'त्वद्वाक्यैर्न तु मां शक्यं' इति पाकः । पापशीलत्वादि-विशेषकस्य रामस्य संयुगे युद्धविषये व्यवस्थितं मां भेत्तुं त्वद्वाक्यैः त्वया न शक्यमिति योजना । प्राकृतं स्त्रीवाक्यं श्रुत्वेति । असारं कैकेयीवाक्यमित्यर्थः । एकपदे – द्राक् ॥ ५ ॥
अपि च अपृष्टोत्तरप्रलापः तवासङ्गत इत्याह — दोषमित्यादि । कस्यचित् संदिग्धस्य कार्यस्य निश्चये-निश्चयसिद्धयर्थं अस्मिन्ननुष्ठिते को गुणः ? को दोषः ? कः उपायः ? को वाऽपायः ?' इति यदि पृष्टं स्यात्,तथा पृष्टे सत्यव गुणदोषादिकं वक्तुमर्हसि, मया तु निश्चिते कार्ये केवलं साहाय्ये नियुज्यते, अतो न ते जल्पः सङ्गतः इत्यर्थः ॥ ८ ॥
संपृष्टेन तु वक्तव्यं सचिवेन विपश्चिता ।
उद्यताञ्जलिना [४]राज्ञे य इच्छेद्भूतिमात्मनः ॥ ९ ॥
अथ सचिवकृत्यं तु राजनि पृष्टोत्तरमेव, तच्च सोपचारं वक्तव्य- मिति राजनीतिरित्याह--संपृष्टेनेत्यादि ॥ ९ ॥ {{rule}