सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३२ श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ पद्भ्यामेव हि धर्मज्ञो न्यस्तशस्त्रपरिच्छदः ॥ वसानो वाससी क्षौमे पुरोधाय पुरोधसम् ॥ २ ॥ ततैः संदर्शने तस्य भैरद्वाजस्य राघवः || मन्त्रिणस्तानवस्थाप्य जगामानुपुरोहितम् ॥ ३ ॥ वसिष्ठमथ दृष्ट्व भरद्वाजो महातपाः ॥ संचचालासनात्तूर्ण शिष्यानर्ध्यमिति ब्रुवन् ॥ ४ ॥ समागम्य वसिष्ठेन भरतेनाभिवादितः ॥ अबुध्यत महातेजाः सुतं दशरथस्य तम् ॥ ५ ॥ ताभ्यामर्थ्यं च पाद्यं च दत्त्वा पश्चात्फलानि च ॥ आनुपूर्व्याच्च धर्मज्ञः पप्रच्छ कुशलं कुले ॥ ६ ॥ अयोध्यायां बले कोशे मित्रेष्वपि च मैत्रिषु || जानन्दशरथं वृत्तं न राजानमुदाहरत् ॥ ७ ॥ वसिष्ठो भरतश्चैनं पप्रच्छतुरनामयम् || शरीरेऽग्निषु वृक्षेषु शिष्येषु मृगपक्षिषु ॥ ८ ॥ तथेति तत्प्रतिज्ञाय भरद्वाजो महातपाः || भरतं प्रत्युवाचेदं राघवस्त्रेहबन्धनात् ॥ ९ ॥ किमिहागमने कार्य तव राज्यं प्रशासतः ॥ एतदाचक्ष्व मे सर्व न हि मे शुध्यते मनः ॥१०॥ सुषुवे यममित्रघ्नं कौसल्या नन्दैवर्धनम् ॥ भ्रात्रा सह सभार्यो यथिरं प्रत्राजितो वनम् ॥ ११ ॥ नियुक्त: 'स्त्रीनियुक्तेन पित्रा योसौ महायशाः ॥ वनवासी भवेतीह समाः किल चतुर्दश ॥ १२ ॥ कच्चिन्न तस्यापापस्य पापं कर्तुमिच्छसि ॥ अकण्टकं भोक्तुमना राज्यं तस्यांनुजस्य चें ॥ १३ ॥ एवमुक्तो भरद्वाजं भरतः प्रत्युवाच ह || पर्यश्रुनयनो दुःखाद्वाचा संसज्जमानया ॥ १४ ॥ हतोसि यदि मामेवं भँगवानपि मन्यते ॥ मत्तो न दोषमाशङ्के "नैवं मामनुशाधि हि ॥ १५ ॥ न्यस्तशस्त्रपरिच्छदः परिच्छदः आभरणादिकं भृङ्गा- | मृतमितियावत् । नोदाहरत् तत्प्रसङ्गमेवनकृतवान् रायुपकरणजातंच । वसानोवाससीक्षौमे भरद्वाजसे- ॥ ७ ॥ तपोधनानांशरीरायादेस्तपसाधनत्वात् मृग- वार्थमुष्णीषकञ्चुकादिकमपहायपरिधानमुत्तरीयंचधू- पक्ष्यादीनामाश्रमवासित्वेनशिष्यवत्प्रीतिविषयत्वाच्च त्वागतइत्यर्थ: । ननुपूर्वजटाचीराणिधारयन्नित्युक्तं तद्विषय: प्रश्नः कृतइत्याह – वसिष्ठइत्यादिना ॥ ८ ॥ जटिलंची रवसन मितिचवक्ष्यति कथमत्रक्षौमवासस्त्व- तथेतितत्प्रतिज्ञाय सर्वत्रतत्पृष्टमनामयमङ्गीकृत्य । मुच्यते । नैषदोषः । पूर्वप्रतिज्ञामात्रंकृतंभरद्वाजाश्र- राघवस्नेहबन्धनात् राघवविषयेस्नेहानुबन्धनात् नतु मात्परंजटाधारणमिति । पुरोधाय पुरस्कृत्य ||१ – २॥ भरतेदोषदर्शनात् ॥ ९ ॥ शुध्यते शुद्धिनप्राप्नोति । संदर्शने दूरदर्शने । राघवः रघुवंशवृत्ताभिज्ञः । नविश्वसितीतियावत् ॥ १० ॥ सुषुवइत्यादिलोकत्र- अनुपुरोहितं पुरोहितस्यपश्चात् । अनो: पश्चादर्थेव्य- यमेकान्वयं । नन्दवर्धनं आनन्दवर्धनं । चिरंप्रब्रा- यीभावः ॥ ३ ॥ संचचाल उतिष्ठत् । अर्ध्य जित: चिरकालमुद्दिश्यप्रत्राजितः । य:एतादृशः आनयतेंतिशेषः ॥ ४ ॥ समागम्येति सवयस्कत्वा- तस्य रामस्य राज्यमकण्टकंभोक्तमना: अपापस्यतस्या- 'नमस्काराभावः । अबुध्यतेति वसिष्ठसाहचर्यादि- नुजस्यचपापकर्तुनेच्छसि कृच्चिदितिसंबन्धः ॥ ११ तिभावः ॥ ५ ॥ आनुपूर्व्यात् प्रधानक्रमात् । धर्मज्ञः – १३ || पर्यश्रुनयनः परः । संसज- पूजाक्रमधर्मज्ञः । कुले गृहे ॥ ६ ॥ वृत्तं अतीतं मानया स्खलन्त्या ॥ १४ ॥ हतोस्मि व्यर्थज- स० क्षौमे चीरे ॥ २ ॥ ति० संदर्शने आश्रमप्रवेशानन्तरमृषिदर्शनावसरे । शिo संदर्शने संदर्शनार्थं ॥ ३ ॥ शि० वसि- ष्ठेनसमागम्य परस्परं नमस्कारपूर्वकमालिङ्ग्य ॥५॥ शि० प्रत्राजितः साक्षात्परंपरयावायुष्माभिरितिशेषः । एतेनभवत्स्वकार्यकर्म - कारिवंप्रतीयतइतिसूचितं ॥ ११ ॥ शि० अपापस्य पापनिवर्तकस्यरामस्य । स० रामहननेराज्यमकण्टकंभवतीतिअकण्टकंभोक्तु- मनाः | तस्य रामस्यानुजस्यलक्ष्मणस्यच | पापं वधरूपं ॥ १३ ॥ हतोस्मि हतप्रायोस्मि ॥ १५ ॥ [ पा० ] १ क. – च. ज. – ट. पुरोधायपुरोहितं. छ. पुरोहितपुरस्सरं. २ ख. तत्र. ३ क. च. न. महर्षेःसहि. ४ घ. बन्धुषु. ५ ग. झ. शिष्येषुवृक्षेषु. ६ क. ख. ङ. च. ञ ट मृगेष्वपिचपक्षिषु ७ ज. तथैवतंप्रतिज्ञाय. ख. घ. तथैवेति. क. च. ञ तथेतिच. ङ. छ. झ ट तथेतितु. ग. सतथेति. ८ घ. ट. भारद्वाजो. ९ ख. घ. –झ. ट. महायशाः १० झ. ट. सर्वेमे ११ ख. ग. नन्दिवर्धनं. १२ ङ च छ. झ ञ ट स्त्रीनिमित्तेन. १३ ख. घ. तस्याग्रजस्य. १४ क. ग. च. ज. वै. १५ ङ. छ. ट. भगवानभि. १६ क. ख. च. छ. झ. ज. ट. मैवं. १७ ख ज. मनुशास्ति.