सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१६ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ सुवेषाः शुद्धवसनास्ता प्रमृष्टानुलेपनाः || सर्वे ते विविधैर्यानैः शनैर्भरतमन्वयुः ॥ १७ ॥ ग्रहृष्टमुदिता सेना साऽन्वयात्कैकयीसुतम् || भ्रातुरानयने यान्तं भरतं भ्रातृवत्सलम् ॥ १८ ॥ ते गत्वा दूरमध्वानं रथयानावकुञ्जरैः ॥ समासेदुस्ततो गङ्गां शृङ्गवेरपुरं प्रति ।। १९ ।। यत्र रामसखो वीरो गुहो ज्ञातिगणैर्वृतः ॥ निवसत्यप्रमादेन देशं तं परिपालयन् ॥ २० ॥ उपेत्य तीरं गङ्गायाश्चक्रवाकैरलंकृतम् || व्यवातिष्ठत सा सेना भरतस्यानुयायिनी ॥ २१ ॥ निरीक्ष्यानुगतां सेनां तीं च गङ्गां शिवोदकाम् || भरतः सचिवान्सर्वानब्रवीद्वाक्यकोविदः ॥ २२॥ निवेशयत मे सैन्यमभिप्रायेण संवतः || विश्रान्ताः प्रतरिष्यामः व इँदानीमिमां नदीम् ॥ २३ ॥ दातुं च तावदिच्छामि स्वर्गतस्य महीपतेः ॥ और्ध्वदेहनिमित्तार्थमवतीर्योदकं नदीम् ॥ २४ ॥ तस्यैवं ब्रुवतोऽमात्यास्तथेत्युक्त्वा समाहिताः || न्यवेशयंस्तां छन्देन स्वेनस्वेन पृथक्पृथक् ।। २५ ।। निवेश्य गङ्गामनु तां महानदीं चमूं विधानैः परिवर्हशोभिनीम् ॥ उवास रामस्य तदा महात्मनो विचिन्तयानो भरतो निवर्तनम् ॥ २६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे त्र्यशीतितमः सर्गः ॥ ८३ ॥ 66 66 रिणः स्त्रीजीविनोवा । अतएव सहस्त्रीभिरित्युक्तं | | दिच्छया । इदानींविश्रान्ताः श्वोनदींप्रतरिष्यामइति “ शैलालिनस्तुशैलूषाजायाजीवा: " इत्यमरः । कैव- संबन्धः || २३ || और्ध्वदेहनिमित्तार्थ ऊर्ध्वदेहभव- र्ताः धीवराः । कैवर्तेदाशधीवरौ " इत्यमरः । सुखप्रयोजनायेत्यर्थः । नदीमवतीर्य पितुरौर्ध्वदेह नि- तेसर्वेययुरित्यन्वयः । समाहिताः योगिनः । गोरथैः मित्तार्थमुद्कंदातुमिच्छामीत्यन्वयः ॥ २४ ॥ छन्देन वृषभयुक्तरथैः शकटैरितियावत् ॥ १२-१६ ॥ इच्छया । छन्दः श्रुतीच्छापद्येषु " इतिवैजयन्ती ताम्रसृष्टानुलेपनाः रक्तवर्णसंपूर्णाङ्गरागाः ॥ १७ ॥ ॥ २५ ॥ गङ्गामनुनिवेश्य गङ्गामनुसृत्यनिवेश्य प्रहर्षः कायिकोरोमाञ्चादिः । प्रमोदोमानसोहर्ष: गङ्गाकूलानुसारेण निवेश्येतियावत् । विधानैः तत्तजा- आनयने आनयननिमित्तं ॥ १८ ॥ शृङ्गबेरपुरंप्रति तिव्यवस्थाकल्पनादिभिः । परिबर्हशोभिनीं परिबर्हो दूरमध्वानंगत्वा गङ्गांसमासेदुरितिसंबन्धः । यद्वा यात्रोपयुक्तपटवेश्माद्युपकरणं । " तथोपकरणंप्रोक्तं शृङ्गबेरपुरंप्रतीति लक्षणेकर्मप्रवचनीयः । शृङ्गिवेर- परिबर्हः परिच्छदः ” इतिहलायुधः ॥ २६ ॥ इति पुरइत्यर्थः ॥ १९ ॥ अप्रमादेन सावधानतया | राम- श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे पीता- विरोध्यागमनवारणपरइत्यर्थः । तत्रदेशे । विद्यमानं म्बराख्याने अयोध्याकाण्डव्याख्याने त्र्यशीतितमः शृङ्गिबेरपुरंप्रतीतिपूर्वेणान्वयः || २० || व्यवातिष्ठत | सर्गः ॥ ८३ ॥ व्यवस्थिताभूत् ॥ २१ – २२|| अभिप्रायेण तत्त- । " ति० और्ध्वदेहनिमित्तार्थ एतच्छरीरपातोत्तरकालिकदेहभवसुखप्रयोजनायेत्यर्थः । यद्वा एतद्देहपातादूर्ध्वजातदेहोनिमित्त॑यस्य परलोकस्य सऊर्ध्वदेहनिमित्तः परलोकः । स्वार्थिकोऽण् । तदर्थमित्यर्थः | मध्येमिलितनद्यन्तरे एवमनुत्त्यागङ्गायास्तर्पणेन पितृस्वर्ग- प्राप्तिकरत्वंसूचितम् ॥ २४ ॥ ति० विचिन्तमानः चिन्तयमानइत्यर्थः ॥ २६ ॥ इतित्र्यशीतितमस्सर्गः ॥ ८३ ॥ [ पा० ] १ ङ. झ. ञ. ट. लेपिन:. २ ङ. छ. झ. ट. विमलैर्यानैः . ३ ङ. छ. श. ज. ट. निरीक्ष्यानुत्थितां. ४ क. च. अ. तांगज्ञांच ५ ग. सर्व ६ ग. घ. सर्वशः ७ क. ख. घ. च. ञ. इदानीं महानदीं. ङ. छ. झट. इमांसागरङ्गमांग, इदानींतुतांनदी ८ ङ. छ. झ, ञ, द, विचिन्तमानो,