृहम् । इति
त्रिकाण्डशेषः ॥

खरकोणः, पुं, (खरवत् कोणयति शब्दायते ।

अत्र सङ्कोचार्यकुणधातोः शब्दार्थ इति बोध्यं
धातूनामनेकार्थत्वात् । यद्वा कोणयति आत्मानं
सङ्कोचयति वा । कुण + अच् । “कर्म्मण्यण् ।”
३ । २ । १ । इति अण् वा ।) तित्तिरिपक्षी ।
इति हेमचन्द्रः ॥

खरगन्धनिभा, स्त्री, (खरगन्धेन तीव्रगन्धेन

नितरां अतिशयेन भातीति । नि + भा + कः ।)
नागबला । इति जटाधरः ॥

खरगन्धा, स्त्री, (खरो गन्धो यस्याः ।) नाग-

बला । इति राजनिर्घण्टः ॥

खरगृहं, क्ली, (खरस्य गर्द्दभस्य गृहम् ।) गर्द्दभ-

शाला । गादार घर इति भाषा । तत्पर्य्यायः ।
खरग्रहः २ । इति त्रिकाण्डशेषः ॥

खरगेहं, क्ली, (खरस्य गेहम् ।) खरगृहम् ।

इति शब्दरत्नावली ॥

खरग्रहः, पुं, (खरस्य ग्रहः गृहम् ।) खरगृहम् ।

इति त्रिकाण्डशेषः । (खरो गृह्यते निपीड्यते
ऽस्मात् । ग्रह + अप् । गर्द्दभग्रहभेदः ॥)
पृष्ठ २/२७७

खरघातनः, पुं, (खरं उग्रं रोगविशेषं धात-

यतीति । हन् + स्वार्थे णिच् + कर्त्तरि ल्युः ।)
नागकेशरः । इति शब्दचन्द्रिका ॥ (खरं एतन्नाम्ना
प्रसिद्धं राक्षसं धातयतीति । श्रीरामचन्द्रः ।
इति व्युत्पत्तिलब्धोऽर्थः ॥)

खरच्छदः, पुं, (खरस्तीव्रश्छदः पत्रमस्य ।) उलू-

कम् । उलुखड इति भाषा ॥ इत्कटः । ओकडा
इति भाषा । इति रत्नमाला ॥ कुन्दरतृणम् ।
इति राजनिर्घण्टः ॥

खरणसः, त्रि, (खरा तीक्ष्णा नासिका अस्य ।

“खुरखराभ्यां वा नस् ।” इति वार्त्तिं पक्षे “अच्
नासिकायाः ।” ५ । ४ । ११८ । इत्यच् नसा-
देशश्च । ततः “पूर्ब्बपदात् संज्ञायामगः ।” ८ । ४ । ३ ।
इति णत्वम् ।) तीक्ष्णनासिकः । तत्पर्य्यायः ।
खरणाः २ । इत्यमरः । २ । ६ । ४६ ॥

खरणाः, [स्] त्रि, (खरा तीक्ष्णा नासिका यस्य ।

“खुरखराभ्यां वा नस् ।” वार्त्तिं इति नसा-
देशः । “पूर्ब्बपदात् संज्ञायामगः ।” ८ । ४ । ३ ।
इति णत्वम् ।) तीक्ष्णनासिकः । इत्यमरः ।
२ । ६ । ४६ ॥

खरत्वक्, स्त्री, (खरा तीक्ष्णा त्वक् यस्याः ।) अल-

म्बुषा । लज्जालुप्रभेदः । इति भावप्रकाशः ॥

खरदण्डं, क्ली, (खरः कर्कशः दण्डो मृणालं यस्य

कण्टकावृततयेति भावः ।) पद्मम् । इति धरणी ॥

खरदला, स्त्री, (खरं कर्कशं दलं पत्रमस्याः ।)

क्षेमाफला । इति शब्दचन्द्रिका ॥ डुमुर इति
भाषा ॥

खरदूषणः, पुं, (खरं उग्रं दूषणं मादकताजनक-

दोषो यत्र ।) धुस्तूरः । इति शब्दचन्द्रिका ॥
खरेण राक्षसेन सह दूषणश्च ॥ (त्रि, बहु-
दोषः ॥)

खरध्वंसी [न्,] पुं, (खरं स्वनामविश्रुतं राक्षसं

ध्वंसयतीति । ध्वन्स् + णिच् + णिनिः ।)
श्रीरामः । इति शब्दरत्नावली ॥ (खरं कंसचरं
दैत्यं ध्वंसयतीति । कृष्णः । इति व्युत्पत्ति-
लब्धोऽर्थः ॥)

खरनादिनी, स्त्री, (खरं कर्कशं नदतीति । नद् +

णिनिः । ततः स्त्रियां ङीप् ।) रेणुकानामगन्ध-
द्रव्यम् । इति शब्दचन्द्रिका ॥

खरपत्रः, पुं, (खरं पत्रमस्य ।) क्षुद्रपत्रतुलसी ।

शाकाख्यवृक्षः । इति रत्नमाला ॥ यावनाल-
शरः । हरिदर्भः । मरुवकः । इति राज-
निर्घण्टः ॥

खरपत्रकः, पुं, (खरपत्र + कप् संज्ञायां कन्

वा ।) तिलकवृक्षः । इति शब्दचन्द्रिका ॥

खरपत्री, स्त्री, (खरपत्र + गौरादित्वात् ङीष् ।)

गोजिह्वावृक्षः । काकोदुम्बरिका । इति राज-
निर्घण्टः ॥

खरपात्रं, क्ली, (खरं कठोरं कठिनं वा पात्रम् ।)

लौहपात्रम् । इति त्रिकाण्डशेषः ॥

खरपादाढ्यः, पुं, (खरैः दृढैः पादैर्मूलैराढ्यः ।)

कपित्थवृक्षः । इति शब्दचन्द्रिका ॥

खरपुष्पः, पुं, (खरं पुष्पमस्य ।) मरुवकवृक्षः ।

इति रत्नमाला ॥

खरपुष्पा, स्त्री, (खरं पुष्पं खराणि पुष्पाणि वा

अस्याः ।) वर्व्वरा । इत्यमरः । २ । ४ । १३९ ॥
वावुइ तुलसी इति भाषा ॥ (यथास्याः पर्य्यायाः ।
“वर्व्वरी तुवरी तुङ्गी खरपुष्पाजगन्धिका ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
व्यवहारोऽस्या यथा चरके विमानस्थानेऽष्टमे-
ऽध्याये कटुकस्कन्धे । “एला-कुष्ठ-भल्लातकास्थि-
हिङ्गु-किलिम-मूलक-सर्षप-लशुन-करञ्ज-शिग्रुक-
मधुरशिग्रुक-खरपुष्पा” इत्यादिषु ॥)

खरप्रियः, पुं, (खलः धान्यकलायादिशस्यमर्द्दन-

स्थानं प्रियोऽस्य । लस्य रत्वम् ।) पारावतः ।
इति शब्दमाला ॥

खरमञ्जरी, स्त्री, (खरा मञ्जरी यस्याः ।) अपा-

मार्गः । इत्यमरः । २ । ४ । ८९ ॥ (स्वर्ज्जिकाद्य-
तैलेऽस्या व्यवहारो यथा, --
“स्वर्ज्जिकासिन्धुदन्त्यग्निरूपिकानलनीलिका ।
खरमञ्जरीबीजेषु तैलं गोमूत्रपाचितम् ।
दुष्टव्रणप्रशमनं कफनाडीव्रणापहम् ॥”
इति वैद्यकचक्रपाणिसंग्रहे नाडीव्रणाधिकारे ॥)

खररोमा [न्,] पुं, (खरं रोम अस्य ।) नाग-

भेदः । इति जटाधरः ॥

खरवल्ललिका, स्त्री, (खरा वल्लरी ततः स्वार्थे

कन् टाप् च ईकारस्य ह्रस्वत्वं रस्य लत्वञ्च ।)
नागबला । इति रत्नमाला ॥ गोरक्षचाउलिया
इति भाषा ॥

खरशब्दः, पुं, (खर उग्रः शब्दोऽस्य ।) कुरर-

पक्षी । इति राजनिर्घण्टः ॥

खरशाकः, पुं, (खरं शाकमस्य ।) भार्गी । इति

भावप्रकाशः ॥ वामणहाटी इति भाषा ॥

खरस्कन्धः, पुं, (खरः स्कन्धोऽस्य ।) प्रियालवृक्षः ।

इति राजनिर्घण्टः ॥

खरस्कन्धा, स्त्री, (खरः स्कन्धोऽस्याः ।) खर्ज्जूरी ।

इति राजनिर्घण्टः ॥

खरस्वरा, स्त्री, (खरं रौद्रं स्वॄणाति नाशयतीति ।

स्वॄ + अच् ।) वनमल्लिका । इति रत्नमाला ॥

खरा, स्त्री, (खं आकाशं लाति गृह्णातीति । ला +

कः । लस्य रत्वम् ।) देवताडवृक्षः । इत्यमरः ।
२ । ४ । ६९ ॥

खरांशुः, पुं, (खरा अंशवो रश्मयो यस्य ।)

सूर्य्यः । इति त्रिकाण्डशेषः ॥

खरागरी, स्त्री, (खरं आगिरतीति । आ + गॄ +

अच् । ततो गौरादित्वात् ङीष् ।) देवताड-
वृक्षः । इत्यमरटीकायां रायमुकुटः ॥ (पर्य्यायो-
ऽस्या यथा, वैद्यकरत्नमालायाम् ।
“वेणी जीमूतकश्चाखुविवाजिलोमशच्छदः ।
खरागरी कदम्बश्च खुड्डाको देवताडकः ॥”)

खराब्दाङ्कुरकं, क्ली, (खराब्दात् तीद्रगर्ज्जनमेघात्

अङ्कुरयतीति । अङ्कुरि + ण्वुल् । अस्य हि
नूतनजलदध्वनेरङ्कुरोत्पत्तेस्तथात्वम् ।) वैदूर्य्य-
मणिः । इति राजनिर्घण्टः ॥

खराश्वा, स्त्री, (खरैरश्यते भुज्यतेऽसौ । अश्

भोजने + “उल्वादयश्च ।” उणां । ४ । ९५ ।
इति वः ।) मयूरशिखा । रुद्रजटा इति ख्याता ।
क्षेत्रयमानिका इति केचित् । इत्यमरभरतौ ॥
(यथास्या गुणाः ।
“खराश्वा कफवातघ्नी वस्तिरोगरुजापहा ॥”
इति चरके सूत्रस्थाने सप्तविंशेऽध्याये ॥)

खराह्वा, स्त्री, (खरं तीव्रगन्धं आह्वयतीति । ह्वे +

कः । स्त्रियां टाप् ।) अजमोदा । इति राज-
निर्घण्टः ॥ (पर्य्यायोऽस्या यथा, --
“अजगन्धाजमोदाख्या खराह्वा कारवी च सा ॥”
इति वैद्यकरत्नमालायाम् ॥)

खरिका, स्त्री, (खात् शून्यात् गन्धविशेषं रातीति ।

रा + कः ततः संज्ञायां कन् टाप् अत इत्वञ्च ।)
कस्तूरीभेदः । सा तु चूर्णाकृतिः । इति राज-
निर्घण्टः ॥

खरुः, पुं, (खन् + “खरुशङ्कुपीयुनीलङ्गुलिगु ।”

उणां १ । ३७ । इति कुः रश्चान्तादेशः ।)
शिवः । हयः । दर्पः । दन्तः । इति मेदिनी ।
रे । २१ ॥ कामदेवः । इति सिद्धान्तकौमुद्या-
मुणादिवृत्तिः ॥ शुक्लवर्णः । इति हेमचन्द्रः ॥

खरुः, त्रि, (खन् + “खरुशङ्कुपीयुनीलङ्गुलिगु ।”

उणां १ । ३७ । इति कुः रश्चान्तादेशः ।)
श्वेतः । इति मेदिनी । रे । २२ ॥ निषिद्ध्वैकरुचिः ।
इति हेमचन्द्रः ॥ निर्बोधः । क्रूरः । इति
सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ तीक्ष्णः । इति
संक्षिप्तसारे उणादिवृत्तिः ॥

खर्ज्ज, व्यथामृजोः । इति कविकल्पद्रुमः ॥ (भ्वां-

परं-अकं-सेट् ।) खर्ज्जति । मृट् मार्ज्जनम् ।
इति दुर्गादासः ॥

खर्ज्जिका, स्त्री, (खर्ज्ज + ण्वुल् + स्त्रियां टाप् अत

इत्वञ्च ।) अवदंशः । इति शब्दचन्द्रिका ॥

खर्ज्जुः, पुं, (खर्ज्ज + उन् ।) खर्ज्जूरी । कण्डुः ।

कीटः । इति हेमचन्द्रः ॥

खर्ज्जुरं, क्ली, (खर्ज्ज + उरच् ।) रौप्यम् । इत्य-

मरटीकायां रमानाथः ॥

खर्ज्जूः, स्त्री, (खर्ज्ज व्यथने + “कृषिचमितनीति ।”

उणां १ । ८२ । इति ऊः ।) कण्डुः । कीटः ।
इत्युणादिकोषः ॥

खर्ज्जूघ्नः, पुं, (खर्ज्जूं कण्डूयनं हन्तीति । हन् +

टक् ।) चक्रमर्द्दः । धत्तूरः । अर्कवृक्षः । इति
राजनिर्घण्टः ॥

खर्ज्जूरं, क्ली, (खर्ज्जूरस्य फलम् । फले विहि-

तस्याणो लुप् ।) खर्ज्जूरफलम् । अस्य गुणाः ।
मधुरत्वम् । शीतलत्वम् । गुरुत्वम् । क्षयाभि-
घातदाहवातपित्तरोगे हितत्वम् । बृंहणत्वम् ।
शुक्रवृद्धिकारित्वञ्च । इति राजवल्लभः ॥
(“अपक्वखर्ज्जूरफलं त्रिदोषशमनं मतम् ।
पक्वमेव हितं श्रेष्ठं त्रिदोषशमनं परम् ॥”
इति प्रथमे स्थाने दशमेऽध्याये हारीतेनोक्तम् ॥
यथा च चरके सूत्रस्थाने सप्तविंशेऽध्याये ।
“मधुरं बृंहणं वृष्यं खर्ज्जूरं गुरु शीतलम् ।
पृष्ठ २/२७८
क्षयेऽभिघाते दाहे च वातपित्ते च तद्धितम् ॥”)
रौप्यम् । हरितालम् । इति हेमचन्द्रः ॥ खलः ।
इति मेदिनी ॥

खर्ज्जूरः, पुं स्त्री, (खर्ज्ज मार्ज्जने + “खर्ज्जिपिञ्जा-

दिभ्य ऊरोलचौ ।” उणां ४ । ९० । इति
ऊरः ।) खर्ज्जूरीवृक्षः । खेजुर गाछ इति
भाषा ॥ अस्य मस्तिष्कगुणाः । स्वादुत्वम् ।
तिक्तत्वम् । कषायत्वम् । मूत्रातङ्करोगनाशि-
त्वम् । बलप्राणशुक्रवृद्धिकारित्वञ्च । इति राज-
वल्लभः ॥
(“खर्ज्जूरश्च विषं हन्ति तदा वै नात्र संशयः ।”
इति वैद्यकभैषज्यधन्वन्तरिग्रन्थे विषाधिकारे ॥)
वृश्चिकः । इति मेदिनी ॥

खर्ज्जूरिका, स्त्री, (खर्ज्जूर + स्त्रियां गौरादित्वात्

ङीष् ततः संज्ञायां कन् टाप् च ततो ह्रस्वः ।)
मिष्टान्नविशेषः । इति पाकराजेश्वरः । मिटा
गजा इति भाषा ॥

खर्ज्जूरी, स्त्री, (खर्ज्जूर + गौरादित्वात् ङीष् ।)

वनखर्ज्जूरः । इत्यमरः । २ । ४ । १७० ॥ खर्ज्जूर-
वृक्षः । खेजरगाछ इति भाषा । तत्पर्य्यायः ।
खरस्कन्धा २ दुव्प्रधर्षा ३ दुरारुहा ४ निश्रेणी ५
कषायी ६ यवनेष्टा ७ हरप्रिया ८ । अस्या
गुणाः । कषायत्वम् । पक्वे गौल्यत्वम् । कषायि-
कत्वम् । पित्तकृमिनाशित्वम् । बृंहणत्वम् । कफ-
शुक्रवृद्धिकारित्वञ्च । इति राजनिर्घण्टः ॥ तत्-
पर्य्यायगुणाः ।
“भूमिखर्ज्जूरिका स्वाद्बी दुरारोहा मृदुच्छदा ।
तथा स्कन्धफला काककर्कटी स्वादुमस्तका ॥ * ॥
पिण्डखर्ज्जूरिका त्वन्या सा देशे पश्चिमे भवेत् ।
खर्ज्जूरी गोस्तनाकारा पराद्द्वीपादिहागता ॥
जायन्ते पश्चिमे देशे सा च्छोहारेति कीर्त्त्यते ।
खर्ज्जूरीत्रितयं शीतं मधुरं रसपाकयोः ॥
स्निग्धं रुचिकरं हृद्यं क्षतक्षयहरं गुरु ।
तर्पणं रक्तपित्तघ्नं पुष्टिविष्टम्भशुक्रदम् ॥
कोष्ठमारुतकृद्बल्यं वाह्यवातकफापहम् ।
ज्वराभिघातक्षुत्तृष्णाकासश्वासनिवारकम् ॥
मदमूर्च्छामरुत्पित्तमद्योद्भूतगदान्तकृत् ।
महतीभ्यां गुणैरल्पा स्वल्पा खर्ज्जूरिका स्मृता ॥ * ॥
खर्ज्जूरीतरुतोयन्तु मदपित्तकरं भवेत् ।
वातश्लेष्महरं रुच्यं दीपनं बलशुक्रकृत् ॥ * ॥
सुनेपाली तु मृदुला बलिहीनफला च सा ।
सुनेपाली श्रमभ्रान्तिदाहमूर्च्छास्रपित्तहृत् ॥”
इति भावप्रकाशः ॥

खर्द्द, दशने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् ।) दशनं दन्तकरणकक्रिया । खर्द्दति
मूलकं लोकः । केचित्तु दन्दशूके इति पठित्वा
दन्दशूकः दन्दशूककर्त्तृकक्रियेत्याहुः । इति
दुर्गादासः ॥

खर्परः, पुं, (कर्परः । पृषोदरात् खत्वम् ।)

तस्करः । धूर्त्तः । भिक्षापात्रम् । कपालम् ।
इति मेदिनी ॥ छत्रम् । इति त्रिकाण्डशेषः ॥

खर्परी, स्त्री क्ली, (खर्परं उपधातुभेदकारक-

त्वेनास्त्यस्या इति अच् ततो गौरादित्वात्
ङीष् ।) कर्परीतुत्थम् । इत्यमरटीका ॥

खर्परीतुत्थं, क्ली, (खर्पर्य्येव तुत्थं खर्परीरूपं

तदाख्यं तुत्थं वा ।) तुत्थविशेषः । तत्पर्य्यायः ।
खर्परीरसकम् २ चक्षुष्यम् ३ अमृतोत्पन्नम् ४
तुत्थम् ५ खर्परिका ६ । अस्य गुणाः । कटु-
त्वम् । तिक्तत्वम् । चक्षुर्हितत्वम् । रसायन-
त्वम् । त्वग्दोषशमनत्वम् । दीप्यत्वम् । बल-
पुष्टिप्रदत्वञ्च । इति राजनिर्घण्टः ॥

खर्ब्ब, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् ।) खर्ब्बति । इति दुर्गादासः ॥

खर्ब्ब, क्ली, (खर्ब्ब + अच् ।) संख्याविशेषः । इति

मेदिनी ॥ तत्तु दशाब्जसंख्या । इति लीलावती ॥
दशवृन्दसंख्या । १०,०००,०००,००० । इति
स्मृतिः ॥ (सहस्रमहापद्मसंख्या । इति गोः
रामायणम् । यथा, तत्रैव । ६ । ४ । ५६-५९ ।
“शतं शतसहस्राणां कोटिमाहुर्मनीषिणः ।
शतं कीटिसहस्राणां शङ्ख इत्यभिधीयते ॥
शतं शङ्खसहस्राणां वृन्दमाहुर्मनीषिणः ।
शतं वृन्दसहस्राणां महावृन्दमिति स्मृतम् ॥
महावृन्दसहस्राणां शतं पद्मं परिश्रुतम् ।
शतं पद्मसहस्राणां महापद्मं विभाव्यते ॥
महापद्मसहस्राणां तथा खर्ब्बमिहोच्यते ॥”)

खर्ब्बः, पुं, (खर्ब्ब + अच् ।) कुवेरस्य निधि-

विशेषः । इति शब्दरत्नावली ॥ दशवृन्दसंख्या ।
इति स्मृतिः ॥ कुब्जकवृक्षः । इति राजनिर्घण्टः ।
(वामनः । इत्यमरः । २ । ६ । ४६ ॥ स्त्री ।
गायत्त्रीस्वरूपा भगवती । यथा, देवीभाग-
वते । १२ । ६ । ३८ ।
“खड् गखेटकरा खर्ब्बा खेचरी खगवाहना ॥”)

ख(र्व्व)र्ब्बः, त्रि, (खर्ब्ब + अच् ।) क्षुद्रः । खाटो

छोट इत्यादि भाषा । तत्पर्य्यायः । न्यङ् २
नीचः ३ वामनः ४ ह्रस्वः ५ । इत्यमरः । ३ ।
१ । ७० ॥ निखर्व्वः ६ खदृतः ७ खर्व्वशाखः ८ ।
इति हेमचन्द्रः ॥ अनुच्चः ९ अनायतः १० ।
इति जटाधरः ॥

खर्ब्बशाखः, त्रि, (खर्ब्बा शाखा हस्तपदाद्यवयवाः

यस्य ।) वामनः । खर्व्वः । इति हेमचन्द्रः ॥

खर्म्मः, पुं, (खुर + बाहुलकात् मक् पृषोदरात्

उकारस्य लोपः ।) पौरुषम् । कोषजांशुकम् ।
पट्टवस्त्रम् । इति मेदिनी ॥

खर्व्व, गर्व्वे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

अकं-सेट् ।) अन्तःस्थवकारान्तोऽयम् ॥
खर्व्वति । इति दुर्गादासः ॥

खर्व्वः, त्रि, (खर्व्व + अच् ।) ह्रस्वः । वर्ग्यबका-

रान्तखर्ब्बशब्दार्थोऽप्यत्र ॥

खर्व्वटः, पुं क्ली, (खर्व्व् + अटन्) चतुःशतग्राम-

मध्यस्थलम् । इति भूरिप्रयोगः ॥ पर्व्वतप्रान्त-
ग्रामः । इति श्रीभागवतटीकायां श्रीधर-
स्वामी ॥

खर्व्वुरा, स्त्री, (खर्व्व् + उरच् टाप् च ।)

तरदीवृक्षः । इति राजनिर्घण्टः ॥

खर्व्वूजं, क्ली, (खर्व्वू + जन् + डः ।) षड्भुजा ।

इति भावप्रकाशः ॥ खरवुजा इति भाषा ॥
(अस्य लक्षणं गुणाश्च यथा, --
“दशाङ्गुलन्तु खर्व्वूजं कथ्यते तद्गुणा अथ ।
खर्व्वूजं मूत्रलं बल्यं कोष्ठशुद्धिकरं गुरु ॥
स्निग्धं स्वादुतरं शीतं वृष्यम्पित्तानिलापहम् ।
तेषु यच्चाम्लमधरं सक्षारश्च रसाद्भवेत् ॥
रक्तपित्तकरन्तत्तु मूत्रकृच्छ्रकरम्परम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

खल, क्षलजार्थे । इति कंविकल्पद्रुमः ॥ (भ्वां-परं-

अकं-सेट् ।) क्षलजार्थश्चालचयौ । चालश्चेह
स्खलनम् । खलति खलो धर्म्मात् । इति दुर्गा-
दासः ॥

खलं, क्ली, (खल् + अच् ।) भूः । स्थानम् । कल्कः ।

इति मेदिनी । खलाधानम् । इति हेमचन्द्रः ॥
धान्यमाडिवार खामार इति भाषा ॥ (यथा,
मनुः । ११ । १७ ।
“खलात् क्षेत्रादगाराद्बा यतो वाऽप्युपलभ्यते ॥”)

खलः, पुं, (खल् + अच्) सूर्य्यः । इति भूरि-

प्रयोगः ॥ तमालवृक्षः । इति शब्दचन्द्रिका ॥
धत्तूरवृक्षः । इति राजनिर्घण्टः ॥ (प्रवाहिका-
रोगे भेषजादिविहितपथ्यविशेषः । यथा,
चिकित्सास्थाने नवमेऽध्याये वाभटेनोक्तम् ।
“कल्को विल्वशलाटूनां तिलकल्कश्च तत्समः ।
दध्नः सरोऽम्लः सस्नेहः खलो हन्ति प्रवाहिकाम् ॥”)

खलः, त्रि, नीचः । अधमः । इति मेदिनी ॥

क्रूरः । (यथा, मृच्छकटिकायां १ मे अङ्के ।
“खलस्वभावं भवितव्यतां तथा
चकार सर्व्वं किल शूद्रको नृपः ॥”)
तत्पर्य्यायः । दुर्जनः २ पिशुनः ३ । इत्यमरः ।
३ । १ । ४७ ॥ दुर्व्विधः ४ विश्वकद्रुः ५ नृशंसः ६
घातुकः ७ क्रूरः ८ पापः ९ । इति जटाधरः ॥

खलतिः, पुं, (स्खलन्ति केशा अस्मात् । स्खल

सञ्चलने + “खलतिः ।” उणां ३ । ११२ । इति
निपातनात् साधुः ।) इन्द्रलुप्तरोगयुक्तः । टाक-
पडा माथा इति भाषा । तत्पर्य्यायः ।
खल्वाटः २ ऐन्द्रलुप्तिकः ३ शिपिविष्टः ४ वभ्रु-
रथः ५ । इति हेमचन्द्रः ॥ खल्लीटः ६ । इति
त्रिकाण्डशेषः । खल्लिटः ७ । इति शब्दरत्नावली ॥
(“रोमकूपानुगं पित्तं वातेन सह मूर्च्छितम् ॥
प्रच्यावयति रोमाणि ततः श्लेष्मा सशोणितः ।
रोमकूपान् रुणद्ध्यस्य तेबान्येषामसम्भवः ॥
तदिन्द्रलुप्तं रूढ्याञ्च प्राहुश्चाचेति चापरे ।
खलतेरपि जन्मैवं सदनं तत्र तु क्रमात् ॥”
इति वाभट्टे उत्तरस्थाने त्रयोविंशेऽध्याये ॥)

खलपूः, त्रि, (खलं भूमिं पुणाति परिष्कृतं करो-

तीति । खल + पू + क्विप् ।) मार्जनकारी ।
झाडुकष फरास इत्यादि भाषा । तत्पर्य्यायः ।
बहुकरः २ । इत्यमरः । ३ । १ । १७ ॥

खलमूर्त्तिः, पुं, (खल इव अनिष्टकारकत्वात्

उग्रा मूर्त्तिरस्य ।) पारदः । इति शब्दचन्द्रिका ॥
पारा इति भाषा ॥
पृष्ठ २/२७९

खलाधारा, स्त्री, (खल आधारो यस्याः ।) तैल-

पायिका । इति जटाधरः ॥ आरसुला इति
भाषा ॥

खलिः, पुं, (खल + इन् ।) तैलकिट्टम् । इति

राजनिर्घण्टः ॥ (यथा, भारतरत्नाकरे । २ । ९८ ।
“स्थाल्यां वैदूर्य्यमय्यां पचति तिलखलिं चन्दनै-
रिन्धनौघैः ॥”)

खलिनः, पुं क्ली, (खे अश्चमुखच्छिद्रे लीनः पृषो-

दरादित्वात् वा ह्रस्वः ।) खलीनः । इत्यमर-
टीकायां रायमुकुटः ॥ (यथा, कादम्बर्य्याम्
“उभयतः खलिनकनककटकावलग्नाभ्यां पदे पदे
कृताकुञ्चनप्रयत्नाभ्यां पुरुषाभ्यामवकृष्यमाणम् ।”
अश्वमित्यर्थः ॥)

खलिनी, स्त्री, (खलानां समूहः । “इनि त्रकड्यचश्च ।”

४ । २ । ५१ । इति इनिः । ततो ङीष् ।)
खलसमूहः । धानेर अनेक खामार इति
भाषा ॥ तत्पर्य्यायः । खल्या २ । इत्यमरः ।
३ । २ । ४२ ॥ तालमूली । इति रत्नमाला ॥

खलिशः, पुं, (खे जलादूर्द्ध्वाकाशे लिशति ईषदुद्-

गच्छतीति । यद्वा, खे जलाभ्यन्तरे छिद्रादौ
लिशति स्वल्पीभावेन तिष्ठतीति । लिश् + कः ।)
स्वनामख्यातमत्स्यः । खलिशामाछ् इति भाषा ॥
तत्पर्य्यायः । कङ्कत्रोटः २ खलेशयः ३ । इति
शब्दरत्नावली ॥ अस्य गुणाः । ग्राहित्वम् ।
कषायत्वम् । वायुकोपनत्वम् । रूक्षत्वम् । लघु-
त्वम् । शूलहरत्वम् । किञ्चिदामविनाशित्वञ्च ।
इति राजवल्लभः ॥ खल्लिशोऽपि पाठः ॥

खलीकारः, पुं, (खल + कृ + घञ् । अभूतत्तद्भावे

च्विः ।) अपकारः । इति जटाधरः ॥ (निर्भत्स-
नम् । इति चिन्तामणिः ॥)

खलीनः, पुंक्ली, (खे अश्वमुखच्छिद्रेलीनः ।) कविका ।

इत्यमरः । २ । ८ । ४९ ॥ कडियालि इति भाषा ॥
(यथा, महाभारते । १ । १९९ । १५ ।
“शतं रथानां वरहेममालिनां
चतुर्युजां हेमखलीनशालिनाम् ॥”)

खलु, व्य, (खल् + बाहुलकात् उन् ।) निषेघः ।

वाक्यालङ्कारः । (यथा, माघे । २ । ७० ।
“सम्प्रत्यसाम्प्रतं वक्तुमुक्ते मुषलपाणिना ।
निर्द्धारितेऽर्थे लेखेन खलूक्त्वा खलु वाचिकम् ॥”
“अत्राद्यखलुशब्दः प्रतिषेधार्थे द्वितीयः वाक्या-
लङ्कारे ॥” इति तट्टीकायां मल्लिनाथः ॥) जिज्ञासा ।
(यथा, गणरत्ने । “स खल्वधीते वेदम् ?”) अनु-
नयः । इत्यमरः । ३ । ४ । १८ ॥ (यथा, गणरत्ने ।
“न खलु न खलु मुग्धे ! साहसं कार्य्यमेतत्” ॥)
निश्चितम् । (यथा, कुमारे । ४ । २८ ।
“दयितास्वनवस्थितं नृणां
न खलु प्रेम चलं सुहृज्जने ॥”)
पदवाक्यादिपूरणम् । (यथा, रामायणे । ३ ।
४१ । ६ ।
“वध्याः खलु न वध्यन्ते सचिवास्तव रावण ! ।
ये त्वामुत्पथमारूढं न निगृह्णन्ति सर्व्वशः ॥”)
वीप्सा । इति शब्दरत्नावली ॥ (यथा, --
शाकुन्तले १ मे अङ्के ।
“न खलु न खलु वाणः सन्निपात्योऽयमस्मिन्
मृदुनि मृगशरीरे तूलराशाविवाग्निः ॥”)

खलुक्, [ज्] पुं, (खं इन्द्रियं दर्शनेन्द्रियं लुञ्ज-

यति हन्तीति । ख + लुञ्ज + क्विप् ।) अन्धकारः ।
इति त्रिकाण्डशेषः ॥

खलुरेषः, पुं, (खलुरिष्यते वध्यतेऽसौ । खलु + रिष्

+ कर्म्मणि घञ् ।) मृगभेदः । इति शब्दचन्द्रिका ॥

खलूरिका, स्त्री, (खलु + रिष् + निपातनात्

साधुः ।) शस्त्राभ्यासभूमिः । इति हेमचन्द्रः ॥

खलेधानी, स्त्री, (खले धीयन्ते वृषभा अस्मिन् ।

धा + अधिकरणे ल्युट् ततो ङीप् ।) मेधिः ।
खलेपशुबन्धनदारु । इति जटाधरः ॥

खलेवाली, स्त्री, (खले वाल्यन्ते चाल्यन्तेऽत्र

वृषभा इति । वल् + अधिकरणे घञ् गौरा-
दित्वात् ङीष् ।) खले गोबन्धनदारु । इति
हेमचन्द्रः ॥ मेइ काठ इति भाषा ॥ (यथा,
कात्यायनश्रौतसूत्रे । २२ । ३ । ४८ ।
“खलेवालीयूपो लाङ्गलेषा ॥”)

खलेशः, पुं, (खे जलादूर्द्ध्वाकाशे गमनकाले

लिशति संश्लिष्यतीति । लिश् + अच् ।) खलिश-
मत्स्यः । इति हारावली ॥

खलेशयः, पुं, (खलेशं जलादूर्द्ध्वस्थाकाशसंसर्गं

यातीति । या + कः ।) खलिशमत्स्यः । इति
शब्दरत्नावली ॥

खल्या, स्त्री, (खलानां समूहः । यत् ।) खलिनी ।

इत्यमरः । ३ । ३ । ४२ ॥ धानमाडार अनेक
खामार इति भाषा ॥

खल्लः, पुं, (खलतीति क्विप् खल् तं लातीति ।

ला आदाने + कः ।) वस्त्रप्रभेदः । गर्त्तः ।
चर्म्म । चातकपक्षी । इति मेदिनी ॥ दृतिः ।
इति हेमचन्द्रः ॥ मशक इति भाषा । औषध-
मर्द्दनपात्रम् । खल इति भाषा । इति वैद्यकम् ॥
(“अजाशकृत्तुषाग्निञ्च भूगर्भे द्वितयं क्षिपेत् ।
तस्योपरिस्थितं खल्लं तप्तखल्लमिति स्मृतम् ॥”
इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधि-
कारे ॥)

खल्लिका, स्त्री, (खल्ल + संज्ञायां कन् ततष्टाप् ।

कापि अत इत्वम् ।) ऋजीषम् । पिष्टकादि-
भर्जनपात्रम् । इति शब्द चन्द्रिका ॥

खल्लिटः, त्रि, (खल्ल + इन् । खल्लि इव टलतीति ।

टल् + डः ।) खलतिः । इति शब्दरत्नावली ॥

खल्ली, स्त्री, (खल्ल + गौरादित्वात् ङीष् ।) हस्त-

पादावमर्द्दनाख्यरोगः । इति मेदिनी ॥ तस्य
लक्षणं यथा, माधवकरः ।
“खल्ली तु पादजङ्घोरुकरमूलावमोटनी ॥”
तच्चिकित्सा यथा, भावप्रकाशे ।
“कुष्ठसैन्धवयोः कल्कश्चुक्रतैलसमन्वितः ।
सुखोष्णो मर्द्दने योज्यः खल्लीशूलनिवारणः ॥”
अपि च भैषज्यरत्नावल्याम् ।
“खल्ल्यां स्निग्धाम्ललवणैः स्वेदोन्मादोपनाहनम् ॥”

खल्लीटः, त्रि, (खल्लीव टलतीति । टल् + बाहु-

लकात् डः ।) खलतिः । इति त्रिकाण्डशेषः ॥
(तच्चिकित्सा यथा, गारुडे । १८० । १ ।
“सप्तरात्रात्प्रजायन्ते खल्लीटस्य कचाः शुभाः ।
दग्धहस्तिदन्तलेपात् साजाक्षीररसाञ्जनात् ॥”)

खव, ग भूतिपूत्योरुत्पत्तौ । इति कविकल्पद्रुमः ॥

(क्र्यां-परं-अकं-सेट् ।) भूतिः सम्पत्तिः पूतिः
पवित्रता तयोरुत्पत्तिः प्रादुर्भावः ॥

खवल्ली, स्त्री, (खे आकाशे स्थिता वल्ली ।)

आकाशवल्ली । इति राजनिर्घण्टः ॥ (यथास्याः
पर्य्याया गुणाश्च । अथ आकाशवल्ली । अमर-
वेलि इति च भाषा ।
“आकाशवल्ली तु बुधैः कथितामरवल्लरी ।
खवल्ली ग्राहिणी तिक्ता पिच्छिला क्ष्मामयापहा ।
तुवराग्निकरी हृद्या पित्तश्लेष्मामनाशिनी ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रममे भागे ॥)

खवारि, क्ली, (खे आकाशे स्थितं वारि उद-

कम् । खादागतं वारि वा ।) दिव्योदकम् ।
इति राजनिर्घण्टः ॥

खवास्पः, पुं, (खे आकाशे शून्ये स्थितो वास्पः ।)

हिमम् । इति हारावली ॥

खशः, पुं, देशविशेषः । इति त्रिकाण्डशेषः ॥

(तद्देशवासिनि तद्देशनृपे च बहुषु अणों लुक् ।)
तथा हि मनुः । १० । ४४ ।
“पौण्ड्रकाश्चौड्रद्रविडाः काम्बोजा जवनाः शकाः ।
पारदाः पह्नवाश्चीनाः कीराता दरदाः खशाः ॥”)

खशा, स्त्री, मुरानामगन्धद्रव्यम् । इति शब्द-

चन्द्रिका ॥ (कखयोस्तुल्यार्थत्वात् खः प्रजा-
पतिर्दक्षः आदौ तद्गर्भे कन्यात्मकबीजभावेन
शेते इति । ख + शी + डः ततष्टाप् ।) दक्ष-
कन्या । सा च कश्यपपत्नी । यथा, --
“धर्म्मपत्न्यः समाख्याताः कश्यपस्य वदाम्यहम् ।
अदितिर्द्दितिर्द्दनुः काला अनायुः सिंहिका मुनिः ॥
कद्रुः प्राधा इरा क्रोधा विनता सुरभिः खशा ॥”
“इरा वृक्षलतावल्लीः तृणजातीश्च सर्व्वशः ।
खशा च यक्षरक्षांसि मुनिरप्सरसस्तथा ॥”
इति गारुडे ६ अध्यायः ॥

खशेटः, पुं, (खं शेटति इति । शिट् अनादरे

अण् । अस्य गमनसमये खस्यानादरत्वेन गति-
योग्यत्वाभावेऽपि तद्वत्तानादरेण गमनात्तधा-
त्वम् ।) खलिशमत्स्यः । इति त्रिकाण्डशेषः ॥

खश्वासः, पुं, (खस्य आकाशस्य श्वास इव ।)

वायुः । इति त्रिकाण्डशेषः ॥

खष, वधे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-

सेट् ।) खषति । इति दुर्गादासः ॥

खष्पं, क्ली, (खन् + “खष्पशिल्पवाष्पेति ।” उणां

३ । २८ । इति पप्रत्ययात् निपातनात् सिद्धम् ।)
क्रोधः । बलात्कारः । इत्युणादिकोषः ॥

खसः, पुं, (खं हस्तादीन्द्रियं स्यति निश्चलीकरो-

तीति । सो + कः ।) पामा । खोस इति भाषा ॥
तत्पर्य्यायः । पाम २ कच्छूः ३ विचर्च्चिका ४
इति हेमचन्द्रः ॥ (पामन्शब्दोस्य विवरणं
व्याख्येयम् ॥)
पृष्ठ २/२८०

खसकन्दः, पुं, (खस इव कन्दोऽस्य ।) क्षीर-

कञ्चुकीवृक्षः । इति रत्नमाला ॥ खसगन्धोऽपि
क्वचित् पाठः ॥

खसतिलः, पुं, (खसपूय इव तिलति स्निह्यतीति ।

तिल स्नेहे + कः । अस्य शुक्लस्नेहनिःसरणात्
तथात्वम् ।) खस्खसः । इति राजनिर्घण्टः ॥
(गुणादयोऽस्य यथा, --
“तिलभेदः खसतिलः कासश्वासहरः स्मृतः ।
स्याद्बा खसफलोद्भूतं वल्कलं शीतलं लघु ॥
ग्राहि तिक्तं कषायञ्च वातकृच्च कफास्रहृत् ।
धातूनां शोषणं रूक्षं मदकृद्वाग्विवर्द्बनम् ॥
मुहुर्मोहकरं रुच्यं सेवनात् पुंस्त्वनाशनम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

खसमः, पुं, (खेनाकाशेन समः ।) बुद्धः । इति

त्रिकाण्डशेषः ॥

खसम्भवा, स्त्री, (खे सम्भवतीति । सम् + भू + अच् ।)

आकाशमांसी । इति राजनिर्घण्टः ॥

खसर्पणः, पुं, (खे शून्ये सर्पणमस्य योगप्रभा-

वात् ।) बुद्धविशेषः । इति त्रिकाण्डशेषः ॥

खसात्मजः, पुं, (खसायाः कश्यपपत्न्या आत्मजः ।)

राक्षसः । इति त्रिकाण्डशेषः ॥

खसृमः, पुं, विप्रचित्तिदैत्यपुत्त्रः । यथा, --

“सिंहिकायां समुत्पन्ना विप्रचित्तिसुतास्तथा ।
व्यंशः शल्यश्च बलवान् नभश्चैव महाबलः ॥
वातापिर्नमुचिश्चैव इल्ललः खसृमस्तथा ।
अन्तको नरकश्चैव कालनाभस्तथैव च ॥
निवातकवचा दैत्याः प्रह्रादस्य कुलेऽभवन् ॥”
इति गारुडे ६ अध्यायः ॥

खस्खसः, पुं, (खस + पृषोदरात् द्वित्वम् ।) वृक्ष-

विशेषः । पोस्ता इति भाषा ॥ तत्पर्य्यायः ।
सूक्ष्मबीजः २ सूक्ष्मतण्डुलः ३ सुबीजः ४ ।
अस्य गुणः । पाके मधुरत्वम् । कान्तिवीर्य्यबल-
प्रदत्वञ्च । इति राजनिर्घण्टः ॥ (खसतिलशब्दे-
ऽस्य गुणादयो ज्ञातव्याः ॥)

खस्खसरसः, पुं, (खस्खसस्य क्षुद्रबीजवृक्षविशेषस्य

रसः ।) अहिफेनः । इति राजनिर्घण्टः ॥ आफिं
इति भाषा ॥

खस्तनी, स्त्री, (खं आकाशं स्तनवद्यस्याः मेघ-

वारिपतनेन शस्याद्युत्पत्तेः पुत्त्रस्थानीयानां
पृथिवीस्थजीवानां जीवनधारणात् तथात्वम् ।)
पृथिवी । इति त्रिकाण्डशेषः ॥

खस्फाटिकः, पुं, (खवत् निर्म्मलः स्फाटिकः । यद्बा

खस्फटिकः सूर्य्यः स अधिष्ठाताऽस्य ।) सूर्य्य-
कान्तमणिः । चन्द्रकान्तमणिः । इति हेमचन्द्रः ॥

खाखसः, पुं, (खस प्रकारे द्वित्वं ततः पृषो-

दरात् साधुः ।) बीजविशेषः । पोस्तादाना
इति भाषा । तत्पर्य्यायगुणाः ।
“तिलभेदः खसतिलः खाखसश्चापि स स्मृतः ।
स्याद्वा खसफलोद्भूतं वल्कलं शीतलं लघु ॥
ग्राहि तिक्तं कषायञ्च वातकृत् कफकासहृत् ।
धातूनां शोषकं रूक्षं मदकृद्बाग्विवर्द्धनम् ॥
सुहुर्म्मोहकरं रुच्यं सेवनात् पस्त्वनाशनम् ॥
अथ अफेनम् ।
उक्तं खसफलक्षीरमाफुकमहिफेनकम् ।
आफुकं शोषणं ग्राहि श्लेष्मघ्नं वातपित्तलम् ॥
तथा खसफलोद्भूतं वल्कलप्रायमित्यपि ।
अथ खसबीजम् ।
उच्यन्ते खसबीजानि ते खाखसतिला अपि ॥
खसबीजानि बल्यानि वृष्याणि सुगुरूणि च ।
जनयन्ति कफं तानि शमयन्ति समीरणम् ॥”
इति भावप्रकाशः ॥

खाजिकः, पुं, (खे ऊर्द्ध्वदेशे आजः क्षेपः तत्र

साधुः ठन् ।) लाजाः । इति हारावली ॥
खै इति भाषा ॥

खाटः पुं, स्त्री, (खे ऊर्द्ध्वमार्गे अटत्यनेन । अट् +

करणे घञ् ।) शवरथः । इति शब्दरत्नावली ॥
मरार खाट् इति भाषा ॥

खाटिः, स्त्री, (खट् काङ्क्षायां बाहुलकात्

इञ् ।) असद्ग्रहः । किणः । शवरथः । इति
मेदिनी ॥

खाटिका, स्त्री, (खाटि + स्वार्थे संज्ञायां वा कन्

ततष्टाप् ।) खाटः । शवरथः । इति शब्द-
रत्नावली ॥

खाण्डवं, क्ली, (खाण्डव्यास्तदाख्यया प्रसिद्धाया

नगर्य्या जातम् । खाण्डवी + अण् । यदुक्तं
कालिकापुराणे ९० अध्याये ।
“पुरा तु विजयो राजा खाण्डवीं नाम तां पुरीम् ।
भङ्क्त्वा वनं ततश्चक्रे तेन तत् खाण्डवं वनम् ॥”)
वनविशेषः । तद्विवरणं यथा, --
“विरूपस्याभवद्गाधिर्गाधेर्म्मित्रोऽभवत् सुतः ।
तेषां कल्पोऽभवद्राजा कल्पात्तु विजयोऽभवत् ।
यो विजित्य क्षितिं सर्व्वां पार्थिवान् भूरितेजसा ।
शक्रस्यानुमते चक्रे खाण्डवं शतयोजनम् ॥
यत् सव्यसाची ह्यदहत् पाण्डुपुत्त्रः प्रतापवान् ।
आवहन् परमां प्रीतिं ज्वलनस्य महात्मनः ॥
ऋषय ऊचुः ।
कथं स खाण्डवं चक्रे विजयः शतयोजनम् ।
तद्वयं श्रोतुमिच्छामः कथयस्व तपोधन ! ॥
मार्कण्डेय उवाच ।
सोमवंशेऽभवद्राजा महात्मा स महाबलः ॥
धीरः सुदर्शनो नाम चारुरूपः प्रतापवान् ।
स वै हिमवतो नातिदूरे भङ्क्त्वा महावनम् ॥
सिंहान् व्याघ्रान् समुत्सार्य्य क्वचिच्चापि तपो-
धनान् ।
खाण्डवीं नाम नगरीमकरोत्तत्र शोभनाम् ॥
त्रिंशद्योजनविस्तीर्णामायतां शतयोजनम् ।
उच्चप्राकारसंयुक्तां साट्टालाम्बुदतोरणाम् ॥
निम्नाभिरतिदीर्घाभिः परिखाभिः समावृताम् ।
दीर्घिकाभिश्चोपवनैर्ब्बहुभिश्चाप्सरोगणैः ॥
आकीर्णाञ्च तथावासैरुत्तमैरपि मानवैः ।
सोत्सवाः सततं यत्र जना देवान् दिवि स्थितान् ॥
स्पर्द्धन्ते स्म मुदा युक्ता आढ्या भोगसमन्विताः ।
स वै सुदर्शनो राजा खात्वा भूमिं विदार्य्य च ॥
गङ्गां कनखलां देवीं वाहयामास खाण्डवीम् ।
आप्लाव्य खाण्डवीमध्यं तेन खातैश्च वर्त्मभिः ॥
वक्रासु वक्रगा भूत्वा याति सीतां नदीं प्रति ।
स जित्वा सकलान् भूपान् वित्तान्याहृत्य भूरिशः ॥
राशीचकार खाण्डव्या मध्ये रत्नैरनेकशः ।
अन्येषां नगरेभ्यस्तु जनानानीयं भूपतिः ॥
खाण्डव्यां वासयामास हठादपि सुदर्शनः ।
देवदानवगन्धर्व्वान् जित्वा जित्वा युधा कृती ॥
देववृक्षं देवरत्नं देवीञ्चापि तथौषधीम् ।
खाण्डव्यां रोपयामास सहामात्यः सुदर्शनः ॥
असहिष्णुस्ततोजिष्णुर्भूपतिन्तं सुदर्शनम् ।
कृतापचारं बहुधा देवानाञ्च तथा नृणाम् ॥
वाराणसीपतिं वीरं विजयं जयशालिनम् ।
सन्धाय कृत्वा साचिव्यं तत्रैवासौ न्ययोजयत् ॥
विजयो विवरं प्राप्य महाबलपराक्रमः ।
सुदर्शनस्य नृपतेरवस्कन्दमथाकरोत् ॥
नासहत् सोऽप्यवस्कन्दं विजयस्य सुदर्शनः ।
चतुरङ्गबलेनाशु युद्धायाभिमुखोऽभवत् ॥
विजयो रथमारुह्य नियुज्य चतुरङ्गिणीम् ।
सेनां सुदर्शनं योद्धुं सम्मुखोऽभवदञ्जसा ॥
तदा महद्युद्धमासीद्विजयेन महात्मना ।
सुदर्शनस्य नृपतेर्व्वृत्रवासवयोरिव ॥
ततः सुदर्शनो राजा दारितो गदयाऽपतत् ।
तस्मिन्निपतिते वीरे सेनाभिस्तस्य सैनिकाः ॥
भयात् संप्राद्रवन्नस्माद्दिशः प्रदिश एव च ।
नष्टेषु तस्य सैन्येषु विजयः खाण्डवीं पुरीम् ॥
प्रविश्य ददृशे तत्र राशीभूतान् गिरीनिव ।
सुवर्णानाञ्च रत्नानां सञ्चयान् बहुशः पुरः ॥
दृष्ट्वा सरांसि तत्राथ प्रफुल्लकमलानि तु ।
हंसकारण्डवानादनादितानि समन्ततः ॥
राशीन् सुवर्णरत्नानां पर्व्वतानिव विस्तृतान् ।
पुष्पितान् देववृक्षांश्च भ्रमदभ्रमरभूषितान् ॥
प्रासादान् विपुलान् शुभ्रान् कैलाससदृशान्
गजान् ।
विस्फुटांश्च सुगन्धाढ्यान् प्रतिगेहे व्यवस्थितान् ॥
उत्फुल्लनयनो राजा विजयः परवीरहा ।
मेनेऽमरावतीं तान्तु पुरीं क्षितिगतामिव ॥
तं वीक्षन्तं नरपतिं नगरीं तां सुरेश्वरः ।
समेत्यविजयं प्राह सान्त्वयन् श्लक्ष्णयागिरा ॥
इन्द्र उवाच ।
राजन्महद्वनमिदमासीद्देवगणावृतम् ।
नरगन्धर्व्वयक्षाणां मुनीनाञ्च मनोहरम् ॥
सर्व्वानुत्सार्य्य देवादीन्मम चाप्यप्रिये रतः ।
भङ्क्त्वा वनमिदं गुह्यं समुत्साद्य तपोधनम् ॥
खाण्डवीं नगरीं चक्रे हठाद्राजा सुदर्शनः ।
तदिदं पुनरेव त्वं वनं कुरु नृपोत्तम ! ॥
तत्राहं विहरिष्यामि तक्षकेण समं रहः ।
मुनीनाञ्च तपः स्थानं मण्डलं ते प्रसादतः ॥
भविष्यति च यक्षाणां किन्नराणाञ्च पार्थिव ! ॥
मार्कण्डेय उवाच ।
एतत् श्रुत्वा वचस्तस्य शक्रस्य विजय स्तदा ।
वनमेवाकरोत्तान्तु स्वाण्डवीं शक्रगौरवात् ॥
गच्छन्तु भो यथास्थानं प्रजाः सर्व्व येथछया ।
पृष्ठ २/२८१
येषां वाञ्छास्ति लोकानां मद्राज्यगमने पुनः ॥
वाराणसीं ते गच्छन्तु मयैव प्रतिपालिताम् ।
ततस्तस्य वचः श्रुत्वा जनाः केचिन्निजं पदम् ॥
जम्मु र्व्वाराणसीं केचिद्बिजयेनाभिपालिताम् ।
ततो धनानां तान्राशीन्रत्नानाञ्च पृथक् पृथक् ॥
अश्मनां कनकानाञ्च कूप्यानां विजयस्तदा ।
धीवरैर्व्वाहयामास पुरीं वाराणसीं प्रति ॥
गन्धर्व्वाणाञ्च देवानां यदानीतं हठात् पुरा ।
रत्नदार्व्वादिकं यत्तु विजयं तत् प्रसाद्य च ॥
तैस्तैर्नीतन्तु खाण्डव्याः स्वस्थानं प्रति हर्षितैः ।
त्रिंशद्योजनविस्तीर्णां शतयोजनमायताम् ।
तां पुरीं विजयश्चक्रे न चिरादेव वै वनम् ।
तस्मिन् शक्रस्य सम्मत्या तक्षकः सहितो गणैः ॥
उवास सुचिरं तत्र ततोऽभून्निर्ज्जनं वनम् ।
तत्र देवाः सगन्धर्व्वाः क्रीडन्तेऽप्सरसां गणाः ॥
आशंसयंश्च विजयं रणेषु विजयावहम् ॥” * ॥
“अष्टाविंशतिमे प्राप्ते युगे द्वापरशेषतः ॥
वह्निर्ब्राह्मणरूपेण भिक्षां जिष्णुमयाचत ।
दातुमङ्गीकृते भिक्षां तदा पाण्डुसुतेन वै ॥
वह्निः स्वरूपमास्थाय जिष्णुं वचनमब्रवीत् ।
अहमग्निः पाण्डुपुत्त्र ! यज्ञभागातिभोजनात् ॥
व्याधितोऽहं ततो व्याधिं मम त्वं नाशयाधुना ।
खाण्डवं नाम विपिनं सपक्षिमृगराक्षसम् ॥
यदि त्वं मां भोजयितुं शक्नोषि श्वेतवाहन ! ।
तदा ममात्यसौ व्याधिरपयास्यति नोचिरात् ॥
पुरा तु विजयो राजा खाण्डवीं नाम तां पुरीम् ।
भङ्क्त्रा वनं ततश्चक्रे तेन तत् खाण्डवं वनम् ॥
तदर्थं देवविहितं वनं तच्छ्वेतवाहन ! ।
विरोधात्ततु शक्रस्य न स्वयं भोक्तुमुत्सहे ॥
तन्मां त्राहि महाभाग ! वने तस्मिन्नियोजय ।
यथाऽहं सकलं भोक्तुं प्राप्नोमि त्वत्प्रसादतः ॥
तस्य तद्बचनं श्रुत्वा सव्यसाची महाबलः ।
दाहयामास विपिनं तत् सर्व्वं प्राणिसंयुतम् ।
देवकीतनयेनासौ वासुदेवेन पालितः ।
खाण्डवं दाहयामास ज्वलनस्य हिते रतः ॥”
“सुप्रीतः प्रददौ तस्मादर्ज्जुनाय महात्मने ।
वह्रिर्धनुश्च गाण्डीवं वारुणं देवनिर्म्मितम् ॥
अक्षयाविषुधी द्वौ च रूप्याभांश्चतुरो हयान् ।
हनूमताधिष्ठितन्तु महान्तं वानरध्वजम् ॥
खड्गञ्च त्रिशिखं तीक्ष्णं दहनः सव्यसाचिने ।
नीरोगश्चाभवद्वह्निस्तदा जिष्णुप्रसादतः ॥
तैर्व्वाणैस्तेन धनुषा तेन खड्गेन केतुना ।
तदश्वस्यन्दनेनापि विजिग्ये फाल्गुनो रणे ॥
एवं भैरववर्गेषु संजातो विजयो नृपः ।
खाण्डवं नाम विपिनं चकार सुमहाकृती ॥”
इति श्रीकालिकापुराणे ९० अध्यायः ॥
(खण्डस्य इक्षुखण्डादेर्विकार इत्यण् । गुडादि-
विकारमिष्टान्नद्रव्यम् । यथा, महाभारते । १३ ।
५३ । १८ ।
“रसानापूपकांश्चित्रान् मोदकानथ खाण्डवान् ॥”)

खाण्डवी, स्त्री, (हिमवतः सन्निहितं बृहद्बनं

खण्डयित्वा चन्द्रवंशीयेन राज्ञा सुदर्शनेन
निर्म्मिता या पुरी सा ।) चन्द्रवंशीयसुद-
र्शनराजकृतहिमवत्पर्व्वतनिकटस्थपुरीविशेषः ।
तद्विरणं खाण्डवशब्दे द्रष्टव्यम् ॥

खाण्डिकः, पुं, (खण्डं मोदकादिकं शिल्पमस्य ।

इति ठञ् ।) खण्डपालः । मोदकः । इति
हारावली ॥ मयरा इति भाषा ॥ (क्लीवे तु
खण्डिकानां समूहः “खण्डिकादिभ्यश्च ।” । ४ ।
२ । ४५ । इत्यञ् । खण्डिकसमूहः ॥)

खातं, क्ली, (खन्यते इति । खन् + कर्म्मणि क्तः ।)

पुष्करिणी । इत्यमरः । १ । १० । २७ ॥ तस्य
परिमाणं यथा, -- शतेन धनुर्भिः पुष्करिणी
त्रिभिः शतैर्दीर्घिकाचतुर्भिद्रोणः पञ्चभि-
स्तडागः द्रोणदशगुणा वापीति ॥
“चतुर्विंशाङ्गुलो हस्तो धनुस्तच्चतुरुत्तरः ।
शतधन्वन्तरञ्चैव तावत् पुष्करिणी शुभा ।
एतत्पञ्चगुणः प्रोक्तस्तडाग इति निर्णयः ॥”
इति नव्यवर्द्ध्वमानधृतो वशिष्ठः ॥

खातकं, क्ली, (खात + संज्ञायां कन् ।) परिखा ।

इति हेमचन्द्रः ॥ खाना पगार इत्यादि भाषा ॥

खातकः, पुं, अधमर्णः । धारी । ऋणी । यथा, --

“उत्तमर्णो धनस्वामी अधमर्णस्तु खातकः ॥”
इति संक्षिप्तसारटीकायां गोयीचन्द्रः ॥
(परसैन्यविदारकः । यथा, महाभारते । १२ ।
११८ । ११ ।
“खातकं व्यूहतत्त्वज्ञं बलहर्षणकोविदम् ॥”
“खातकः परसैन्यविदारकः ।” इति तट्टीकाकृ-
न्नीलकण्ठः ॥)

खातभूः, स्त्री, (खातयुक्ता भूर्भूमिः ।) प्रतिकूपः ।

परिखा । इति हारावली ॥

खातव्यवहारः, पुं, (खातस्य पुष्करिण्यादेर्व्यवहारः

परिमाणम् ।) पुष्करिण्यादिपरिमाणम् । पुकुरे
कालीति भाषा ॥
“अथ खातव्यवहारे करणसूत्रं सार्द्धार्य्या ।
गणयित्वा विस्तारं बहुषु स्थानेषु तद्युतिर्भाज्या ।
स्थानकमित्या सममितिरेवं दैर्घ्ये च बेधे च ।
क्षेत्रफलं बेघगुणं खाते घनहस्तसंख्या स्यात् ॥
उदाहरणम् ।
भुजवक्रतया दैर्घ्यं दशेशार्क्ककरैर्म्मितम् ।
त्रिषु स्थानेषु षट्पञ्चसप्तहस्ता च विस्तृतिः ॥
यस्य खातस्य बेधोऽपि द्विचतुस्त्रिकरः सखे ! ।
तत्र खाते कियन्तः स्युर्घनहस्ताः प्रचक्ष्व मे ॥”
अत्र सममितिकरणेन विस्तारे हस्ताः ।
दैर्घ्ये । ११ । बेधे । ३ । तत्क्षेत्रदर्शनं यथा, --
यथोक्तकरणेन लब्धा घनहस्तसंख्या ॥ १९८ ॥
खातान्तरे करणसूत्रं सार्द्धवृत्तम् ।
मुखजतलजतद्युतिजक्षेत्रफलैक्यं हृतं षड्भिः ।
क्षेत्रफलं सममेतत् बेधहतं फलं घनफलं स्पष्टम् ।
समखातफलत्र्यंशः सूचीखाते फलं भवति ॥
उदाहरणम् ।
मुखे दशद्वादशहस्ततुल्यं
विस्तारदैर्घ्यन्तु तले तदर्द्धम् ।
यस्याः सखे सप्तकरश्च बेधः
का खातसंख्या वद तत्र वाप्याम् ॥
मुखजं क्षेत्रफलम् । १२० । तलजम् । ३० ।
तद्युतिजम् । २७० । एषामैक्यम् । ४२० ।
षड् भिः । ६ । हृतं जातं समफलम् । ७० । बेध-
७ हतं जातं खातफलं घनहस्ताः । ४९० ।
द्वितीयोदाहरणम् ।
खातेऽथ तिग्मकरतुल्यचतुर्भुजे च
किं स्यात् फलं नवमितः किल यत्र बेधेः ।
वृत्ते तथैव दशविस्तृतिपञ्चबेधे
सूचीफलं वद तयोश्च पृथक् पृथङ्मे ॥
भुजः । १२ । बेधः । ९ । जातं यथोक्तकरणेन
खातफलं घनहस्ताः । १२९६ । सूचीफलम् । ४३२ ।
पृष्ठ २/२८२
वृत्तखातदर्शनाय ।
व्यासः । १० । वेधः । ५ । अत्र सूक्ष्मपरिधिः
(३९२७१२५) । सूक्ष्मक्षेत्रफलम् (३९२७५०) । बेधगुणं
जातं सूक्ष्मखातफलम् (३९२७१०) सूक्ष्मसूची-
फलम् (१३०९१०) । यद्वा स्थूलखातफलम् (२७५०७) ।
सूचीफलं स्थूलम् (२७५०२१) ।
इति लीलावत्यां खातव्यवहारः समाप्तः ॥

खात्रं, क्ली, (खनु विदारे + “उषिखनिभ्यां कित् ।”

उणां । ४ । १६१ । इति ष्ट्रन् किच्च ।) खातम् ।
खनित्रम् । इत्युणादिकोषः ॥ दारुणम् । वनम् ।
सूत्रम् । इति संक्षिप्तसारे उणादिवृत्तिः ॥ (जला-
धारविशेषश्च । इति उज्ज्वलदत्तः ॥)

खाद, ऋ भक्षणे । इति कविकल्पदुमः ॥ (भ्वां-

परं-सकं-सेट् । ऋदित् ।) ऋ, अचखादत् ।
इति दुर्गादासः ॥

खादकः, त्रि, (खाद् भक्षणे + ण्वुल् ।) ऋण-

ग्रहीता । खातक इति ख्यातः । इति मिता-
क्षरा ॥ भक्षकः । यथा, --
“विक्रयैर्गोविनिमयैर्दत्त्वा गोमांसखादके ।
व्रतं चान्द्रायणं कुर्य्याद्वधे साक्षाद्बधी भवेत् ॥”
इति प्रायश्चित्ततत्त्वे गोभिलः ॥

खादनं, क्ली, (खाद् + भावे ल्युट् ।) भक्षणम् ।

आहारः । (खादति चर्व्वयत्यनेन इति ।) दन्ते पुं ।
इति हेमचन्द्रः ॥

खादितं, त्रि, (खाद + क्तः ।) भक्षितम् । इत्य-

मरः । ३ । १ । ११० ॥ खाओया इति भाषा ॥
(“अशितं खादितं पीतं लीढं कोष्ठगतं नृणाम् ।
तज्जीर्य्यति यथाकालं शोषितं पित्ततेजसा ॥”
इति शारीरस्थाने चतुर्थेऽध्याये सुश्रुतेनोक्तम् ॥)

खादिरसारः, पुं, (खदिर + स्वार्थे अण् ततः षष्ठी-

तत्पुरुषः ।) खदिरवृक्षनिर्यासः । खएर इति
भाषा ॥ तत्पर्य्यायः । खादिरः २ अद्भुतसारः ३
सत्सारः ४ रङ्गदः ५ रङ्गः ६ । अस्य गुणाः ।
कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । कफवातव्रण-
कण्ठामयनाशित्वम् । रुचिकारित्वम् । दीपनत्वञ्च ।
इति राजनिर्घण्टः ॥ खदिरसारोऽपि पाठः ॥
(यथा, --
“विना खदिरसारेण हारेण हरिणीदृशाम् ।
नाधरे आयते रागो नानुरागः पयोधरे ॥”
इति उद्भटः ॥)

खादुकः, त्रि, (खादति हिनस्ति इति । खाद् + उन्

संज्ञायां कन् ।) हिंसालुकः । इति हारावली ॥

खाद्यं, त्रि, (खाद्यते इति । खाद् + कर्म्मणि ण्यत् ।)

भक्षणीयद्रव्यम् । यथा, --
“कस्त्वं भद्रखलेश्वरोऽहमिह किं घोरे वने स्थीयते
शार्द्दूलादिभिरेव हिंस्रपशुभिः खाद्योऽहमित्या-
शया ।” इत्युद्भटः ॥

खानपानं, क्ली, (धातूनामनेकार्थत्वात् खै भक्षणे

+ भावे ल्युट् खानम् । पा पाने + भावे ल्युट्
पानम् । खानेन सह पानं यद्वा खानञ्च पानञ्च
तयोः समाहारः ।) कठिनद्रवद्रव्ययोर्गलाधः-
करणम् । खाना पिना इति हिन्दी भाषा ॥
यथा, गारुडे नीतिसारे १०९ अध्यायः ।
“सद्भावेन हि तुष्यन्ति देवाः सत्पुरुषा द्विजाः ।
इतरे खानपानेन वाक्प्रदानेन पण्डिताः ॥”

खानिः, स्त्री, (खन + इन् । पृषोदरात् वृद्धिः ।)

खनिः । इति हेमचन्द्रः ॥

खानिकं, क्ली, (खानेन खननेन निर्वृत्तं इति ठञ् ।)

कुड्यच्छेद्यम् । इति त्रिकाण्डशेषः ॥ देयालेर
गर्त्त इति माषा ॥

खानिलः, त्रि, (खानं खननं शिल्पत्वेनास्त्यस्य ।

इति बाहुलकात् इलच् ।) भित्तिचौरः । इति
शब्दरत्नावली ॥ सिँदेल चोर इति भाषा ॥

खानी, स्त्री, (खानि + वा ङीष् ।) खनिः । इति

शब्दरत्नावली ॥

खानोदकः, पुं, (खानाय पानार्थं उदकमत्र ।)

नारिकेलः । इति त्रिकाण्डशेषः ॥

खापगा, स्त्री, (खे आकाशे स्थिता खात् आगता

वा आपगा नदी ।) गङ्गा । इति हेमचन्द्रः ॥

खारः, पुं, (खं अवकाशमाधिक्येन ऋच्छतीति ।

ऋ + अण् ।) खारीपरिमाणम् । इति हड्डचन्द्रः ॥

खारिः, स्त्री, (खं मध्यावकाशं आरातीति । आ

+ रा + इन् ।) खारीपरिमाणम् । इति भरत-
धृतहड्डचन्द्रः ॥

खारिकं, क्ली, (खारि + संज्ञायां कन् ।) महा-

पारेवतम् । इति राजनिर्घण्टः ॥

खारिम्पचः, त्रि, (खारिं खारीपरिमितधान्य-

मित्यर्थः पचतीति । पच् + “परिमाणे पचः ।”
३ । २ । ३१ । इति खश् + ततो मुम् ।) खारि-
परिमितान्नादिपाककर्त्ता । इति व्याकरणम् ॥

खारी, स्त्री, (खं मध्यावकाशं आरातीति । आ +

रा + इन् । “कृदिकारान्तादक्तिनः ।” ४ । १ । ४५ ।
इत्यस्य वार्त्तिं इति पक्षे ङीष् ।) परिमाण-
विशेषः । इत्यमरः । २ । ९ । ८८ ॥ यदाह तट्टी-
कायां भरतः ।
“पलं प्रकुञ्चकं मुष्टिः कुडवस्तच्चतुष्टयम् ।
चत्वारः कुडवाः प्रस्थश्चतुःप्रस्थमथाढकम् ॥
अष्टाढको भवेद्द्रोणो द्विद्रोणः सूर्प उच्यते ।
सार्द्धसूर्पो भवेत् खारी द्वे खार्य्यौ गोण्युदाहृता ॥
तामेव भारं जानीयात् वाहो भारचतुष्टयम् ॥”
“षोडशद्रोणपरिमाणम् ।” इत्यमरटीकायां
स्वामी लीलावती च ॥ गोणीचतुष्टयम् । तत्तु
षण्णवत्यधिकचतुःसहस्रपलानि । पाँचशत वार-
शेर इति भाषा । इति वैद्यकपरिभाषा ॥ द्रोण-
चतुष्टयम् । यथा, --
“चतुराढको भवेद्द्रोणः खारी द्रोणचतुष्टयम् ॥”
इति स्मृतिः ॥

खारीकं, त्रि, (खारीं खारीवापमर्हतीति । “खार्य्या

ईकन् ।” ५ । १ । ३३ । “केवलायाश्चेति वक्त-
व्यम् ।” इति वार्त्तिं इति ईकन् ।) खारी-
क्षेत्रम् । खारीपरिमितबीजवपनोपयुक्तक्षेत्रम् ।
तत्पर्य्यायः । खारीवापः २ । इत्यमरः । २ । ९ । १० ॥

खारीवापः, त्रि, (खारी तत्परिमितधान्यं उप्यते

ऽत्र । वप् + अधिकरणे घञ् ।) खारीकः । इत्य-
मरः । २ । ९ । १० ॥ (खारीं वपतीति । वप्
+ कर्त्तरि अण् । धान्यादिवपनकारी ॥)

खिखिः, स्त्री, (खिरित्यव्यक्तशब्देन खेटति भीरूणां

भयमुत्पादयतीति । खि + खिट् + डः । पृषो-
दरात् साधुः ।) किखिः । इति क्वचित् त्रिकाण्ड-
शेषे पाठः ॥ ख्याँक्शेयाली इति भाषा ॥

खिङ्खिरः, पुं, (खिं अव्यक्तध्वनिविशेषं किरति

विकृतिभावेन शब्दं करोतीत्यर्थः । कॄ + कः ।
पृषोदरात् खत्वेन साधुः ।) शिवाभेदः । ख्याँक्-
शेयाली इति भाषा । खट्वाङ्गम् । तत्तु शिव-
स्यास्त्रम् । वारिबालकम् । तत्तु गन्धद्रव्यम् ।
इति विश्वो हेमचन्द्रश्च ॥

खिट, भयभीषयोः । इति कविकल्पद्रुमः ॥ (भ्वां-

परं-भये अकं-भयोत्पादने सकं-सेट् ।) भीषा
स्वतो भयोत्पादना । खेटति जनो व्याघ्राद्बिभे-
तीत्यर्थः । खेटति व्याघ्र्यो जनं भीषयते इत्यर्थः ।
इति दुर्गादासः ॥

खिद, श प औ परिघाते । इति कविकल्पद्रुमः ॥

(तुदां-परं-सकं-अनिट् ।) श प, खिन्दति दुष्टं
राजा । औ, खेत्त्वा । इति दुर्गादासः ॥

खिद, ङ ध य औ दैन्यके । इति कविकल्पद्रुमः ॥

(दिवां-रुधां च-आत्मं-अकं-अनिट् ।) दैन्यक-
मुपतप्तीभावः । ङ ध, खिन्ते तेष्वेव ये द्रव्यम्
दीयमानं न गृह्णते । इति हलायुधः ॥ ङ य,
स्वसुखनिरभिलाषः खिद्यते लोकहेतोरिति
शाकुन्तले । औ, खेत्त्वा । इति दुर्गादासः ॥

खिदिरः, पुं, (खिद्यते कृष्णपक्षेण दुःखेन तपसा

वा । यथायथं व्युत्पत्तिर्ज्ञातव्या । खिद् + “इषि-
मदि-मुदि-खिदीति ।” उणां । १ । ५२ । इति
किरच् ।) चन्द्रः । इत्युणादिकोषः ॥ दीनः ।
तापसः । इति संक्षिप्तसारे उणादिवृत्तिः ॥

खिद्यमानः, त्रि, (खिद् + ताच्छील्ये चानश् ।)

खेदयुक्तः । दैन्यग्रस्तः । उपतप्तः । यथा, --
“खिद्यमानन्तु तं दृष्ट्वा सूर्य्यः कृष्णात्मजं तदा ।”
इति शाम्बपुराणे सूर्य्यस्तवः ॥

खिद्रः, पुं, (खिद् दैन्ये + “स्फायि तञ्चिवञ्चीति ।”

उणां । २ । १३ । इति रक् ।) रोगः । दरिद्रः ।
इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

खिन्नः, त्रि, (खिद् + क्तः ।) दैन्यग्रस्तः । खेद-

युक्तः । यथा, श्रीभागवते ।
पृष्ठ २/२८३
“गौर्भूत्वास्रुमुखी खिन्ना रुदन्ती करुणं विभोः ॥”

खिरहिट्टी, स्त्री, महासमङ्गा । इति राज-

निर्घण्टः ॥

खिलं, त्रि, (खिल् + कः ।) हलादिना कृष्टभूमिः ।

खिल भूँइ इति भाषा ॥ तत्पर्य्यायः । अप्र-
हतम् २ । इत्यमरः । २ । १ । ५ ॥ सारसंक्षिप्ते
वेधसि च पुं । इति मेदिनी ॥
“खिलोनारायणः प्रोक्तैषवस्तद्गुणाः स्मृताः ।”
इति खिलेषु हरिवंशे इत्यत्र नीलकण्ठटीका ॥

खु, ङ ध्वनौ । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-

अकं-अनिट् ।) ङ, खवते । इति दुर्गादासः ॥

खुङ्गाहः, पुं, (खुं इत्यव्यक्तशब्दं कुर्व्वन् गाहते

रणस्थलं विलोडयतीति । गाह् + अच् ।) कृष्ण-
वर्णघोटकः । इति हेमचन्द्रः ॥

खुज, उ स्तेये । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् । उदित्त्वात् क्त्वा वेट् ।) उ, खोजित्वा
खुक्त्वा । स्तेयं चौर्य्यम् । इति दुर्गादासः ॥

खुज्जाकः, पुं, (खुज् + आकः निपातनात् जस्य

द्वित्वम् ।) देवताडकवृक्षः । इति रत्नमाला ॥
खुञ्जाक इति क्वचित् पाठः ॥

खुड, इ ङ खञ्जे । इति कविकल्पद्रुमः ॥ (भ्वां-

आत्मं-अकं-सेट्-इदित् ।) पञ्चमस्वरी । खञ्जः
खोटनम् । इ, कर्म्मणि खुण्ड्यते । ङ, खुण्डते
खोडः । इति दुर्गादासः ॥

खुड, क भेदे । इति कविकल्पद्रुमः ॥

(चुरां-परं-सकं-सेट् । पाक्षिक
इदित् ।) द्वौ पञ्चमस्वरिणौ । क, खोडयति ।
द्वितीय आद्यस्वरीति कातन्त्राद्याः । स्वमते तु
द्वितीयस्याद्यस्वरित्वे पूर्ब्बोऽपीदनुवन्धः स्यात् ।
पञ्चमस्वरित्वे तु स्वजातीयस्य पुनःपाठात् पूर्ब्बो
नेदनुबन्धः । खुण्डयति । खण्डयतीति प्रयोगस्तु
खडि ङ् मथीत्यस्मात् घञि खण्डं करोतीति ञौ
साध्यम् । तस्य भेदवाचित्वन्तु धातूनामनेकार्थ-
त्वात् । इति दुर्गादासः ॥

खुड, इ क भेदे । इति कविकल्पद्रुमः ॥

(चुरां-परं-सकं-सेट् । पाक्षिक
इदित् ।) द्वौ पञ्चमस्वरिणौ । क, खोडयति ।
द्वितीय आद्यस्वरीति कातन्त्राद्याः । स्वमते तु
द्वितीयस्याद्यस्वरित्वे पूर्ब्बोऽपीदनुवन्धः स्यात् ।
पञ्चमस्वरित्वे तु स्वजातीयस्य पुनःपाठात् पूर्ब्बो
नेदनुबन्धः । खुण्डयति । खण्डयतीति प्रयोगस्तु
खडि ङ् मथीत्यस्मात् घञि खण्डं करोतीति ञौ
साध्यम् । तस्य भेदवाचित्वन्तु धातूनामनेकार्थ-
त्वात् । इति दुर्गादासः ॥

खुर, श विलेखने । छेदने । इति कविकल्पद्रुमः ॥

(तुदां-परं-सकं सेट् ।) श, खुरति भूमिं तृणं
वा लोकः । खोरिता । खुरः शफम् । इति
दुर्गादासः ॥

खुरः, पुं, (खुर छेदने + कः । यद्वा “ऋज्रेन्द्राग्र-

वज्रेति ।” उणां । २ । २८ । इति रन् गुणा-
भावोऽन्त्यलोपश्च ।) शफम् । गवादीनां पादा-
ग्रम् । (यथा, मनुः । ४ । ६७ ।
“न भिन्नशृङ्गाक्षिखुरैर्न वालधिविरूपितैः ॥”)
कोलदलम् । नखीनामगन्धद्रव्यम् । इति मेदिनी ॥
छेदनवस्तु । नापितस्य खुरः । इति शब्दरत्ना-
वली ॥ खट्वादीनां पादुकम् । इति धरणी ॥ खुरा
इति भाषा ॥

खुरकः, पुं, (खुर + संज्ञायां कन् । खुरो गन्धद्रव्य-

विशेषः स इव कायति वा । कै + कः ।) तिल-
वृक्षः । इति शब्दचन्द्रिका ॥ (तिलशब्देऽस्य
गुणादवो बोद्धव्याः ॥)

खुरणसः, त्रि, (खुर इव नासिका अस्य “अञ्ना-

सिकाया इति ।” ५ । ४ । ११८ । इति अच्
नसाद्रेशश्च “पूर्ब्बपदात् संज्ञायामगः ।” ८ । ४ । ३ ।
इति णत्वम् ।) चिपिटनासिंकः । इत्यमरः ।
२ । ६ । ४७ ॥ चेपटानाकयुक्त इति भाषा ॥

खुरणाः, त्रि, (खुर इव नासिका अस्य “खुर

खराभ्यां वा नस् ।” इति नसादेशः “पूर्ब्बपदा-
दीति ।” ८ । ४ । ३ । इति णत्वं च ।) खुरणसः ।
इत्यमरः । २ । ६ । ४७ ॥ छेपडानासिकायुक्त इति
भाषा ॥

खुरप्रः, पुं, (खुर इव प्राति खुरास्त्रवत् कार्य्यं

पूरयतीत्यर्थः । खुर + प्रा + कः ।) बाणविशेषः ।
इत्यमरटीकायां स्वामी ॥ खुरपा इति भाषा ॥

खुरली, स्त्री, (खुरैः सह विविधानि अस्त्रादीनि

लाति पौनःपुन्येन शिक्षार्थमत्र । ला ग्रहणे +
इन् + वा ङीष् ।) शराभ्यासः । इति हेमचन्द्रः ॥

खुराकः, पुं, (खुर + आकन् ।) पशुः । इत्यु-

णादिकोषः ॥

खुरालकः, पुं, (खुर इव अलति पर्य्याप्नोतीति ।

अल + ण्वुल् ।) लौहमयवाणः । इति शब्द-
माला ॥

खुरालिकः, पुं, (खुराणां आलिभिः कायति

प्रकाशते । कै + कः ।) ग्रामणीभण्डिः । नापि-
तेर भाँडि इति भाषा । नाराचः । उपधानम् ।
इति मेदिनी ॥ खरालिकोऽपि पाठः ॥

खुर्द्द, ङ क्रीडायाम् । इति कविकल्पद्रुमः (भ्वां-

आत्मं-अकं-सेट् ।) पञ्चमस्वरी । दीर्घिणः
पृथक्पाठात् पूर्ब्बस्य न दीर्घः । ङ, खुर्द्दते । इति
दुर्गादासः ॥

खुल्लं, क्ली, (क्षुद् + सम्पदादित्वात् क्विप् । क्षुदं

लातीति । ला + कः । पृषोदरात् साधुः ।)
नखीनामगन्धद्रव्यम् । इति शब्दचन्द्रिका ॥
क्षुद्रे नीचे च त्रि ॥

खुल्लकः, त्रि, (खुल्ल + स्वार्थे कन् ।) स्वल्पः ।

नीचः ॥ कनिष्ठः । दरिद्रः । निष्ठुरः खलः ।
इत्यमरटीका ॥

खुल्लतातः, पुं, (खुल्लः कनिष्ठः तातस्य पितुरिति

पूर्ब्बनिपातः ।) पितृकनिष्ठभ्राता । इति शब्द-
रत्नावली ॥ खुडा इति भाषा ॥

खुल्लमः, पुं, (खुल्लेन मीयते इति । मा + घञर्थे

कः ।) पन्थाः । इति त्रिकाण्डशेषः ॥

खूर्द्द, ङ क्रीडायाम् । इति कविकल्पद्रुमः ॥ (भ्वां-

आत्मं-अकं-सेट् ।) षष्ठस्वरी । ङ, खूर्द्दते ।
इति दुर्गादासः ॥

खेखीरकः, पुं, (खे आकाशे खीलक इव लस्य

रत्वम् ।) शब्दवती यष्टिः । इति हारावली ॥

खेगमनः, पुं, (खे आकाशे गमनं अस्य ।) काल-

कण्ठपक्षी । इति शब्दमाला ॥

खेचरः, पुं, (खे चरतीति । चर + “चरेष्टः ।”

३ । २ । १६ । इति टः । अलुक् समासः ।)
शिवः । इति शब्दरत्नावली ॥ विद्याधरः । इति
जटाधरः ॥ पारदः । इति राजनिर्घण्टः ॥
आकाशचारिणि त्रि ॥
(“हतो हन्ति जराव्याधिं मूर्च्छितो व्याधिघातकः ।
बद्धः खेचरतां धत्ते कोऽन्यः मूतात् कृपाकरः ॥”
इति वैद्यकरसेन्द्रसारसंग्रहे जारमारणाधि-
कारः ॥
मेषादिराशिः । यथा ज्योतिषतत्त्वे--“खेचराश्च
सर्व्वे ॥”)

खेचरान्नं, क्लो, (खेचरं द्विदलादिमिश्रितं अन्नम् ।)

द्विदलादिसहितपक्वतण्डुलम् । खिचडीति भाषा ॥
इति पाकराजेश्वरः ॥

खेट, त् क भक्षणे । इति कविकल्पद्रुमः ॥ (अदन्त-

चुरां-परं-सकं-सेट् ।) अचिखेटत् । इति
दुर्गादासः ॥

खेटं, क्ली, (खे + अट् + अच् ।) तृणम् । इति

शब्दरत्नावली ॥ खेट्टमपि पाठ ॥

खेटः, पुं, (खे आकाशे अटति । अट् + अच् ।)

ग्रहः । यथा, भावविवेके ।
“यस्मिन् राशौ स्थितः खेटस्तेन तं परिपूरयेत् ॥”

खेटः, त्रि, (खिट् + अच् । खेट् + कः वा ।) अधमः ।

इत्यमरः । ३ । १ । ५४ ॥ घोटकः । इति शब्दरत्ना-
वली ॥ सुनिन्दकः । इति विश्वः ॥ सुनन्दक इति
पाठे बलरामस्य गदा इति कश्चित् ॥

खेटः, पुं, क्ली, (खिट्यते भवमुत्पद्यते अस्मा-

दनेन वा । खिट् + अपादाने करणे वा घञ् ।)
मृगया । इत्यमरहेमचन्द्रौ ॥ कफः । (खेट्यते
भक्षोपयोगिशस्यादिना उपजीव्यते अस्मात् ।)
ग्रामभेदः । स तु कर्षकग्रामः । (तथा च भाग-
वते । १ । ६ । ११ ।
“खेटखर्ब्बटवाटीश्च वनान्युपवनानि च ॥”
“खेटाः कर्षकग्रामाः ।” इति श्रीधरस्वामी ॥)
चर्म्म । इति मेदिनीशब्दरत्नावल्यौ ॥

खेटकः, पुं, (खेट + स्वार्थे कः ।) ग्रामभेदः ।

चासार गाँ इति भाषा ॥ इति जटाधरः ॥
फलकम् । इति हेमचन्द्रः ॥ “खेटकं वसुनन्दके ।”
इति हारावली ॥ वसुनन्दको धनवृद्धिजीवकः ।
इति तत्सूची ॥ बलदेवस्य गदा इति कश्चित् ॥

खेटः पुं, (खेटति भयमुत्पादयत्यनेन । खिट्

+ करणे घञ् । खेट + स्वार्थे कः ।)
यष्टिः । यथा, --

खेटकः पुं, (खेटति भयमुत्पादयत्यनेन । खिट्

+ करणे घञ् । खेट + स्वार्थे कः ।)
यष्टिः । यथा, --
“यष्टिरूपेण खेट ! त्वमरिसंहारकारकः ।
देवीहस्तस्थितो नित्यं मम रक्षां कुरुष्व च ॥”
इति शारदीयदुर्गापूजापद्धतौ
अस्त्रपूजाप्रकरणम् ॥
“खेटकं पूर्णचापञ्च पाशमङ्कुशमेव च ॥”
इति च तत्र दशभुजाया दुर्गाया ध्यानम् ॥

खेटितालः, पुं, (खे अटतीति अट् इन् । खिट् +

इन् वा । खेटिः तालोऽस्य ।) वैतालिकः । इति
शब्दमाला ॥

खेटी, [न्] पुं, (खेट् + णिनिः ।) नागरः । कामी ।

इति शब्दमाला ॥

खेड, त् क भक्षणे । इति कविकल्पद्रुमः ॥ (अदन्त

चुरां परं-सकं-सेट् ।) अचिखेडत् । इति दुर्गा-
दासः ॥
पृष्ठ २/२८४

खेदः, पुं, (खिद् + भावे घञ् ।) शोकः । इति

हेमचन्द्रः ॥ अवसन्नता । इति जटाधरः ॥
(यथा, हेः रामायणे । ४ । ४९ । ७ ।
“अद्यापीदं वनं दुर्गं विचिन्वन्तु वनौकसः ।
खेदं त्यक्त्वा पुनः सर्व्वं वनमेव विचिन्वताम् ॥”)

खेदिनी, स्त्री, (खिद् + णिच् + णिनिः । स्त्रियां

ङीप् ।) अशनपर्णीवृक्षः । लता । इति शब्द-
चन्द्रिका ॥ (दैन्यकारिणी । शोककारिणी ॥ इति
व्युत्पत्तिलब्धोऽर्थः ॥)

खेयं, क्ली, (खन्यते इति । खनु विदारे + “ई च

खनः ।” ३ । १ । १११ इति कर्म्मणि क्यप् ईकार-
श्चान्तादेशः ।) परिखा । गडखाइ इति भाषा ।
इत्यमरः ॥ खननीयम् । इति व्याकरणम् ॥ (सेतु-
भेदः । यथा मिताक्षराघृतनारदवचनम् ।
“सेतुश्च द्विविधो ज्ञेयः खेयो बन्ध्यस्तथैव च ।
तोयप्रवर्त्तनात् खेयः ।” इति ॥)

खेल, ऋ चाले । गत्याम् । इति कविकल्पद्रुमः ॥

(भ्वां-परं-चलने अकं गत्यां सकं-सेट् ।) कवर्ग-
द्वितीयादिः । अचिखेलत् । चालः कम्पः ।
चालः कैश्चिन्न मन्यते । इति दुर्गादासः ॥

खेलनं, क्ली, (खेल् + भावे ल्युट् ।) क्रीडनम् ।

इति हलायुधः ॥ (यथा, गीतगोविन्दे । १ । ४१ ।
“कापि विलासविलोलविलोचन-
खेलनजनितमनोजम् ॥”)

खेलनी, स्त्री, (खेलति अस्मिन् इति । खेल +

अधिकरणे ल्युट् + स्त्रियां ङीप् ।) शारि-
फलम् । इति हेमचन्द्रः ॥

खेला, स्त्री, (खेल + भावे + अप् टाप् ।) खेलनम् ।

तत्पर्य्यायः । क्रीडा २ कूर्द्दनम् ३ । इत्यमरः ।
१ । ७० । ३३ ॥

खेलिः, स्त्री, (खे आकाशे अलति पर्य्याप्नोति ।

अल् + इन् ।) गीतम् । बाणः । सूर्य्यः । पक्षी ।
जन्तुः । इत्यजयपालः ॥

खेव, ऋ ङ सेवे । इति कविकल्कद्रुमः ॥ (भ्वां-

आत्मं-सकं-सेट् ऋदित् ।) ऋ, अचिखेवत् ।
ङ, खेवते । इति दुर्गादासः ॥

खेसरः, पुं, (खे आकाशे इव द्रुतगामित्वात् सरतीति ।

सृ + टः ।) जन्तुविशेषः । खचर इति भाषा ।
तत्पर्य्यायः । अश्वखरजः २ सकृद्गर्भः ३
अध्वगः ४ क्षमी ५ सन्तुष्टः ६ मिश्रजः ७ मिश्र-
शब्दः ८ अतिभारगः ९ । इति राजनिर्घण्टः ॥

खै, स्थैर्य्ये । खनने । हिंसायाम् । इति कविकल्प-

द्रुमः ॥ (भ्वां-परं-स्थैर्य्ये अकं-खननादौ सकं-
अनिट् ।) खायति । इति दुर्गादासः ॥

खोङ्काहः, पुं, (खे आकाशे उङ् इत्यव्यक्तशब्दं

कुर्व्वन् गाहते इव प्रधावतीत्यर्थः । गाह + अच् ।
पृषोदरात् साधुः ।) श्बेतपिङ्गलाश्वः । इति
हेमचन्द्रः ॥ खाङ्गाहोऽपि पाठः ॥

खोट, ऋ गत्याघाते । इति कविकल्पद्रुमः ॥ (भ्वां-

परं-अकं-सेट् ।) ऋ, अचुखोटत् । गत्या-
घातः स्वोटनम् । खोटति खञ्जः । इति दुर्गा-
दासः ॥

खोट, त् क क्षेपे । इति कविकल्पद्रुमः ॥ (अदन्त-

चुरां-परं-सकं-सेट् ।) अचुखोटत् । इति दुर्गा-
दासः ॥

खोटिः, स्त्री, (खोट् + इन् ।) चतुरा स्त्री । इति

शब्दमाला ॥ खोरिरित्यपि पाठः ॥

खोटी, स्त्री, (खोटि + वा ङीष् ।) पालङ्की-

वृक्षः । इति शब्दचन्द्रिका ॥ चतुरापि ॥

खोड, ऋ खोटने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

अकं-सेट् ।) ऋ, अचुखोडत् । खोडति
खञ्जः । रमानाथस्तु खोडति बाला क्रिमि-
मित्युदाहृतवान् । इति दुर्गादासः ॥

खोड, त् क क्षेपे । इति कविकल्पद्रुमः ॥ (अदन्त-

चुरां-परं-सकं-सेट् ।) अचुखोडत् । इति
दुर्गादासः ॥

खोडः, त्रि, (खोडति इति । खोड + अच् ।)

खञ्जः । खोँडा इति भाषा ॥ इत्यमरः २ । ६ । ४९ ॥

खोडकशीर्षकं, क्ली, (खोड क्षेपे + ण्वुल् । खोडकं

शीर्षं अस्य इति कप् ।) कपिशीर्षम् । क्रय-
शीर्षम् । इति त्रिकाण्डशेषः ॥

खोर, ऋ खोटने । गतिवैकल्ये इति यावत् । इति

कविकल्पद्रुमः ॥ (भ्वां-परं-अकं-सेट् ।) ऋ,
अचुखोरत् । खोरति खञ्जः । इति दुर्गा-
दासः ॥

खोरः, त्रि, (खोरति इति । खोर् + अच् ।)

खञ्जः । इति हेमचन्द्रः ॥

खोल, ऋ खोटने । गतिवैकल्ये । इति कविकल्प-

द्रुमः ॥ (भ्वां-परं-अकं-सेट् ।) ऋ, अचु-
खोलत् । खोलति खञ्जः । रमानाथस्तु खोलति
बाला क्रिमिमित्युदाहृतवान् । इति दुर्गादासः ॥

खोलः, त्रि, (खोलति इति । खोल + अच् ।)

खञ्जः । इति शब्दमाला ॥

खोलकः, पुं, (खोल + संज्ञायां कन् ।) पाकः ।

खोला इति भाषा ॥ शिरस्त्रः । खोपडा इति
भाषा ॥ वल्मीकः । उयेर ढिपि इति भाषा ॥
पूगकोषः । इति मेदिनी ॥ गुयार छोवडा इति
भाषा ॥

खोलिः, स्त्री, (खोल + इन् ।) तूणः । इति शब्द-

माला ॥

खोल्मुकः, पुं, (खे आकाशे उल्मुक इव लोहित-

वर्णतयेति बोध्यम् ।) मङ्गलग्रहः । इति
त्रिकाण्डशेषः ॥

ख्या, ल ख्यातौ । कथने । इति कविकल्पद्रुमः ॥

(अदां-परं-अकं-कथनादौ तु सकं--अनिट् ।)
ख्यातिः प्रसिद्धिः । ल, ख्याति गुणी प्रसिद्धः
स्यादित्यर्थः । ख्याति साधुः कथां हरेः । तथा
च । ख्या प्रकथने । प्रकथनं प्रसिद्धिरिति
गोविन्दभट्टः । ख्या प्रकथने इति चतुर्भुज-
जुमरौ । इति दुर्गादासः ॥

ख्यातः, त्रि, (ख्या + क्तः ।) ख्यातियुक्तः । तत्-

पर्य्यायः । प्रतीतः २ प्रथितः ३ वित्तः ४
विज्ञातः ५ विश्रुतः ६ । इत्यमरः । ३ । १ । ९ ॥
(यथा, भट्टिः । ६ । ९७ ।
“अमितम्पचमीशानं सर्व्वभोगीणमुत्तमम् ।
आवयोः पितरं विद्धि ख्यातं दशरथं भुवि ॥”)

ख्यातगर्हणः, त्रि, (ख्याता विश्रुता गर्हणा निन्दा

अस्य ।) प्रसिद्धकुत्सनः । तत्पर्य्यायः । अव-
गीतः २ । इत्यमरः । ३ । १ । ९३ ॥

ख्यातगर्हितः, त्रि, (ख्यातं गर्हितं गर्हणमस्य ।)

ख्यातगर्हणः । इति जटाधरः ॥

ख्यातिः, स्त्री, (ख्या + क्तिन् ।) प्रसिद्धिः । तत्-

पर्य्यायः । प्रथा २ । इत्यमरः । ३ । २ । ९ ॥
(यथा, पञ्चतन्त्रे । १ । ४०२ ।
“लोके ख्यातिमुपागताऽत्र सकले लोकोक्तिरेषा यतः ।”
मनुश्च । १२ । ३६ ।
“येनास्मिन् कर्म्मणा लोके ख्यातिमिच्छति पुष्कलाम् ।
न च शोचत्यसम्पत्तौ तद्विज्ञेयन्तु राजसम् ॥”
प्रकाशः । ज्ञानम् । यथा, माघे । ४ । ५५ ।
“मैत्रादिचित्तपरिकर्म्मविदो विधाय
क्लेशप्रहाणमिह लब्धसबीजयोगाः ।
ख्यातिं च सत्त्वपुरुषान्यतयाऽधिगम्य
वाञ्छन्ति तामपि समाधिभृतो निरोद्धुम् ॥”
“मैत्रीति । इहाद्रौ समाधिभृतो योगिनः ।
मैत्री करुणा मुदिता उपेक्षेति चतस्रश्चित्तवृत्तयः ।
तत्र पुण्यकृत्सु मैत्री दुःखिषु करुणा सुखिषु
मुदिता अनुमोदनं पापिषु उपेक्षा । मैत्री
आदिर्येषां तानि चित्तस्य परिकर्म्माणि प्रसाध-
कानि शोधकानीत्यर्थः तानि विन्दन्ति लभन्ते
इति तद्बिदः तद्भाजस्तैः क्षीणान्तःकरणमलाः
इत्यर्थः । अतएव क्लेशप्रहाणं विधाय । अविद्या-
स्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः । तत्रा-
नित्येषु नित्यत्वाभिमानः अनात्मनि च देहेन्द्रि-
यादौ आत्मधीरित्यादि विभ्रमोऽविद्या । अस्मिता
अहङ्कारः । रागोऽभिमतविषयाभिलाषः । द्वेषो-
ऽनभिमतविषयेषुरोषः । अभिनिवेशः । कार्य्या-
कार्य्येष्वाग्रहः । ते हि पुरुषं क्लिश्यन्ति इति
क्लेशाः क्लेशहेतवः तेषां प्रहाणं क्षयः तद्बिधाय
क्लेशान् हित्वा इत्यर्थः । अतो लब्धः सबीजः
सावलम्बयोगो यैस्ते लब्धसबीजयोगाः सन्तः
आलम्बनमेव व्यनक्ति । सत्त्वपुरुषयोरन्यतया
अन्यत्वेन मिथो भिन्नत्वेन ख्यातिं ज्ञानं अधि-
गम्य प्रकृतिपुरुषौ भिन्नाविति ज्ञात्वा प्रकृति
पुरुषयोर्विवेकाग्रहणात् संसारः । विवेकग्रह-
णात् मुक्तिरिति साङ्ख्याः । अथ तां ख्यातिमपि
निरोद्धुं निवर्त्तयितुं वाञ्छन्ति वृत्तिरूपां तां
निवर्त्त्य स्वयम्प्रकाशतयैवावस्थातुमिच्छन्ती-
त्यर्थः । प्रकृतावुपरतायां पुरुषस्वरूपेणावस्थानं
मुक्तिरिति सांङ्ख्यसिद्धान्तः ॥” इति तट्टीकायां
मल्लिनाथः ॥)
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/ख&oldid=43939" इत्यस्माद् प्रतिप्राप्तम्