सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 सर्गः ९६ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । ३५५ ४४ ॥ तयोस्तुष्टिमथोत्पाद्य वीरयोः कृतशौचयोः || विधिवज्जानकी पश्चाच्चक्रे सा प्राणधारणम् ॥ ३६॥ शिष्टं मांसं निकृष्टं यच्छोषणायावकल्पितम् || तद्रामवचनात्सीता काकेभ्यः पर्यरक्षत || ३७ ॥ तां ददर्श तदा भर्ता काकेनायासितां दृढम् || यस्या हारान्तरचर: कामचारी विहंगमः ॥ ३८ ॥ काकेनारोध्यमानां तां सा मुमोह तदातुरम् || सा चुकोपानवद्याङ्गी भर्तृप्रणयदर्पिता ॥ ३९ ॥ इतश्चेतश्च तां काको वारयन्तीं पुनः पुनः ॥ पक्षतुण्डनखाग्रैश्च कोपयामास कोपनाम् ॥ ४० ॥ तस्याः प्रस्फुरमाणौष्ठं भ्रुकुटीपुटसूचितम् || मुखमालोक्य काकुत्स्थस्तं काकं प्रत्यषेधयत् ॥ ४१ ॥ स धृष्टमानो विगहो रामवाक्यमचिन्तयन् || सीतामभिपपातैव ततो राघवः ॥ ४२ ॥ सोऽभिमत्र्य शरैषीकामैषीकास्त्रेण वीर्यवान् || काकं तमभिसंधाय ससर्ज पुरुषर्षभः ॥ ४३ ॥ स तेनाभिद्रुतः काकस्त्रींल्लोकान्पर्यगात्ततः ॥ देवैर्दत्तवरः पक्षी हारान्तरचरो लघुः यत्र यत्रागमत्काकस्तत्र तत्र ददर्श ह || इषीकां भूतसंकाशां स रामं पुनरागमत् ॥ ४५ ॥ स मूर्ध्ना न्यपतत्काको राघवस्य महात्मनः ॥ सीतायास्तत्र पश्यन्त्या मानुषीमैरयद्भिरम् || ४६ ॥ प्रसादं कुरु मे राम प्राणैः सामग्र्यमस्तु मे ॥ अस्त्रस्यास्य प्रभावेण शरणं न लभे कचित् ॥ ४७ ॥ तं काकमब्रवीद्रामः पादयोः शिरसा गतम् || सानुक्रोशतया धीमानिदं वचनमर्थवत् ॥ ४८ ॥ मया रोषपरीतेन सीताप्रियहितार्थिना || अस्त्रमेतत्समाधाय त्वद्वधायाभिमन्त्रितम् ॥ ४९ ॥ यत्तु मे चरणौ मूर्ध्ना गतस्त्वं जीवितेप्सया || अत्रास्त्यवेक्षा त्वयि मे रक्ष्यो हि शरणागतः ॥५०॥ अमोघं क्रियतामस्त्रमेकमङ्गं परित्यज || किमङ्गं शातयतु ते शरैषीका ब्रवीहि मे ॥ ५१ ॥ एतावद्ध मया शक्यं तव कर्तुं प्रियं खग || एकाङ्गहीनं ह्यस्त्रेण जीवितं मरणाद्वरम् ॥ ५२ ॥ एवमुक्तस्तु रामेण संप्रधार्य स वायसः ॥ अभ्यगच्छद्वयोरक्ष्णस्त्यागमेकस्य पण्डितः ॥ ५३ ॥ सोऽब्रवीद्राघवं काको नेत्रमेकं त्यजाम्यहम् ॥ एकनेत्रोऽपि जीवेऽहं त्वत्प्रसादानराधिप ॥ ५४ ॥ रामानुज्ञातमस्त्रं तत्काकस्य नयनेऽपतत् || वैदेही विस्मिता तत्र काकस्य नयने हते ॥ ५५ ॥ निपत्य शिरसा काको जगामाशु यथेप्सितम् ॥ लक्ष्मणानुचरो रामञ्चकारानन्तरक्रिया: ॥ ५६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे प्रक्षिप्तः सर्गः ॥ षण्णवतितमः सर्गः ॥ ९६ ॥ सीतयासह चित्रकूटप्रस्थेविहरमाणेनरामेणभरत सेनाकोलाहलश्रवणेनत हूली दर्शनेनचलक्ष्मणंप्रतितत्कारणावगमनचोदना ॥ १ ॥ तदर्थंवृक्षाप्रमारूढे नलक्ष्मणेननातिदूरेरथाग्नेको विदारध्वजावलोकनात्सेनयासहभरतागमन निर्धारणेनतस्मिन्दोष- शङ्कयारामंप्रतिस्वेनभरतहननोक्तिः ॥ २ ॥ तां तथा दर्शयित्वा तु मैथिलीं गिरिनिम्नगाम् || निषसाद - गिरिप्रस्थे सीतां मांसेन छन्दयन् ॥ १॥ इदं मेध्यमिदं खादु निष्टप्तमिदमग्निना || एवमास्ते स धर्मात्मा सीतया सह राघवः ॥ २ ॥ एवंप्रासङ्गिकमुक्त्वाप्रकृतमनुसरति — तामित्यादि- | || १ || वशीकरणप्रकारमाह - इदमित्यादिना । इदं ना । गिरिनिम्नगां गिरिनदीं । मांसेनछन्दयन् वशी- मांसं मेध्यं शुद्धं निर्मलमितियावत् । स्वादु रसवत् । कुर्वन् । “ वशाभिप्राययोछन्दः " इतिवैजयन्ती | निष्टप्तं प्रतप्तं । इदंशब्देनस्वभुक्तशेषमितिगम्यते । शि० मांसेन तापसोपभोग्यफलादिना ॥ १ ॥