सामग्री पर जाएँ

विष्णुधर्मः/अध्यायाः ००१-०१०

विकिस्रोतः तः

श्री विष्णुधर्मः अध्यायः 1-10
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् |
देवीं सरस्वतीं व्यासम् (चैव) ततो जयम् उदीरयेत् ||१||
द्वैपायनौष्ठपुटनिःसृतमप्रमेयं
पुण्यं पवित्रम् अथ पापहरं शुभं च |
यो भारतं समधिगच्छति वाच्यमानं
किं तस्य पुष्करजलैरभिषेचनेन ||२||
प्रथमोऽध्यायः
क्रियायोगप्रवृत्तिः

कृताभिषेकं तनयम् तु राज्ञः पारीक्षितस्य ह |
द्रष्टुम् अभ्याययुः प्रीत्या शौनकाद्या महर्षयः || १ ||
तान् आगतान् स राजर्षिः पाद्यार्घ्यादिभिरर्चितान् |
सुखोपविष्टान् विश्रान्तान् कृतसंप्रश्नसत्कथान् || २ ||
तत्कथाभिः कृताह्लादः प्रणिपत्य कृताञ्जलिः |
शतानीकोऽथ पप्रच्छ नारायणकथां पराम् || ३ ||
राजोवाच –
यमाश्रित्य जगन्नाथम् मम पूर्वपितामहाः |
विपक्षापहृतं राज्यमवापुः पुरुषोत्तमाः || ४ ||
द्रौणिब्रह्मास्त्रनिर्दग्धो मम येन पितामहः |
परीक्षित् प्राणसंयोगं देवदेवेन लम्भितः || ५ ||
तस्य देवस्य माहात्म्यं देवर्षिसिद्धमनुजैः |
श्रुतं सुबहुशो मया स्तुतस्याशेषजन्मनः || ६ ||
कः स्तोतुमीशस्तमजं यस्यैतत् सचराचरम् |
अव्ययस्याप्रमेयस्य ब्रह्माण्डमुदरेशयम् || ७ ||
रुद्रः क्रोधोद्भवो यस्य प्रसादाच्च पितामहः |
तस्य देवस्य कः शक्तः? प्रवक्तुं वा विभूतयः || ८ ||
सोऽहमिच्छामि देवस्य तस्य सर्वात्मनः प्रभोः |
श्रोतुमाराधनं येन निस्तरेयं भवार्णवम् || ९ ||
केनोपायेन मन्त्रैर्वा रहस्यैः परिचर्यया |
दानैर्व्रतोपवासैर्वा जप्यैर्होमैरथापि वा || १० ||
आराधितः समस्तानां क्लेशानां हानिदो हरिः |
शक्यः समाराधयितुं तन्नः शंसत सत्तमाः ||११ ||
विद्यानामपि सा विद्या श्रुतानामपि तच्छ्रुतम् |
रहस्यानां रहस्यं तद्येन विष्णुः प्रसीदति || १२ ||
मन्त्राणां परमो मन्त्रो व्रतानां तन्महाव्रतम् |
उपोषितं हि तच्छ्रेष्ठं येन तुष्यति केशवः || १३ ||
सा जिह्वा या हरिं स्तौति तच्चित्तं यत्तदर्पणम् |
तावेव केवलौ श्लाघ्यौ यौ तत्पूजाकरौ करौ || १४ ||
सुजन्म देहमत्यन्तं तदेवाऽशेषजन्मसु |
यदेव पुलकोद्भासि विष्णोर्नामाभिकीर्तनात् || १५ ||
सा हानिस्तन्महच्छिद्रं सा चाऽन्धजडमूकता |
यन्मुहूर्तं क्षणं वापि वासुदेवो न चिन्त्यते || १६ ||
नूनं तत्कण्ठशालूकमथवा प्रतिजिह्विका |
रोगो वाऽन्यो न सा जिह्वा या न वक्ति हरेर्गुणान् || १७ ||
सन्त्यनेका बिलास्तद्वच्श्रोत्रमप्यल्पमेधसाम् |
दत्त्वाऽवधानं यच्छब्दे विनैव हरिसंस्तुतिम् || १८ ||
धर्मार्थकामसंप्राप्तौ पुरुषाणां विचेष्टितम् |
जन्मन्यविफला सैका या गोविन्दाश्रया क्रिया || १९ ||
दुर्गसंसारकान्तारमपारमभिधावताम् |
एकः कृष्णनमस्कारो मुक्तितीरस्य देशिकः || २० ||
सर्वरत्नमयो मेरुः सर्वाश्चर्यमयं नभः |
सर्वतीर्थमयी गङ्गा सर्वदेवमयो हरिः || २१ ||
एवमादिगुणो भोगः कृष्णस्याद्भुतकर्मणः |
श्रुतो मे बहुशो सिद्धैः गीयमानस्तथाऽपरैः || २२ ||
सोऽहमिच्छामि तं देवं सर्वलोकपरायणम् |
नारायणमशेषस्य जगतो हृद्यवस्थितम् || २३ ||
आराधयितुमीशानम् अनन्तममितौजसम् |
शंकरं जगतः प्राणं स्मृतमात्राघहारिणम् || २४ ||
तन्ममाद्य मुनिश्रेष्ठाः प्रसादयितुमिच्छतः |
उपदेशप्रदानेन प्रसादं कर्तुमर्हत || २५ ||
तस्यैतद्वचनं श्रुत्वा भक्तिमुद्वहतो हरेः |
परितोषं परं जग्मुर्मुनयः सर्व एव ते || २६ ||
सर्वे च ते मुनिश्रेष्ठा भृगुश्रेष्ठं च शौनकम् |
यथार्थं भगवंस्तस्मै कथ्यतामित्यचोदयन् || २७ ||
सर्वज्ञाननिधिः स्फीतस्त्वमत्र भृगुनन्दन |
त्रैलोक्यसर्वसंदेहतमोदीपस्तपोधन || २८ ||
एवमुक्तो मुनिवरैः प्रीत्या तस्य च भूपतेः |
भक्त्या च देवदेवस्य प्रवणीकृतमानसः || २९ ||
कृत्वोत्तरीयपर्यङ्कं शिथिलं भगवानथ |
प्रत्युवाच महाभागः शौनकस्तं महीपतिम् || ३० ||
शौनक उवाच –
यत्पृच्छसि महीपाल ! कृष्णस्याऽऽराधनं प्रति |
व्रतोपवासजप्यादि तदिहैकमनाः शृणु || ३१ ||
अनादिमत्परं ब्रह्म सर्वहेयविवर्जितम् |
व्यापि यत् सर्वभूतेषु स्थितं सदसतः परम् || ३२ ||
प्रधानपुंसोरजयोर्यतः क्षोभः प्रवर्तते |
नित्ययोर्व्यापिनोश्चैव जगदादौ महात्मनोः || ३३ ||
तत्क्षोभकत्वाद् ब्रह्माण्डसृष्टिहेतुर्निरञ्जनः |
अहेतुरपि सर्वात्मनः जायते परमेश्वरः || ३४ ||
प्रधानपुरुषत्वं च तथैवेश्वरलीलया |
समुपैति ततश्चैव ब्रह्मत्वं छन्दतः प्रभुः || ३५ ||
ततः स्थितौ पालयिता विष्णुत्वं जगतः क्षये |
रुद्रत्वं च जगन्नाथः स्वेच्छया कुरुतेऽव्ययः || ३६ ||
तदेकमक्षरं धाम परं सदसतोर्महत् |
भेदाभेदस्वरूपस्थं प्रणिपत्य परं पदम् || ३७ ||
प्रवक्ष्यामि यथा पूर्वं मत्पित्रा कथितं मम |
तस्यापि किल तत्पित्रा तस्मै चाऽऽहकिलोशनाः || ३८ ||
तेनापि भृगुमाराध्य प्राप्तमाराधनं हरेः |
सकाशाद् ब्रह्मणः प्राप्तं भृगुणाऽपि महात्मना || ३९ ||
मरीचिमिश्रैश्च पुरा परमेतन्महर्षिभिः |
प्राप्तं सकाशाद्देवस्यब्रह्मणो व्यक्तजन्मनः || ४० ||
योगं ब्रह्मा परं प्राह महर्षीणां यदा प्रभुः |
समस्तवृत्तिसंरोधात् कैवल्यप्रतिपादकम् || ४१ ||
तदा जगत्पतिर्ब्रह्मा प्रणिपत्य महर्षिभिः |
सर्वैः किलोक्तो भगवानात्मयोनिः प्रजाहितम् || ४२ ||
यो योगो भवताप्रोक्तो मनोवृत्तिनिरोधजः |
प्राप्तुं शक्यः स त्वनेकैः जन्मभिर्जगतः पते || ४३ ||
विषया दुर्जया नॄणामिन्द्रियाकर्षणाः प्रभो |
वृत्तयश्चेतसश्चापि चपलाश्चाऽतिदुर्धराः || ४४ ||
रागादयः कथं जेतुं शक्या वर्षशतैरपि |
न योगयोग्यं हि मनो भवत्येभिरनिर्जितैः || ४५ ||
अल्पायुषश्च पुरुषा ब्रह्मन् ! कृतयुगेऽप्यमी |
त्रेतायां द्वापरे चैव किमु प्राप्ते कलौ युगे || ४६ ||
भगवंस्त्वमुपायज्ञः प्रसन्नो वक्तुमर्हसि |
अनायासेन येनेममुत्तरेम भवार्णवम् || ४७ ||
दुःखाम्बुमग्नाः पुरुषाः प्राप्य ब्रह्म महाप्लवम् |
उत्तरेयुर्भवाम्भोधिं तथा त्वमनुचिन्तय || ४८ ||
एवमुक्तस्तदा ब्रह्मा क्रियायोगं महात्मनाम् |
तेषामृषीणामाचष्टे नराणां हितकाम्यया || ४९ ||
ब्रह्मो उवाच–
आराधयत विश्वेशम् नारायणमतन्द्रिताः |
बाह्यालम्बनसापेक्षास्तमजं जगतः पतिम् || ५० ||
इज्यापूजानमस्कारैः शुश्रूषाभिरहर्निशम् |
व्रतोपवासैर्विविधैर्ब्राह्मणानां च तर्पणैः || ५१ ||
तैस्तैश्चाभिमतैः कामैर्ये च चेतसि तुष्टिदाः |
अपरिच्छेद्यमाहात्म्यमाराधयत केशवम् || ५२ ||
तन्निष्ठास्तद्गतधियस्तत्कर्माणस्तदाश्रयाः |
तद्दृष्टयस्तन्मनसः सर्वस्मिन् स इति स्थिताः || ५३ ||
समस्तान्यथ कर्माणि तत्र सर्वात्मनाऽऽत्मनि |
संन्यस्यध्वं स वः कर्ता समस्तावरणक्षयम् || ५४ ||
एतत्तदक्षरं ब्रह्म प्रधानपुरुषावुभौ |
यतो यस्मिन् यथा चोभौ सर्वव्यापिन्यवस्थितौ || ५५ ||
परः पराणां परमः स एकः पुरुषोत्तमः |
यस्याभिन्नमिदं सर्वम् यच्चेङ्गं यच्च नेङ्गति || ५६ ||
तमाराध्य जगन्नाथं मोक्षकारणमव्यक्तम् |
अचिन्त्यमपरिग्रहम् क्रियायोगेन मुच्यते || ५७ ||
इति ते ब्रह्मणः श्रुत्वा रहस्यमृषिसत्तमाः |
नराणामुपकाराय योगशास्त्राणि चक्रिरे || ५८ ||
क्रियायोगपराणीह मुक्तिकार्याण्यनेकशः |
आराध्यते जगन्नाथो यदनुष्ठानतत्परैः || ५९ ||
तानि ते नृपशार्दूल सर्वपापहराम्यहम् |
वक्ष्यामि श्रूयतामन्यद् रहस्यमिदमुत्तमम् || ६० ||
संसारार्णवमग्नानां विषयाक्रान्तचेतसाम् |
(उत्तारमिच्छतां तस्माद्भृशं यन्नान्तरैरपि |)
विष्णुपोतं विना नान्यत् किंचिदस्ति परायणम् || ६१ ||
उत्तिष्ठंश्चिन्तय हरिं व्रजंश्चिन्तय केशवम् |
भुञ्जंश्चिन्तय गोविन्दम् स्वपंश्चिन्तय माधवम् || ६२ ||
एवमेकाग्रचित्तस्त्वं संश्रितो मधुसूदनम् |
जन्ममृत्युजराग्राहं संसाराम्भस्तरिष्यसि || ६३ ||
अनन्तमीड्यं पुरुषं पुराणं जगद्विधातारमजं जनित्र्यम् |
समाश्रिता ये हरिमीशितारं तेषां भवो नास्ति हि मुक्तिभाजाम् || ६४ ||
इति विष्णुधर्मे क्रियायोग प्रवृत्तिर्नाम प्रथमोऽध्यायः
द्वितीयोऽध्यायः
अच्युताम्बरीषसंवादः
शौनक उवाच –
श्रूयतां कुरुशार्दूल संवादोऽयमनुत्तमः |
अम्बरीषस्य राजर्षेः सह देवेन चक्रिणा || १ ||
अम्बरीषो महीपालः पालयन्नेव मेदिनीम् |
उद्विग्न एव द्वन्द्वान्तमभीप्सुः पुरुषर्षभः || २ ||
देवदेवात् स गोविन्दादभीप्सुर्द्वन्द्वसंक्षयम् |
तपस्तेपे निराहारो गृणन् ब्रह्म सनातनम् || ३ ||
तस्य कालेन महता भक्तिमुद्वहतः पराम् |
तुतोष भगवान् विष्णुः सर्वलोकपतिः प्रभुः || ४ ||
स रूपमैन्द्रमास्थाय तमुवाच महीपतिम् |
मेघगम्भीरनिर्घोषो वारणेन्द्रगतिस्तदा || ५ ||
देवदेव उवाच –
राजर्षे ! वद यत्कार्यं तव चेतस्यवस्थितम् |
वरदोऽहमनुप्राप्तो वरं वरय सुव्रत || ६ ||
एवमुक्तस्ततो राजा विलोक्य च पुरंदरं |
प्रत्युवाचार्घ्यमुद्यम्य स्वागतं तेऽस्त्विति प्रभो || ७ ||
नाहमाराधयामि त्वां तव बद्धोऽयमञ्जलिः |
वरार्थिनां त्वं वरदः प्रयच्छाभिमतान् वरान् || ८ ||
(देवदेव उवाच -)
वरार्थाय त्वयाऽन्यैश्च क्रियते नृपते तपः |
स किमर्थं त्वमस्मत्तो न गृह्णास्यभिवांछितम् || ९ ||
राजोवाच –
न वरार्थमयं यत्नस्त्वत्तो देवपते मम |
विष्णोराराधनार्थाय विद्धि मां त्वं कृतोद्यमम् || १० ||
इन्द्रः उवाच –
अहं हि सर्वदेवानां त्रैलोक्यस्य तथेश्वरः |
पालयन्ति ममैवाज्ञामादित्याद्याः सदा सुराः || १ ||
आदित्या वसवो रुद्रा नासत्यौ मरुतां गणाः |
प्रजानां पतयः साध्या विश्वेदेवा महर्षयः || १२ ||
कुर्वन्त्येते ममैवाज्ञां सिद्धगन्धर्वपन्नगाः |
मत्तो हि कोऽन्यो वरदः प्रतिगृह्णीष्व वाञ्छितम् || १३ ||
राजोवाच –
त्वमिन्द्रः सत्यमेवैतद्देवस्त्रिभुवनेश्वरः |
त्वयाऽपि प्राप्तमैश्वर्यं यतस्तं तोषयाम्यहम् || १४ ||
त्रैलोक्यं तव देवेश ! वशे यस्य महात्मनः |
सप्तोदरे शया लोकास्तमीशं तोषयाम्यहम् || १५ ||
यस्य त्वममरैः सर्वैः समवेतैः सुरेश्वर |
देहप्राप्तोऽन्तरस्थो वै तं नमामि जनार्दनम् || १६ ||
निमेषो ब्रह्मणो रात्रिरुन्मेषो यस्य वासरः |
तमीड्यमीशमजरं प्रणतोऽस्मि जनार्दनम् || १७ ||
यो हर्ता जगतो देवः कर्ता पालयिता च यः |
त्रयस्यास्य च यो योनिस्तं विष्णुं तोषयाम्यहम् || १८ ||
हिरण्यकशिपुः पूर्वं हिरण्याक्षश्च ते रिपुः |
तवानुकम्पया येन हतौ दैत्यौ नतोऽस्मि तम् || १९ ||
बलिनाऽपहृतं शक्र दत्तं येन पुरा तव |
त्रैलोक्यराज्यं तं बद्ध्वा तं नमामि जनार्दनम् || २० ||
प्रसीद शक्र गच्छत्वमहमप्यत्र संस्थितः |
तपस्तप्स्ये जगन्नाथं द्रष्टुं नारायणं हरिम् || २१ ||
शौनक उवाच –
एवमुक्तस्ततस्तेन शक्ररूपी जनार्दनः |
पुनरप्याह तं कोपात् पार्थिवं तपसि स्थितम् || २२ ||
इन्द्रः –
यदि मद्वचनादद्य न भवांस्त्यक्ष्यते तपः |
वज्रं ते प्रहरिष्यामि बुध्यस्वैतद्यदीच्छसि || २३ ||
राजोवाच –
नाप्यल्पमपराधं ते करोमि त्रिदशेश्वर |
तथापि वधयोग्यं मां मन्यसे चेत् क्षिपायुधम् || २४ ||
श्रूयते किल गोविन्दे भक्तिमुद्वहतां नृणाम् |
संसारार्णावभीतानां त्रिदशाः परिपन्थिनः || २५ ||
तापसोऽहं क्व निस्सङ्गः क्व च कोपस् तवेदृशः |
विज्ञातमेतद् गोविन्द भक्तिविघ्नोपपादितम् || २६ ||
भवन्ति बहवो विघ्ना नरे श्रेयःपरायणे |
गोविन्दभक्त्यभ्यधिकं श्रेयश्चान्यन्न विद्यते || २७ ||
स त्वं प्रहर वा मा वा मयि वज्रं पुरंदर |
नाहमुत्सृज्य गोविन्दमन्यमाराधयामि भोः || २८ ||
न चापि वज्रं वज्री वा त्वं च नान्ये सुरासुराः |
शक्ता निहन्तुमीशाने हृदयस्थे जनार्दने || २९ ||
किं च नो बहुनोक्तेन नाहं वक्ष्याम्यतः परं |
यथेप्सितं कुरुष्व त्वं करिष्येऽहमभीप्सितम् || ३० ||
शौनक उवाच –
एवमुक्त्वा सुरपतिं पार्थिवः स पुनस्तपः |
चचार मौनमास्थाय तेनाऽतुष्यत केशवः || ३१ ||
संदर्शयामास ततः स्वं वपुः कैटभार्दनः |
चतुर्भुजमुदाराङ्गं शङ्खचक्रगदाधरम् || ३२ ||
किरीटस्रग्धरं स्पष्टं नीलोत्पलदलच्छविम् |
ऐरावतश्च गरुडस्तत्क्षणात् समदृश्यत || ३३ ||
स च राजवरो देवं पीतवाससमच्युतम् |
विलोक्य भक्तिशिरसा सहसैव महीं ययौ || ३४ ||
प्रत्युवाच च भूपालः प्रणिपत्य कृताञ्जलिः |
रोमाञ्चिततनुः स्तोत्रम् पद्मनाभं ततोऽस्तुवत् || ३५ ||
राजोवाच –
आदिदेव ! जयाजेय ! जय ! सर्गादिकारक |
जयास्पष्टप्रकाशाण्ड बृहन्मूर्ते जयाक्षर || ३६ ||
जय सर्वगताचिन्त्य जय जन्मजरापह |
जय व्यापिञ्जयाभेद सर्वभूतेष्ववस्थित || ३७ ||
जय यज्ञपते नाथ हव्यकव्याशनाव्यय |
जय विज्ञातसिद्धान्त मायामोहक केशव || ३८ ||
लोकस्थित्यर्थमनघ वराह जय भूधर |
नृसिंह जय देवारिवक्षः स्थलविदारण || ३९ ||
देवानामरिभीतानामार्तिनाशन वामन |
जय क्रान्तसमस्तोर्वीनभः स्वर्लोकभावन || ४० ||
जितं ते जगतामीश ! जितं ते सर्व सर्वद |
जितं ते सर्वभूतेश योगिध्येय नमोऽस्तु ते || ४१ ||
नमोऽस्त्वव्यपदेश्याय नमः सूक्ष्मस्वरूपिणे |
नमस्त्रिमूर्तये तुभ्यं विश्वमूर्ते नमोऽस्तु ते || ४२ ||
ब्रह्माद्यैश्चिन्त्यते रूपं यत्तत्सदसतः परं |
विशेषैरविशेष्याय तस्मै तुभ्यं नमो नमः || ४३ ||
पुरुषाख्यं ततो रूपं निर्गुणं गुणभोक्तृ च |
प्रकृतेः परतः सूक्ष्मं तन्नमस्यामि ते हरे || ४४ ||
अव्यक्तादिविशेषान्तमतिसूक्ष्मतमं महत् |
प्राकृतं तव तद्रूपं तस्मै देव नमाम्यहम् || ४५ ||
रूपैर्नानाविधैर्यश्च तद्रूपान्तरगोचरम् |
लीलया व्यवहारस्ते तस्मै देवात्मने नमः || ४६ ||
प्रसीद विष्णो गोविन्द शङ्खचक्रगदाधर |
धराधरारविन्दाक्ष वासुदेव महेश्वर || ४७ ||
शौनक उवाच –
इत्थं स्तुतो जगन्नाथः प्रोक्तवानिति केशवः |
अम्बरीषं पृथिवीशं जगत् संनादयन् गिरा || ४८ ||
श्री भगवान् उवाच –
अम्बरीष प्रसन्नोऽस्मि भक्त्या स्तोत्रेण चानघ |
वरं वृणीष्व धर्मज्ञ यत्ते मनसि वर्तते || ४९ ||
राजोवाच –
एष एव वरः श्लाघ्यो यद्दृष्टोऽसि जगत्पते |
त्वद्दर्शनमपुण्यानां स्वप्नेष्वपि हि दुर्लभम् || ५० ||
बाल्यात्प्रभृति या देव त्वयि भक्तिर्ममाच्युत |
वेत्ति तां च भगवानेव हृदिस्थः सर्वदेहिनाम् || ५१ ||
त्वत्प्रसादान्ममेशान राज्यमव्याहतं भुवि |
कोशदण्डौ तथातीव शरीरारोग्यमुत्तमम् || ५२ ||
स्त्रियोऽन्नपानसामर्थ्या हानिः स्वल्पापि नास्ति मे |
बलं नागसहस्रस्य धारयाम्यरिसूदन || ५३ ||
संततिर्निभृता भृत्या सानुरागाश्च मे जनाः |
धर्महानिश्च देवेश न हि मे पालने भुवः || ५४ ||
यद्यदिच्छाम्यहं तत्तत् सर्वमस्ति जगत्पते |
एतेनैवानुमानेन प्रसन्नो भगवानिति || ५५ ||
ज्ञातं मया हि गोविन्दे नाप्रसन्ने विभूतयः |
एवं सर्वसुखाह्लादमध्यस्थोऽपि च केशव || ५६ ||
पुनरावृत्तिदुःखानां त्रासादुद्विग्नमानसः |
मयि प्रसादाभिमुखं मनस्ते यदि केशव |
तन्मामगाधे संसारे मग्नमुद्धर्तुमर्हसि || ५७ ||
सुखानि तानि नैवान्ते येषां दुःखं न तत्सुखम् |
यदन्ते दुःखमागामि किंपाकस्यैव भक्षणम् || ५८ ||
स प्रसादं कुरु गुरो जगताम् त्वं जनार्दन |
ज्ञानदानेन येनेमां वागुरान्निस्तरेमहि || ५९ ||
शौनक उवाच –
इत्युक्तस्तस्य गोविन्दः कथयामास योगवित् |
योगं निर्बीजमत्यन्तदुःखसंयोगभेषजम् || ६० ||
उपदिष्टे ततो योगे प्रणिपत्याच्युतं नृपः |
पुनः प्राह महाबाहुर्विनयावनतः स्थितः || ६१ ||
राजोवाच –
देवदेव त्वया योगो यः प्रोक्तो मधुसूदन |
नैष प्राप्यो मया नान्यैर्मानवैरजितेन्द्रियैः || ६२ ||
विषया दुर्जयाः पुंभिरिन्द्रियाकर्षिणः सदा |
इन्द्रियाणां जयं तेषु कः शक्तानां करिष्यति || ६३ ||
अहं ममेति चाख्याति दुर्जयं चञ्चलं मनः |
रागादयः कथं जेतुं शक्या जन्मान्तरैरपि || ६४ ||
सोऽहमिच्छामि देवेश त्वत्प्रसादादनिर्जितैः |
रागादिभिर
मर्त्यत्वं प्राप्तुं प्रक्षीणकल्मषः || ६५ ||
श्री भगवान् उवाच –
यद्येवं मुक्तिकामस्त्वं नरनाथ शृणुष्व तत् |
क्रियायोगं समस्तानां क्लेशानां हानिकारणम् || ६६ ||
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु |
माम् एवैष्यसि युक्त्वैवमात्मानं मत्परायणः || ६७ ||
मद्भावना मद्यजना मद्भक्ता मत्परायणाः |
मम पूजापराश्चैव मयि यान्ति लयं नराः || ६८ ||
सर्वभूतेषु मां पश्य समवस्थितमीश्वरम् |
कर्तासि केन वैरत्वं एवं दोषान् प्रहास्यसि || ६९ ||
जङ्गमाजङ्गमे ज्ञाते मय्यात्मनि तथा तव |
रागलोभादिनाशेन भवित्री कृतकृत्यता || ७० ||
भक्त्याऽतिप्रवणस्यापि चञ्चलत्वान्मनो यदि |
मय्यनासादवद्भूप कुरु मद्रूपिणीं तनुम् || ७१ ||
सुवर्णरजताद्यैस्त्वं शैलमृद्दारु लेखजाम् |
पूजामहर्हैर्विविधैः संपूजय च पार्थिव || ७२ ||
तस्यां चित्तं समावेश्य त्याजयान्यान् व्यपाश्रयान् |
पूजिता सैव ते भक्त्या ध्याता चैवोपकारिणी || ७३ ||
गच्छंस्तिष्ठन् स्वपन् भुञ्जंस्तामेवाग्रे च पृष्ठतः |
उपर्यधस्तथा पार्श्वे चिन्तयान्तस्तथाऽऽत्मनः || ७४ ||
स्नानैस्तीर्थोदकैर्हृद्यैः पुष्पगन्धानुलेपनैः |
वासोभिर्भूषणैर्भक्ष्यैर्गीतवाद्यैर्मनोहरैः || ७५ ||
यच्च यच्च नृपेष्टं ते किंचिद्भोज्यादि तेन ताम् |
चन्दना गुरु धूपै श्च किञ्चित् भोज्यादिनाथवा |
भक्तिनम्रो नरश्रेष्ठ प्रीणयार्चां कृतां मम || ७६ ||
रागेणाकृष्यते ते गन्धर्वाभिमुखं यदि |
मयि बुद्धिं समावेश्य गायेथा मम तां कथाम् || ७७ ||
कथायां रमते चेतो यदि तत्भावना मम |
श्रोतव्या प्रीतियुक्तेन अवतारेषु या कथा || ७८ ||
एवं मय्यर्पितमनाश्चेतसो ये व्यपाश्रयाः|
हेयांस्तानखिलान् भूप परित्यज्य सुखीभव || ७९ ||
अक्षीणरागदोषोऽपि मत्क्रिया परमः परम् |
पदमाप्स्यसि मा भैस्त्वं मय्यर्पितमना भव || ८० ||
मयि संन्यस्य सर्वं त्वमात्मानं यत्तवास्ति च |
मदर्थं कुरु कर्माणि मा च धर्मव्यतिक्रमम् || ८१ ||
राज्यं कुरु नरश्रेष्ठ निवेद्य पृथिवीं मम |
तद्व्याघातपरा ये च जहि तानवनीपते || ८२ ||
एतेनैवोपदेशेन व्याख्यातमखिलं तव |
क्रियायोगं समास्थाय मय्यर्पितमना भव || ८३ ||
राजोवाच –
मद्धिताय जगन्नाथ ! क्रियायोगाश्रितं मम |
विस्तरेणेदमाख्याहि प्रसन्नस्त्वं हि दुःखहा || ८४ ||
त्वामृतेन हि नो वक्तुं समर्थोऽन्यो जगद्गुरो |
गुह्यमेतत् पवित्रं च तदाचक्ष्य प्रसीद मे || ८५ ||
श्री भगवान् उवाच –
आख्यास्यत्येतदखिलं वसिष्ठस्ते पुरोहितः |
मत्प्रसादादविकलं स च वेत्स्यत्यशेषतः || ८६ ||
शौनकः –
इत्युक्त्वान्तर्दधे देवः सर्वलोकेश्वरो हरिः |
स च राजा वनाद्भूयो निजमभ्यागमत् पुरम् || ८७ ||
इति विष्णुधर्मे अच्युताम्बरीषसंवादोनाम द्वितीयोऽध्यायः
तृतीयोऽध्यायः
शुक्रप्रह्लादसंवादः
शौनक उवाच –
राज्यस्थस्तु महीपालः प्रणिपत्य पुरोहितम् |
वसिष्ठं परिपप्रच्छ विष्णोराराधनं प्रति || १ ||
देवदेवेन भगवन्नादिष्टोऽस्मि महात्मना |
क्रियायोगाश्रितं सर्वं व्याख्यास्यति भवान् किल || २ ||
स त्वां पृच्छाम्यहं सर्वं क्रियायोगेन केशवम् |
संतोषयितुमीशानं यथा शक्ष्यामि तद्वद || ३ ||
देवप्रसादादखिला ममापि स्मृतिरागता |
ज्ञानमेतदशेषं ते कथयामि निबोध तत् || ४ ||
भक्तिमान् अभवद्दैत्यो हिरण्यकशिपोः सुतः |
नारायणे महाप्रज्ञः सर्वलोकपरायणे |
स पप्रच्छ भृगुश्रेष्ठं शुक्रमात्मपुरोहितम् || ५ ||
प्रह्लाद उवाच –
भगवन्नृसिंहरूपस्य विष्णोस्तातं निघांसतः |
दृष्टं देहे मया सर्वं त्रैलोक्यं भूर्भुवादिकम् || ६ ||
ब्रह्मा प्रजापतिश्चेन्द्रो रुद्रैः पशुपतिः तदा |
वसवोऽष्टौ तथादित्या द्वादशाहः क्षमा मही || ७ ||
दिशो नभस्तारकौघं नक्षत्रग्रहसंकुलम् |
अश्विनौ मरुतः साध्या विश्वेदेवास्तथर्षयः || ८ ||
वर्षाचलास्तथा नद्यः सप्त सप्त कुलाचलाः |
समुद्राः सप्त ऋतवः कान्ताराणि वनानि च |
नगरग्रामतरुभिः समवेतं च भूतलम् || ९ ||
एतच्चान्यच्च यत्किंचिद्देवर्षिपितृमानवम् |
सतिर्यगूर्ध्वपातालं तस्य दृष्टं तनौ मया || १० ||
सोऽहं तममरं देवं दुष्टदैत्यनिबर्हणम् |
आराधयितुमिच्छामि भगवंस्त्वदनुज्ञया || ११ ||
अनुग्राह्योऽस्मि यदि ते ममायं भक्तिमानिति |
तन्ममोपदिशाद्य त्वं महदाराधनं हरेः || १२ ||
शुक्र उवाच –
अनुग्राह्योऽसि देवस्य नूनमव्यक्तजन्मनः |
आराधनाय दैत्येन्द्र यत्ते तत्प्रवणं मनः || १३ ||
यदि देवपतिं विष्णुमाराधयितुमिच्छसि |
भगवन्तमनाद्यन्तं भव भागवतोऽसुर || १४ ||
न ह्यभागवतैर्विष्णुर्ज्ञातुं स्तोतुं च तत्त्वतः |
द्रष्टुं वा शक्यते मर्त्यैः प्रवेष्टुं कुत एव हि || १५ ||
जन्मभिर्बहुभिः पूता नरास्तद्गतचेतसः |
भवन्ति वै भागवतास्ते विष्णुं प्रविशन्ति च || १६ ||
अनेकजन्मसंसारचिते पापसमुच्चये |
नाक्षीणे जायते पुंसां गोविन्दाभिमुखी मतिः || १७ ||
प्रद्वेषं याति गोविन्दे द्विजान् वेदांश्च निन्दति |
यो नरस्तं विजानीयादसुरांशसमुद्भवम् || १८ ||
पाषण्डेषु रतिः पुंसां हेतुवादानुकूलता |
जायते विष्णुमायाम्भः पतितानां दुरात्मनाम् || १९ ||
यदा पापक्षयः पुंसां तदा देवद्विजातिषु |
विष्णौ च यज्ञपुरुषे श्रद्धा भवति ते यथा || २० ||
यदा स्वल्पावशेषस्तु नराणां पापसंचयः |
भवन्ति ते भागवतास्तदा दैत्यपते नराः || २१ ||
भ्राम्यतामत्र संसारे नराणां कर्मदुर्गमे |
हस्तावलम्बदो ह्येको भक्तिप्रीतो जनार्दनः || २२ ||
स त्वं भागवतो भूत्वा सर्वपापहरं हरिम् |
आराधय परं भक्त्या प्रीतिमेष्यति केशवः || २३ ||
प्रह्लाद उवाच –
किंलक्षणा भागवता भवन्ति पुरुषा गुरो |
यच्च भागवतैः कार्यं तन्मे कथय भार्गव || २४ ||
शुक्र उवाच –
कर्मणा मनसा वाचा प्राणिनां यो न हिंसकः |
भावभक्तश्च गोविन्दे दैत्य भागवतो हि सः || २५ ||
यो ब्राह्मणांश्च देवांश्च नित्यमेवानुमंस्यति |
न च द्रोग्धा परं वादे दैत्य भागवतो हि सः || २६ ||
सर्वान् देवान् हरिं वेत्ति सर्वलोकांश्च केशवम् |
तेभ्यश्च नान्यमात्मानं दैत्य भागवतो हि सः || २७ ||
देवं मनुष्यमन्यं वा पशुपक्षिपिपीलिकाः |
तरुपाषाणकष्ठादि भूम्यम्भोगगनं दिशः || २८ ||
आत्मानं वापि देवेशान्नातिरिक्तं जनार्दनात् |
यो भजेत विजानीष्व तं वै भागवतं नरम् || २९ ||
सर्वं भगवतो भावो यद्भूतं भवसंस्थितम् |
इति यो वै विजानाति स तु भागवतो नरः || ३० ||
भवभीतिं हरत्येषः भक्तिभावेन भावितः |
भगवानिति भावो यः स तु भागवतो नरः || ३१ ||
भावं न कुरुते यस्तु सर्वभूतेषु पापकम् |
कर्मणा मनसा वाचा स तु भागवतो नरः || ३२ ||
बाह्यार्थनिरपेक्षो यो भक्तो भगवतः क्रियाम् |
भावेन निष्पादयति ज्ञेयो भागवतस्तु सः || ३३ ||
नारयो यस्य न स्निग्धा न चोदासीनवृत्तयः |
पश्यतः सर्वमेवेदं विष्णुं भागवतो हि सः || ३४ ||
सुतप्तेनेह तपसा यज्ञैर्वा बहुदक्षिणैः |
तां गतिं न नरा यान्ति यां वै भागवता नराः || ३५ ||
योगच्युतैर्भागवतैर्देवराजः शतक्रतुः |
अर्वाङ्निरीक्ष्यते यज्ञी किमु ये योगपारगाः || ३६ ||
यज्ञनिष्पत्तये वेदो यज्ञो यज्ञपतेः कृते |
तत्तोषणाय भावेन तस्माद्भागवतो भव || ३७ ||
येन सर्वात्मना विष्णौ भक्त्या भावो निवेशितः |
दैत्येश्वर कृतार्थत्वात् श्लाघ्यो भागवतो हि सः || ३८ ||
अपि नः स कुले धन्यो जायते कुलपावनः |
भगवान् भक्तिभावेन येन विष्णुरुपासितः || ३९ ||
यः कारयति देवार्चां हृदयालम्बनं हरेः |
स नरो विष्णुसालोक्यमुपैति धूतकल्मषः || ४० ||
यश्च देवालयं भक्त्या विष्णोः कारयति स्वयम् |
स सप्तपुरुषांलोकान् विष्णोर्नयति मानवः || ४१ ||
यावन्त्यब्दानि देवार्चा हरेस्तिष्ठति मन्दिरे |
तावद्वर्षसहस्राणि विष्णुलोके स मोदते || ४२ ||
देवार्चा लक्षणोपेता तद्गृहं सततं दिवि |
निष्कामं च मनो यस्य स यात्यक्षरमात्मनाम् || ४३ ||
पुष्पाण्यतिसुगन्धीनि मनोज्ञानि च यः पुमान् |
प्रयच्छति हृषीकेशे तद्भावगतमानसः || ४४ ||
धूपांश्च विविधांस्तांस्तान्गन्धाढ्यं चानुलेपनम् |
दीपावल्युपहारांश्च यच्चाभीष्टमथात्मनः || ४५ ||
नरः सोऽनुदिनं यज्ञं करोत्याराधनं हरेः |
यज्ञेशो भगवान् विष्णुर्मखैरपि हि तोष्यते || ४६ ||
बहूपकरणा यज्ञा नानासंभारविस्तराः |
प्राप्यन्ते ते धनयुतैर्मनुष्यैर्नाल्पसंचयैः || ४७ ||
भक्त्या च पुरुषैः पूजा कृता दूर्वाङ्कुरैरपि |
हरेर्ददाति हि फलं सर्वयज्ञैः सुदुर्लभम् || ४८ ||
यानि पुष्पाणि हृद्यानि धूपगन्धानुलेपनम् |
दयितं भूषणं यच्च ये च कौशेयवाससी || ४९ ||
यानि चाभ्यवहाराणि भक्ष्याणि च फलानि च |
प्रयच्छतानि गोविन्दे भवेथाश्चैव तन्मनाः || ५० ||
आद्यन्तं यज्ञपुरुषं यथाशक्ति प्रसादय |
आराध्य याति तं देवं तस्मिन्नेव नरो लयम् || ५१ ||
पुण्यैस्तीर्थोदकैर्गन्धैर्मधुना सर्पिषा तथा |
क्षीरेण स्नापयेदीशमच्युतं जगतः पतिम् || ५२ ||
दधिक्षीरह्रदान् पुण्यांस्ततो लोकान् मधुच्युतः |
प्रयास्यस्यसुरश्रेष्ठ निर्वृतिं चापि शाश्वतीम् || ५३ ||
स्तोत्रैर्गीतैस्तथा वाद्यैर्ब्राह्मणानां च तर्पणैः |
मनसश्चैकतायोगादाराधय न केशवम् || ५४ ||
आराध्य तं विदेहानां पुरुषाः सप्तसप्ततिः |
हैहयाः पञ्चपञ्चाशदमृतत्वमुपागताः || ५५ ||
स त्वमेभिः प्रकारैस्तमुपवासैश्च केशवम् |
तोषयाद्यो हि तुष्टोऽसौ विष्णुर्द्वन्द्वप्रशान्तिदः || ५६ ||
इति विष्णुधर्मे शुक्रप्रह्लादसंवादो नाम तृतीयोऽध्यायः
चतुर्थॊऽध्यायः
सुगतिद्वादशी
प्रह्लाद उवाच –
उपवासैर् हृषीकेशः कथं तुष्यति भार्गव |
परिहारांस्तथाऽऽचक्ष्व ये त्याज्याश्चोपवासिनाम् || १ ||
यद्यत्कार्यं यथा चैव केशवाराधने नरैः |
तत्सर्वं विस्तराद्ब्रह्मन् यथावद्वक्तुम् अर्हसि || २ ||
शुक्र उवाच –
स्मृतः संपूजितो धूपपुष्पाद्यैर्दयितैर्हरिः |
भोगिनामुपकाराय किं पुनश्चोपवासिनाम् || ३ ||
उपावृत्तस्तु पापेभ्यो यस्तु वासो गुणैः सह |
उपवासः स विज्ञेयः सर्वभोगविवर्जितः || ४ ||
एकरात्रं द्विरात्रं वा त्रिरात्रमथवा परम् |
उपवासी हरिं यस्तु भक्त्या ध्यायति मानवः || ५ ||
तन्नामजपतत्कर्मरतिस्तद्गतमानसः |
निष्कामो दैत्य स ब्रह्म परमाप्नोत्यसंशयम् || ६ ||
यं च काममभिध्यायन् केशवार्पितमानसः |
उपोष्य तम् समाप्नोति प्रसन्ने गरुडध्वजे || ७ ||
कथ्यते च पुरा विप्रः पुलस्त्यो ब्रह्मवादिना |
दाल्भ्येन पृष्टोऽकथयद् यथैतदरिसूदन || ८ ||
दाल्भ्य उवाच –
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैः स्त्रीभिस्तथा मुने |
संसारगर्तपङ्कस्थैः सुगतिः प्राप्यते कथम् || ९ ||
पुलस्त्य उवाच –
अनाराध्य जगन्नाथं सर्वधातारमच्युतम् |
निर्व्यलीकेन चित्तेन कः प्रयास्यति सद्गतिम् || १० ||
विषयग्राहि वै यस्य न चित्तं केशवार्पितम् |
स कथं पापपङ्काङ्की नरो यास्यति सद्गतिम् || ११ ||
यदि संसारदुःखार्तः सुगतिं गन्तुमिच्छसि |
तदाराधय सर्वेशं जगद्धातारमच्युतम् || १२ ||
पुष्पैः सुगन्धैर्हृद्यैश्च धूपैः सागरुचन्दनैः |
वासोभिर्भूषणैर्भक्ष्यैरुपवासपरायणः || १३ ||
यदि संसारनिर्वेदादभिवाञ्छसि सद्गतिम् |
तदाराधय गोविन्दं यच्चेष्टं तव चेतसः || १४ ||
पुष्पाणि यदि ते न स्युः शस्तं पादपपल्लवैः |
दूर्वाङ्कुरैरपि ब्रह्मंस्तदभावेऽर्चयाच्युतम् || १५ ||
सुगन्धिपुष्पदीपाद्यैर्यः कुर्यात् केशवालये |
सर्वतीर्थफलं तस्य संभवेत्केशवार्चया ||
सबाह्याभ्यन्तरं यस्तु मार्जयेदच्युतालयम् |
सबाह्याभ्यन्तरं तस्य कायो निष्कल्मषो भवेत् ||
पुष्पपत्राम्बुभिर्धूपैर्यथाविभवमच्युतः |
पूजितस्तुष्टिमतुलां भक्त्याऽऽयात् एकचेतसाम् || १६ ||
यः सदाऽऽयतने विष्णोः कुरुते मार्जनक्रियाम् |
स पांसुभूमेर्देहाच्च सर्वपापं व्यपोहति || १७ ||
यावन्त्यः पांसुकणिका मार्ज्यन्ते केशवालये |
दिनानि दिवि तावन्ति तिष्ठत्यस्तमलो नरः || १८ ||
अहन्यहनि यत्पापं कुरुते द्विजसत्तम |
गोचर्ममात्रं संमार्ज्य हन्ति तत् केशवालये || १९ ||
यश्चोपलेपनं कुर्याद्विष्णोरायतने नरः |
सोऽपि लोकं समासाद्य मोदते च शतक्रतोः || २० ||
मृदा धातुविकारैर्वा वर्णकैर्गोमयेन वा |
उपलेपनकृद् याति विमानं मणिचित्रितम् || २१ ||
उदकाभ्युक्षणं विष्णोर्यः करोति सदा गृहे |
सोऽपि गच्छति यत्रास्ते भगवान् यादसां पतिः || २२ ||
पुष्पप्रकरमत्यर्थं सुगन्धं केशवालये |
उपलिप्ते नरो दत्त्वा न दुर्गतिमवाप्नुयात् || २३ ||
विमानमतिविद्योति सर्वरत्नमयं दिवि |
समाप्नोति नरो दत्त्वा दीपकं केशवालये || २४ ||
गन्धैः धूपैः स्रजैः भक्षैः क्षीरैः वस्त्र वरैरापि |
सुसंपूज्याच्युतम् भक्त्या विष्णुलोके महीयते ||
यस्तु संवत्सरं पूर्णं तिलपात्रप्रदो नरः |
ध्वजं तु विष्णवे दद्यात् सममेतत् फलं द्विज ! || २५ ||
विधुन्वन् हन्ति वातेन दातुरज्ञानतः कृतम् |
पापं केतुर्गृहे विष्णोर्दिवारात्रमसंशयम् || २६ ||
गीतवाद्यादिभिर्देवं य उपास्ते जनार्दनम् |
गान्धर्वैर्गीतनृत्यैः स विमानस्थो निषेव्यते || २७ ||
जातिस्मरत्वं मेधां च तथैवोपरमे स्मृतिम् |
प्राप्नोति विष्ण्वायतने पुण्याख्यानकथाकरः || २८ ||
उपोषितः पूजितो वा दृष्टो वा नमितोऽपि वा |
प्रदम्भ हरते पापं को न सेवेद्धरिं ततः || २९ ||
वेदवादक्रियायज्ञस्नानतीर्थफलं परम् |
अष्टाङ्गप्रणिपातेन प्रणिपत्य हरिं लभेत् || ३० ||
प्रणम्य कृष्णम् सहसा पादपद्मे महीतले |
निष्कल्मषो भवेत् सद्यो ललाटे पाण्डुपांसुना || ३१ ||
एकस्य कृष्णस्य कृतः प्रणामो दशाश्वमेधावभृथेन तुल्यः |
दशाश्वमेधैः पुनर् एति जन्म कृष्णप्रणामी न पुनर्भवाय || ३२ ||
एवं देवेश्वरो भक्त्या येन विष्णुरुपासितः |
(त्वया नित्यं भक्तिः कार्या त्वनन्यभाक्)
स प्राप्नोति गतिं श्लाघ्यां यां यामिच्छति चेतसा || ३३ ||
देवत्वं मनुजैः कैश्चिद्गन्धर्वत्वं तथाऽपरैः |
विद्याधरत्वमपरैराराध्याप्तं जनार्दनम् || ३४ ||
शक्रः क्रतुशतेनेशमाराध्य गरुडध्वजम् |
देवेन्द्रत्वं गतस्तस्मान्नान्यः पूज्यतमः क्वचित् || ३५ ||
देवेभ्योऽपि हि पूज्यस्तु स्वगुरुर्ब्रह्मचारिणः |
तस्यापि यज्ञपुरुषो विष्णुः पूज्यो द्विजोत्तम || ३६ ||
स्त्रियश्च भर्तारमृते पूज्यमन्यन्न दैवतम् |
स्वम् च भर्तारम् ऋते पूज्यम् न दैवतम् |
भर्तुर्गृहस्थस्य सतः पूज्यो यज्ञपतिर्हरिः || ३७ ||
वैखानसानामाराध्यस्तपोभिर्मधुसूदनः |
ध्येयः परिव्राजकानां वासुदेवो महात्मनाम् || ३८ ||
एवं सर्वाश्रमाणां हि वासुदेवः परायणम् |
सर्वेषां चैव वर्णानां तमाराध्याप्नुयाद्गतिम् || ३९ ||
शृणुष्व गदतः काम्यान् उपवासांस्तथापरान् |
तम् तमाश्रित्य यान् कामान् कुर्वीतेप्सितमात्मनः || ४० ||
एकादश्यां शुक्लपक्षे फाल्गुने मासि यो नरः |
जपेत् कृष्णेति देवस्य नाम भक्त्या पुनःपुनः || ४१ ||
देवार्चने चाष्टशतं कृत्वैतत्तु जपेच्छुचिः |
प्रातः प्रस्थानकाले च उत्थाने स्खलिते क्षुते || ४२ ||
पाषण्डपतितांश्चैव तथैवान्त्यावसायिनः |
नालपेत तथा कृष्णमर्चयेच्छ्रद्धयाऽन्वितः |
इदं चोदाहरेत् कृष्णे मनः संधाय तत्परः || ४३ ||
कृष्ण कृष्ण कृपालुस्त्वमगतीनां गतिर्भव |
संसारान्तर्निमग्नानां प्रसीद मधुसूदन || ४४ ||
एवं प्रसाद्योपवासं कृत्वा नियतमानसः |
पूर्वाह्न एव चान्येद्युर्गव्यं संप्रास्य वै सकृत् |
स्नातोऽर्चयित्वा कृष्णेति पुनर्नाम प्रकीर्तयेत् || ४५ ||
वारिधारात्रयं चैव विक्षिपेद्देवपादयोः |
चैत्रवैशाखयोश्चैव तद्वज्ज्येष्ठे तु पूजयेत् || ४६ ||
मर्त्यलोके गतिं श्रेष्ठां दाल्भ्य प्राप्नोति वै नरः |
उत्क्रान्तिकाले कृष्णस्य स्मरणं च तथाप्नुते || ४७ ||
आषाढे श्रावणे चैव मासे भाद्रपदे तथा |
तथैवाश्वयुजे देवमनेन विधिना नरः || ४८ ||
उपोष्य संपूज्य तथा केशवेति च कीर्तयेत् |
गोमूत्रप्राशनात् पूर्वं स्वर्गलोकगतिं व्रजेत् || ४९ ||
आराधितस्य जगतामीश्वरस्याव्ययात्मनः |
उत्क्रान्तिकाले स्मरणं केशवस्य तथाऽऽप्नुयात् || ५० ||
क्षीरस्य प्राशनं यस्तु विधिं चेमं यथोदितम् |
कार्त्तिकादि यथान्यायं कुर्यान्मासचतुष्टयम् || ५१ ||
तेनैव विधिना ब्रह्मन् विष्णोर्नाम प्रकीर्तयेत् |
स याति विष्णुसालोक्यं विष्णुं स्मरति च क्षये || ५२ ||
प्रतिमासं द्विजातिभ्यो दद्याद्दानं यथेच्छया |
चातुर्मास्ये च संपूर्णे पुण्यं श्रवणकीर्तनम् || ५३ ||
कथां वा वासुदेवस्य तद्गीतीर्वापि कारयेत् |
एवमेतां गतिं श्रेष्ठां देवनामानुकीर्तनात् || ५४ ||
कथितं पारणं यत्ते कार्ष्णं मासचतुष्टयम् |
आधिपत्यं तथा भोगांस्तेन प्राप्नोति मानवः || ५५ ||
द्वितीयेन तथा भोगानैन्द्रान् प्राप्नोति मानवः |
विष्णोर्लोकं तृतीयेन पारणेन तथाऽऽप्नुयात् || ५६ ||
एवमेतत् समाख्यातं गतिप्रापकमुत्तमम् |
विधानं द्विजशार्दूल कृष्णतुष्टिप्रदं नृणाम् || ५७ ||
सुगतिद्वादशीमेतां श्रद्दधानस्तु यो नरः |
उपोष्य च तथा नारी प्राप्नोति त्रिविधां गतिम् || ५८ ||
एषा धन्या पापहरा तिथिर्नित्यमुपासिता |
आराधनाय शिष्टैषा देवदेवस्य चक्रिणः || ५९ ||
इति विष्णुधर्मे सुगतिद्वादशीनाम चतुर्थॊऽध्यायः
पञ्चमोऽध्यायः
पौर्णमासीव्रतं
पुलस्त्य उवाच –
पञ्चदश्यां च शुक्लस्य फाल्गुनस्यैव सत्तम |
पाषण्डपतितांश्चैव तथैवान्त्यावसायिनः || १ ||
नास्तिकान् भिन्नवृत्तींश्च पापिनश्चाप्यनालपन् |
नारायणे गतमनाः पुरुषो नियतेन्द्रियः || २ ||
तिष्ठन् व्रजन् प्रस्खलिते क्षुते वापि जनार्दनम् |
कीर्तयेत् तत्क्रियाकाले सप्तकृत्वः प्रकीर्तयेत् || ३ ||
लक्ष्म्या समन्वितं देवमर्चयेच्च जनार्दनम् |
संध्याव्युपरमे चेन्दुस्वरूपं हरिमीश्वरम् || ४ ||
रात्रिं च लक्ष्मीं संचिन्त्य सम्यगर्घ्येन पूजयेत् |
नक्तं च भुञ्जीत नरस्तैलक्षारविवर्जितम् || ५ ||
तथैव चैत्रवैशाखज्येष्ठेषु मुनिसत्तम |
अर्चयीत यथाप्रोक्तं प्राप्ते प्राप्ते तु तद्दिने || ६ ||
निष्पादितं भवेदेकम् पारणं दाल्भ्य भक्तितः |
द्वितीयं चापि वक्ष्यामि पारणं द्विजसत्तम || ७ ||
आषाढे श्रावणे मासि प्राप्ते भाद्रपदे तथा |
तथैवाश्वयुजेऽभ्यर्च्य श्रीधरं च श्रिया सह || ८ ||
सम्यक् चन्द्रमसे दत्त्वा भुञ्जीतार्घ्यं यथाविधि |
द्वितीयमेतदाख्यातं तृतीयं पारणं शृणु || ९ ||
कार्त्तिकादिषु मासेषु तथैवाभ्यर्च्य केशवम् |
भूत्या समन्वितं दद्याच्छशाङ्कायार्हणम् निशि || १० ||
भुञ्जीत च तथा प्रोक्तं तृतीयमिति पारणम् |
प्रतिपूजासु दद्याच्च ब्राह्मणेभ्यश्च दक्षिणाम् || ११ ||
प्रतिमासं च वक्ष्यामि प्राशनं कायशोधनम् |
चतुरः प्रथमान् मासान् पञ्चगव्यमुदाहृतम् || १२ ||
कुशोदकं तथैवान्यदुक्तं मासचतुष्टयम् |
सूर्यांशुतप्तं तद्वच्च जलं मासचतुष्टयम् || १३ ||
गीतवाद्यादिकं पाठ्यं तथा कृष्णस्य वा कथान् |
कारयीत च देवस्य पारणे पारणे गते || १४ ||
एवं संपूज्य विधिवत् सपत्नीकं जनार्दनम् |
नाप्नोतीष्ट वियोगादीन्पुमान्योषिदथापि वा || १५ ||
जनार्दनं सलक्ष्मीकमर्चयेत् प्रथमं ततः |
सश्रीकं श्रीधरं भक्त्या तृतीये भूमिकेशवौ || १६ ||
यावन्त्येतद्विधानेन पारणेनार्चति प्रभुम् |
तावन्ति जन्मान्यसुखं नाप्नोतीष्टवियोगजम् || १७ ||
देवस्य च प्रसादेन मरणे प्राप्य तत्स्मृतिम् |
कुले सतां स्फीतधने भोगभुक् जायते नरः || १८ ||
इति विष्णुधर्मे पौर्णमासीव्रतं नाम पञ्चमोऽध्यायः
षष्ठोऽध्यायः
याम्यक्लेशमुक्तिः
(नारिं प्राप्नोति न व्याधिं नरकं च न पश्यति |
दुर्गमं यममार्गं च नेक्षते द्विजसत्तम ||)
श्रोतुम् इच्छाम्यहं तात यममार्गं सुदुर्गमम् |
यथा सुखेन संयान्ति मानवास्तद्वदस्व मे || १ ||
पुलस्त्य उवाच –
प्रतिमासं तु नामानि कृष्णस्यैतानि द्वादश |
कृतोपवासः सुस्नातः पूजयित्वा जनार्दनम् |
उच्चारयन्नरोऽभ्येति सुसुखेनैव तत्पथम् || २ ||
ततो विप्राय वै दद्यादुदकुम्भं सदक्षिणं |
उपानद्वस्त्रयुग्मं च छत्त्रं कनकमेव च || ३ ||
यद्वै मासगतं नाम तत्प्रीतिंश्चापि संवदेत् |
संवत्सरान्तेऽप्यथवा प्रतिमासं द्विजान् बुधः || ४ ||
वाचयेदुदकुम्भाद्यैः दानैः सर्वान् अनुक्रमात् |
केशवं मार्गशीर्षे तु पौषे नारायणं तथा |
माधवं माघमासे तु गोविन्दं फाल्गुने तथा || ५ ||
विष्णुं चैत्रेऽथ वैशाखे तथैव मधुसूदनम् |
ज्येष्ठे त्रिविक्रमं देवमाषाढे वामनं तथा || ६ ||
श्रावणे श्रीधरं चैव हृषीकेशेति चापरम् |
नाम भाद्रपदे मासि गीयते पुण्यकाङ्क्षिभिः || ७ ||
पद्मनाभं चाश्वयुजे दामोदरमतः परम् |
कार्त्तिके देवदेवेशं स्तुवंस्तरति दुर्गतिम् || ८ ||
इह वै स्वस्थतां प्राप्य मरणे स्मरणं ततः |
याम्यक्लेशमसंप्राप्य स्वर्गलोके महीयते || ९ ||
ततो मानुष्यमासाद्य निरातङ्को गतज्वरः |
धनधान्यवति स्फीते जन्म साधुकुलेऽर्हति || १० ||
इति विष्णुधर्मे याम्यक्लेशमुक्तिः नाम षष्ठोऽध्यायः
सप्तमोऽध्यायः
एकभक्तविधिः
दाल्भ्य उवाच –
उपवासव्रतानीह केशवाराधनं प्रति |
ममाचक्ष्व महाभाग परं कौतूहलं हि मे || १ ||
पुलस्त्य उवाच –
कामान् यान् यान्नरो भक्तो मनसेच्छति केशवात् |
व्रतोपवासनात् प्रीतस्तांस्तान् विष्णुः प्रयच्छति || २ ||
रत्नपर्वतमारुह्य यथा रत्नं महामुने |
सत्त्वानुरूपमादत्ते तथा कृष्णान्मनोरथान् || ३ ||
मार्गशीर्षं तु यो मासमेकभक्तेन यः क्षिपेत् |
कुर्वन् वै विष्णुशुश्रूषां स देशे जायते शुभे || ४ ||
पौषमासं तथा दाल्भ्य एकभक्तेन यः क्षिपेत् |
शुश्रूषणपरः शौरेर्न रोगी स च जायते || ५ ||
माघमासं द्विजश्रेष्ठ एकभक्तेन यः क्षिपेत् |
विष्णुशुश्रूषणपरः स कुले जायते सताम् || ६ ||
क्षपयेदेकभुक्तेन शुश्रूषुर्यश्च फाल्गुनम् |
सौभाग्यं स्वजनानां स सर्वेषामेति सोन्नतिम् || ७ ||
चैत्रं विष्णुपरो मासमेकभुक्तेन यः क्षिपेत् |
सुवर्णमणिमुक्ताढ्यं स गार्हस्थ्यमवाप्नुयात् || ८ ||
यः क्षिपदेकभक्तेन वैशाखं पूजयेन् हरिम् |
नरो वा यदि वा नारी ज्ञातीनां श्रेष्ठतां व्रजेत् || ९ ||
कृष्णार्पितमना ज्येष्ठमेकभुक्तेन यः क्षिपेत् |
ऐश्वर्यमतुलं श्रेष्ठं पुमान् स्त्री वाऽभिजायते || १० ||
आषाढमेकभुक्तेन यो नयेद्विष्णुतन्मनाः |
बहुधान्यो बहुधनो बहुपुत्रश्च जायते || ११ ||
क्षपयेदेकभुक्तेन श्रावणं विष्णुतत्परः |
धनधान्यहिरण्याढ्ये कुले स ज्ञातिवर्धनः || १२ ||
एकाहारो भाद्रपदं यश्च कृष्णपरायणः |
धनाढ्यं स्फीतमचलमैश्वर्यं प्रतिपद्यते || १३ ||
नयंश्चाश्वयुजं विष्णुं पूजयेदेकभोजनः |
धनवान् वाहनाढ्यश्च बहुपुत्रश्च जायते || १४ ||
कार्त्तिके चैकदा भुङ्क्ते यश्च विष्णुपरो नरः |
शूरश्च कृतविद्यश्च बहुपुत्रश्च जायते || १५ ||
यस्तु संवत्सरं पूर्णमेकभुक्तो भवेन्नरः |
अहिंसः सर्वभूतेषु वासुदेवपरायणः || १६ ||
नमोऽस्तु वासुदेवायेत्यहश्चाष्टशतं जपेत् |
अतिरात्रस्य यज्ञस्य ततः फलमवाप्नुयात् || १७ ||
दश वर्षसहस्राणि स्वर्गलोके महीयते |
तत्क्षयादिह चागत्य माहात्म्यं प्रतिपद्यते || १८ ||
ब्राह्मणः क्षत्रियो वैश्यः स्त्री शूद्रो वा यथोदितान् |
उपवासानिमान् कुर्वन् फलान्येतान्यवाप्नुयात् || १९ ||
जगत्पतिं जगद्योनिं जगन्निष्ठं जगद्गुरुम् |
जगच्छरण्यं न जनैः शोच्यते…जनः || २० ||
यस्य नाम्नि स्मृते मर्त्यः समुत्क्रान्तेरनन्तरम् |
प्राप्नोति शाश्वतं स्थानं ततः पूज्यतरो हि सः || २१ ||
नादिर्न मध्यं नचान्तो यस्य देवस्य विद्यते |
अनादित्वादमध्यत्वादनन्तत्वाच्च सोऽव्ययः || २२ ||
परापरं सुकृतवतां परां गतिं स्वयंभुवं प्रभवन्निधानमव्ययम् |
सनातनं यदमृतमच्युतं ध्रुवं प्रविश्य तं हरिममरत्वमश्नुते || २३ ||
इति विष्णुधर्मे एकभक्तविधिर्नाम सप्तमोऽध्यायः
अष्टमोऽध्यायः
वर्षामासव्रतं
पुलस्त्य उवाच –
शृणु दाल्भ्य परं काम्यं व्रतं संततिदं नृणाम् |
यमुपोष्य न विच्छेदः पितृपिण्डस्य जायते || १ ||
कृष्णाष्टम्यां चैत्रमासे स्नातो नियतमानसः |
कृष्णमभ्यर्च्य पूजां च देवक्याः कुरुते तु यः || २ ||
निराहारो जपन्नाम कृष्णस्य जगतः पतेः |
उपविष्टो जपस्नानक्षुत प्रस्खलितादिषु || ३ ||
पूजायां चापि कृष्णस्य सप्त वारान् प्रकीर्तयेत् |
पाषण्डिनो विकर्मस्थान्नालपेच्चैव नास्तिकान् || ४ ||
प्रभाते तु पुनः स्नातो दत्त्वा विप्राय दक्षिणाम् |
भुञ्जीत कृतपूजस्तु कृष्णस्यैव जगत्पतेः || ५ ||
वैशाखज्येष्ठयोश्चैव पारणं हि त्रिमासिकम् |
उपोष्य देवदेवेशं घृतेन स्नापयेद्धरिम् || ६ ||
आषाढे श्रावणे चैव मासे भाद्रपदे तथा |
उपोषिते द्वितीयं वै पारणं पूर्ववत्तु तत् || ७ ||
तथैवाश्वयुजं चादिं कृत्वा मासत्रयं बुधः |
उपोष्य स्नापयेद्देवं हविषा पारणे गते || ८ ||
पौषे माघे फाल्गुने च नरस्तद्वदुपोषितः |
चतुर्थे पारणे पूर्णे घृतेन स्नापयेद्धरिम् || ९ ||
एवं कृतोपवासस्य पुरुषस्य तथा स्त्रियः |
न संततेः परिच्छेदः कदाचिदपि जायते || १० ||
कृष्णाष्टमीमिमां यस्तु नरो योषिदथापि वा |
उपोष्यतीह साह्लादं नृलोके प्राप्य निर्वृत्तिम् || ११ ||
पुत्रपौत्रसमृद्धिं च मृतः स्वर्गे महीयते |
इत्येतत् कथितं दाल्भ्य मया कृष्णाष्टमीव्रतम् || १२ ||
प्रावृट्काले तु नियमाञ्शृणु काम्यानिमान् मम || १३ ||
प्रावृट्काले यदा शेते वासुदेवः पयोनिधौ |
भोगिभोगे निजां मायां योगनिद्रां च मानयन् || १४ ||
विशिष्टा न प्रवर्तन्ते तदा यज्ञादिकाः क्रियाः |
देवानां सा भवेद्रात्रिर्दक्षिणायनसंज्ञिता || १५ ||
यदा स्वपिति गोविन्दो यस्तु मासं चतुष्टयम् |
अधः शायी ब्रह्मचारी केशवार्पितमानसः || १६ ||
नमो नमोऽस्तु कृष्णाय केशवाय नमो नमः |
नमोऽस्तु नरसिंहाय विष्णवे च नमो नमः || १७ ||
इति प्रातस्तथा सायं जपेद्देवक्रियापरः |
शमयत्यतिदुष्पारं दुरितं जन्मसंचितम् || १८ ||
मधु मांसं च यो मासाञ्चतुरस्तान्निरस्यति |
देवक्रियारतिर्विष्णोरनुस्मरणतत्परः || १९ ||
सोऽपि स्वर्गं समभ्येति च्युतस्तस्मात्तु जायते |
अरोगी धनधान्याढ्यः कुले संततिमान्नरः || २० ||
समस्तमन्दिराणां च यः सुप्ते मधुसूदने |
निर्वृत्तिं कुरुते सोऽपि देवो वैमानिको भवेत् || २१ ||
अनेनैव विधानेन नरो विष्णुक्रियापरः |
एकाहारो भवेद्यस्तु सर्वपापैः प्रमुच्यते || २२ ||
सुप्ते च सर्वलोकेशे नक्तभोजी भवेत्तु यः |
सर्वपापविनिर्मुक्तः स्वर्गलोकेऽमरो भवेत् || २३ ||
शस्तं त्वनन्तरं पुंसां ततश्चैवेकभोजनम् |
सोऽप्यङ्गलावण्यगुणमारोग्यं च नरो लभेत् || २४ ||
नक्तः जनतुल्यं मनोपवासफलं क्वचित् |
तैलाभङ्गं च यो मासांश्चतुरस्तान्निरस्यति |
सोऽप्यङ्गलावण्यगुणमारोग्यं च नरो लभेत् || २५ ||
यस्त्वेतानि समस्तानि मासानेतान्नरश्चरेत् |
स विष्णुलोकमासाद्य विष्णोरनुचरो भवेत् || २६ ||
चतुर्भिः पारणं मासैर्निष्पाद्यं हरितत्परैः |
ब्राह्मणान् भोजयेद्दद्यात्ततस्तेभ्यश्च दक्षिणाम् || २७ ||
पूजयेच्च जगन्नाथं सर्वपापहरं हरिम् |
प्रीयस्व देव गोविन्देत्येवं चैव प्रसादयेत् || २८ ||
इति विष्णुधर्मे वर्षामासव्रतं नाम अष्टमोऽध्यायः
नवमोऽध्यायः
कुलावाप्तिद्वादशी
पुलस्त्य उवाच –
देवदेवस्य सुप्तस्य द्वादशीं शृणु चापराम् |
यस्यामनन्तस्मरणादनन्तफलभाग् भवेत् || १ ||
मासि प्रोष्ठपदे शुक्ले द्वादश्यां जलशायिनम् |
प्रणम्यानन्तमभ्यर्च्य पुष्पधूपादिभिः शुचिः || २ ||
पाषण्डादिभिरालापमकुर्वन्नियतात्मवान् |
विप्राय दक्षिणां दत्त्वा नक्तं भुङ्क्ते तु यो नरः || ३ ||
तिष्ठन्व्रजन् स्वपंश्चैव क्षुतप्रस्खलितादिषु |
अनन्तनामस्मरणं कुर्वन्नुच्चारणं तथा || ४ ||
अनेनैव विधानेन मासान् द्वादश वै क्रमात् |
उपोष्य पारणे पूर्णे समभ्यर्च्य जगद्गुरुम् |
गीतवाद्येन हृद्येन यतः फलमुदाहृतम् || ५ ||
अनन्तं गीतवाद्येन यतः फलमुदाहृतम् |
तेनानन्तं समभ्यर्च्य सोऽनन्तफलमश्नुते || ६ ||
(एवं यः पुरुषः कुर्यादनन्ताराधनं प्रति|
नारी वा स्वर्गमभ्येत्य अनन्तफलमश्नुते ||)
एवं दाल्भ्यं हृषीकेशो नरैर्भक्त्या यथाविधि |
फलं ददात्य् असुलभं सलिलेनापि पूजितः || ७ ||
न विष्णुर्वित्तदानेन पुष्पैर्वा न फलैस्तथा |
आराध्यते सुशुद्धेन हृदयेनैव केवलम् || ८ ||
रागाद्यपेतं हृदयं वाग्दुष्टा नानृतादिना |
हिंसादिरहितः कायः केशवाराधनत्रयम् || ९ ||
रागादिदूषिते चित्ते नास्पदी मधुसूदनः |
करोति न रतिं हंसः कदाचित् कर्दमाम्भसि || १० ||
न योग्या केशवस्तुत्यै वाग्दुष्टा चानृतादिना |
तमसो नाशनायालं नेन्दोर्लेखा घनावृता || ११ ||
हिंसादिदूषितः कायः केशवाराधने कुतः |
जनचित्तप्रसादाय न नभस्तिमिरावृतम् || १२ ||
तस्माच्छ्रद्धस्वभावेन सत्यभावेन च द्विज |
अहिंसकेन गोविन्दो निसर्गादेव तोषितः || १३ ||
सर्वस्वमपि कृष्णाय यो दद्यात् कुटिलाशयः |
स नैवाराधयत्येवं सद्भावेनार्चयाच्युतम् || १४ ||
रागाद्यपेतं हृदयं कुरु त्वं केशवार्पितम् |
ततः प्राप्स्यसि दुष्प्राप्यमयत्नेनैव केशवम् || १५ ||
दाल्भ्य उवाच –
भगवन् कथितः सम्यक् काम्योऽयं केशवं प्रति |
आराधनविधिः सर्वो भूयः पृच्छामि तद्वद || १६ ||
कुले जन्म तथाऽऽरोग्यं धनर्द्धिश्चेह दुर्लभा |
त्रितयं प्राप्यते येन तन्मे वद महामुने || १७ ||
पुलस्त्य उवाच –
मातामहं काण्वमुदारवीर्यं महर्षिमभ्यर्च्य कुलप्रसूतिम् |
पप्रच्छ पुंसामथ योषितां च दुष्वन्तपुत्रो भरतः प्रणम्य || १८ ||
यथावदाचष्ट ततो महात्मा स राजर्षिवर्याय यथा कुलेषु |
प्रयान्ति सूतिं पुरुषाः स्त्रियश्च यथा च सम्यक्सुखिनो भवन्ति || १९ ||
पौषे सिते द्वादशमेऽह्नि सार्के तथार्क्षयोगे जगतः प्रसूतिम् |
संपूज्य विष्णुं विधिनोपवासी स्रग्गन्धधूपान्नवरोपहारैः || २० ||
गृह्णीत मासं प्रतिमासपूजाम् दानादियुक्तं व्रतमब्दमेकम् |
दद्याच्च दानं द्विजपुङ्गवेभ्यस्तदुच्यमानं विनिबोध भूप || २१ ||
घृतं तिलान् व्रीहियवं हिरण्यं यवान्नमम्भःकरकान्नपानम् |
छत्त्रं पयोऽन्नं गुडफाणिताढ्यं स्रक्चन्दनं वस्त्रमनुक्रमेण || २२ ||
मासे च मासे विधिनोदितेन तस्यां तिथौ लोकगुरुं प्रपूज्य |
अश्नीत यान्यात्मविशुद्धिहेतोः संप्राशनानीह निबोध तानि || २३ ||
गोमूत्रमम्भो घृतमामशाकं दूर्वा दधि व्रीहियवांस्तिलांश्च |
सूर्यांशुतप्तं जलमम्बु दार्भं क्षीरं च मासक्रमशोऽपयुञ्ज्यात् || २४ ||
कुले प्रधाने धनधान्यपूर्णे विवेकवत्यस्तसमस्तदुःखे |
प्राप्नोति जन्माविकलेन्द्रियश्च भवत्यरोगो मतिमान् सुखी च || २५ ||
तस्मात्त्वमप्येतमोघविद्यो नारायणाराधनमप्रमत्तः |
कुरुष्व विष्णुं भगवन्तमीशमाराध्य कामानखिलानुपैति || २६ ||
इति विष्णुधर्मे सत्कुले प्रसूतेः कारणं नाम नवमोऽध्यायः
दशमोऽध्यायः
विजयद्वादशी
पुलस्त्य उवाच –
यदा च शुक्लद्वादश्यां नक्षत्रं श्रवणं भवेत् |
तदा सा तु महापुण्या द्वादशी विजया स्मृता || १ ||
तस्यां स्नातः सर्वतीर्थैः स्नातो भवति मानवः |
संपूज्य वर्षपूजायाः सकलं फलमश्नुते || २ ||
एकं जप्त्वा सहस्रस्य जप्तस्याप्नोति यत्फलम् |
दानं सहस्रगुणितं तथा वै विप्र भोजनम् || ३ ||
(यत्क्षेममपि वै तस्यां सहस्रं श्रावणे तु तत् |
अन्यस्यामेव तिथ्यां शुभायां श्रावणं यदा |)
होमस्तथोपवासश्च सहस्राख्यफलप्रदः || ४ ||
इति विष्णुधर्मे विजयद्वादशी नाम दशमोऽध्यायः