सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३७] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । भरतश्च सशत्रुभवीरवासा वनेचरः || वने वसन्तं काकुत्स्थ मनुवत्स्यति पूर्वजम् ॥ २७ ॥ ततः शून्यां गतजनां वसुधां पादपैः सह ॥ त्वमेका शाधि दुर्वृत्ता प्रजानामहिते स्थिता ॥ २८ ॥ न हि तद्भविता राष्ट्रं यत्र रामो न भूपतिः ॥ तद्नं भविता राष्ट्रं यत्र रामो निवत्स्यति ॥ २९ ॥ न ह्यदत्तां महीं पित्रा भरतः शास्तुमर्हति ॥ त्वयि वा पुत्रवद्वस्तुं यदि जातो महीपतेः ॥ ३० ॥ यद्यपि त्वं क्षितितलागगनं चोत्पतिष्यसि ॥ पितृवंशचरित्रज्ञः सोन्यथा न करिष्यति ॥ ३१ ॥ तत्त्वया पुत्रगधिंन्या पुत्रस्य कृतमप्रियम् || लोके हि न स विद्येत यो न राममनुव्रतः ॥ ३२ ॥ द्रक्ष्यस्यद्यैव कैकेय पशुव्यालमृगद्विजान् ॥ गच्छतः सह रामेण पादपांच तदुन्मुखान् ॥ ३३ ॥ अथोत्तमान्याभरणानि 'देवि देहि स्रुषायै व्यपनीय चीरम् ॥ न चीरमस्याः प्रविधीयतेति न्यवारयत्तद्वसनं वसिष्ठः ॥ ३४ ॥ एकस्य रामस्य वने निवासस्त्वया वृतः केकयराजपुत्रि || विभूषितेयं प्रतिकर्मनित्या वसत्वरण्ये सह राघवेण ॥ ३५ ॥ यानैश्च मुख्यैः परिचारकैश्च सुसंवृता गच्छतु राजपुत्री ॥ वस्त्रैश्च सर्वैः सहितैर्विधानैर्नेयं वृता ते वरसंप्रदाने ॥ ३६॥ तस्मिंस्तथा जल्पति विप्रमुख्ये गुरौ नृपस्याप्रतिमप्रभावे ॥ नैव स्म सीता विनिवृत्तभावा प्रियस्य भर्तुः प्रतिकारकामा ॥ ३७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सप्तत्रिंशः सर्गः ॥ ३७ ॥ १६५ पधनसहितं । सपरिच्छदं दासदासीशकटादिपरिकर- | प्रविधीयतइत्येतदुपपादयति — एकस्येति । प्रतिकर्मनि- युक्तम् ॥ २६–२९ ॥ अदत्तां प्रीतिपूर्वकमदत्तां ॥ ३० – ३१ ॥ पुत्रगर्धिन्या पुत्रविषयस्नेहयुक्तया ।। ३२ ।। पादपांश्चतदुन्मुखानिति वृक्षाणांतदुन्मुखत्वं नाम रामविषयस्नेहासक्तत्वं । तथोपरिष्टात्स्पष्टीभवि- ध्यति । “ अपिवृक्षाः परिम्लानाःसपुष्पाङ्गुरकोर- द्विनिवृत्तभावा | नबभूवेति ॥ ३७ ॥ इति श्रीगोवि- काः ” इति ॥ ३३ ॥ एवंवसिष्ठोभाव्यर्थमुक्त्वाप्रकृ- |न्दराजविरचिते श्रीमद्रामायणभूषणे पीताम्बराख्या- तमाह — अथेत्यादि । व्यपनीय निरस्य । प्रविधीयत ने अयोध्याकाण्डव्याख्याने सप्तत्रिंशः सर्गः ॥ ३७ ॥ इतीति वक्तव्ये प्रविधीयतेतिसन्धिराषः ॥ ३४ ॥ न त्या अलंकारनियता नित्यमलंकरणयोग्येत्यर्थः ॥ ३५॥ विधानैः भृङ्गाराद्युपकरणैः ॥ ३६ ॥ प्रतिकारकामा प्रतिकारंसदृशकरणंकामयमाना भर्तृसदृशतयावनवा - सकरणमिच्छन्तीत्यर्थः । विनिवृत्तभावा चीरपरिधाना- रक्षकाः ॥ २६ ॥ ति० भरतश्चपूर्वजमनुवत्स्यति । दशरथजातस्यतत्स्वभावतायाऔचित्यादितिभावः ॥ २७ ॥ ति० पांदपैस्स- हेत्यनेन अटवीभूतामितिद्योत्यते ॥ २८ ॥ ति० यदीति “पितॄन्समनुजायन्तेनराः" इतिन्यायादित्याशयः । यदीत्यसन्देहेसं- दिग्धवचनं । “वेदाश्चेत्प्रमाणं " इतिवत् ॥ ३० ॥ ति० पितृवंशचरित्रं ज्येष्टेविद्यमानेकनिष्ठस्य राज्यानर्हत्वरूपं तज्ज्ञः ॥ ३१ ॥ शि० प्रतिकर्मरामसंबन्धिनीसर्व क्रिया तत्रनित्यानित्यसंबन्धवती । रामक्रियानिर्वाहिकेत्यर्थः । स० रामविनाइयंनस्थास्यतीत्य- प्याह - विभूषितेति । विभौपरमात्मनिउषितात द्वक्षस्स्थलाश्रिता ॥ ३५ ॥ स० कारः आकारः । नपरिच्छेदकार्येवेत्यनुव्या- ख्या व्याख्यासुधायांतथाव्याख्यानात् । कारस्य रामाकारस्य प्रति प्रतिकारं । चीरधारणादिनारामाकारसा दृश्यंकारयती तितथा ॥ ३७ ॥ इतिसप्तत्रिंशः सर्गः ॥ ३७ ॥ [ पा० ] १ क. घ. छ. मनुयास्यति २ क निर्वृत्ता ३ च. न. रता. ४ ङ. च. झ. ट. मिच्छति ५ ख. अथवा. ६ ङ. छ. झ ञ ट लोकेन हिस. ग. घ. च. ज. लोकेहिसन. ७ छ. योराम॑नानुवर्तते. ८ ङ. छ. द्रक्ष्यसेद्यैव. ९ क. ट. देहि देहि. १० घ. च. ट. एतस्य ११ घ. पुरो १२ ख. प्रियकारकामा.