सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०६ श्रीमद्वाल्मीकि रामायणम् । [ किष्किन्धाकाण्डम् ४ तरुणी रूपसंपन्ना सर्वाभरणभूषिता | हियमाणा मया दृष्टा रावणेन दुरात्मना ॥ १५ ॥ क्रोशन्ती रामरामेति लक्ष्मणेति च भामिनी ॥ भूषणान्यपविध्यन्ती गात्राणि च विन्वती ॥१६॥ सूर्यप्रभेव शैलाग्रे तस्याः कौशेयमुत्तमम् || असिते राक्षसे भाति यथा वा तडिदम्बुदे ॥ १७ ॥ तां तु सीतामहं मन्ये रामस्य परिकीर्तनात् ॥ श्रूयतां मे कथयतो निलयं तस्य रक्षसः ॥ १८ ॥ पुत्रो विश्रवसः साक्षाद्धाता वैश्रवणस्य च ॥ अध्यास्ते नगरीं लङ्कां रावणो नाम राक्षसः ॥ १९ ॥ इतो द्वीपे : समुद्रस्य संपूर्णे शतयोजने ॥ तल्लिकापुरी रम्या निर्मिता विश्वकर्मणा ॥ २० ॥ जाम्बूनदमयैर्द्वारैश्चित्रैः काञ्चनवेदिकैः ॥ [ [प्रसादैर्हेमवर्णैश्च महद्भिः सुसमा कृता ] ॥ प्राकारेणार्कवर्णेन महता सुसमावृता ॥ २१ ॥ तस्यां वसति वैदेही दीना कौशेयवासिनी ॥ रावणान्तः पुरे रुद्धा राक्षसीभिः सुरक्षिता ॥ २२ ॥ जनकस्यात्मजां राज्ञस्तत्र द्रक्ष्यथ मैथिलीम् ॥ लङ्कायामथ गुप्तायां सागरेण समन्ततः ॥ २३ ॥ संप्राप्य सागरस्यान्तं संपूर्ण शतयोजनम् ॥ आसाद्य दक्षिणं तीरं ततो द्रक्षथ रावणम् ॥ २४ ॥ तत्रैव त्वरिताः क्षिप्रं विक्रमध्वं प्लवङ्गमाः ॥ ज्ञानेन खलु पश्यामि दृष्ट्वा प्रत्यागमिष्यथ ॥ २५ ॥ आद्यः पन्थाः कुलिङ्गानां ये चान्ये धान्यजीविनः ॥ द्वितीयो 'बैंलिभोजानां ये च वृक्षफैलाशिनः ॥२६॥ भासास्तृतीयं गच्छन्ति क्रौञ्चाश्च कुरैः सह ॥ श्येनाश्चतुर्थं गच्छन्ति गृध्रा गच्छन्ति पञ्चमम् ||२७|| बलवीर्योपपन्नानां रूपयौवनशालिनाम् ॥ षष्ठस्तु पन्था हंसानां वैनतेयगतिः परा ॥ वैनतेयाच नो जन्म सर्वेषां वानरर्षभाः ॥ २८ ॥ " क्रमान् त्रिविक्रममितानुपरितनलोकानित्यर्थ: । महा- ! पक्षिविशेषाः कुलिङ्गाः । ये चान्ये धान्यजीविन इति सुरविन देवासुर संग्रामान् ॥ १३ – १५ ॥ वचनात् । बलिभोजानां काकानां ॥ २६ ॥ भासा अपविध्यन्ती छेदयन्ती ।। १६-१८ ॥ अध्यास्ते । जलवायसाः । “ भासस्तु जलवायसः इति निघ- “ अधिशीस्थासां कर्म " इति नगर्याः कर्मत्वं टुः । श्येनविशेषा इत्यप्याहुः २७ ॥ वैनतेयात् ॥ १९–२४ ॥ विक्रमध्वं । वेः पादविहरणे " गरुडात् । नः अस्माकं । जन्मउत्पत्तिः । तेन तस्यं इत्यामनेपदं । ज्ञानेन दिव्यज्ञानेन ॥ २५ ॥ दूरस्थ - या सप्तमी गतिः सैवास्माकमपीत्यर्थः । नन्वारण्य - दर्शनं भवतः कुतो जातं तत्राह — आद्य इत्यादिना ॥ काण्डे — “ द्वौ पुत्रौ विनतायास्तु गरुडोऽरुण एव कुलिङ्गानां भूमिप्रत्यासन्नगगनचारिणां । धान्यजीविनः च । तस्माजातोहमरुणात्संपातिस्तु ममाग्रज : " इति 'विष्णोर्लोकान् श्रीभागातिरिक्तान् श्वेतद्वीपादीन् । त्रैविक्रमान् त्रिविक्रमाक्रान्तान् । अतोनैकदेशान्वयक्लेशः ॥ १३ ॥ रामानु० तस्याउत्तमंकौशेयं असितेराक्षसे शैला ग्रे सूर्यप्रभेवभाति । अंबुदइवासिते राक्षसे विद्युद्यथा तथाभातीतियोजना ॥ १७ ॥ स० रामस्य रामेतिनाम्नः | परिकीर्तनातू उच्चारातू । क्लेशसमये पतिनामग्रहणस्यादोषत्वात् । 'भार्या पतेरपि' इत्यस्य स्वस्थचेत- स्कभार्यापरत्वात् । नित्यापरोक्षीकृताध्यक्षत्वेन ' दूराद्धूतेच ' इति प्रकृतिभावाभावाद्रामरामेतिसंभवति । अनेन प्रकृतिभावाभा- वेन सीताप्रकृतिभावाभावोपि ध्वन्यते । स्मृतिमात्रले नानाहानरूपत्वाद्वा तच्छास्त्रागोचरत्वात्प्रकृतिभावाभावः । 'तद्दूरे तद्वन्तिके " इत्येकतरनिष्कर्षस्यदुष्करत्वाद्वा नप्रकृतिभावःप्रगृह्यसंज्ञायां " द्रुतप्रगृह्याः – ” इत्यादिना ॥ १८ ॥ स० कुबेरन- गरीलाद्विश्वकर्म निर्माण युक्तम् ॥ २० ॥ स० राक्षसीभिरिति । अनेनाधुनापि नमर्यादाविपर्यासइतिथोत्यते ॥ २२ ॥ कतक० लङ्कायामभिगुप्तायामित्यादिश्लोकद्वयं प्रक्षिप्तं ॥ २३-२४ ॥ स० ज्ञानेन ज्ञायतेऽनेनेतिज्ञानं दिव्यंचक्षुः । पश्यामि जानामि । ति० देवयोनित्वेन दिव्यज्ञानेन यूयंतांदृष्ट्वा प्रत्यागमिष्यथेत्यपि पश्यामि । अतोनिस्संशयंगच्छतेतिशेषः ॥ २५ ॥ ति० अंथ स्वस्यदेवयोनित्वप्रदर्शनशेषतया पक्षिमार्गाना - आयइति ॥ पन्थाः आकाशमार्गः ॥ २६ ॥ ' [ पा० ] १ ङ. च. छ. झ ञ ट . यथा विद्यु दिवांबरे २ क. ख. ङ. - ट. द्वीपे. ३ ख. काञ्चनवेदिभिः ४ ङ.–ट. पुस्तकेष्विदमदृश्यते. ५ ङ. च. ज. — ट. चसमन्विता. ग. सुसमाहिता. ६ ङ. - ट. राज्ञस्तस्यां. ७ ग. छ. ञ. ट. सागरस्यान्ते. ८ ग. ड. च. छ. ञ. ट. संपूर्णेशतयोजने. ९ क. ङ. – ज. ज. ट. कूलं. १० ग. बलिपुष्टानां. ङ. च. ट. बलिभोज्यानां ११ ङ. -ट. फलाशनाः ✔