सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । द्वाविंशः सर्गः ॥ २२ ॥ श्रीरामेणकैकेय्यांक्रुद्धंलक्ष्मणप्रतिस्त्रप्रव्राजने दैवस्यैव कारणस्व निरूपणेन तस्या हेतुत्व निरसनपूर्वकंतस्यकोपोपशमनम् ॥ १॥ अथ तं व्यथया दीनं सविशेषममर्षितम् ॥ श्वसन्तमिव नागेन्द्रं रोषेविस्फारितेक्षणम् ॥ १ ॥ आसाद्य रामः सौमित्रिं सुहृदं भ्रातरं प्रियम् || उवाचेदं स धैर्येण धारयन्सत्वमात्मवान् ॥ २ ॥ निगृह्य रोषं शोकं च धैर्यमाश्रित्य केवलम् || अवमानं निरस्येमं गृहीत्वा हर्षमुत्तमम् ॥ ३ ॥ उपक्लृप्तं हि यत्किञ्चिदभिषेकार्थमैद्य मे ॥ सर्वे विसर्जय क्षिप्रं कुरु कार्य निरत्ययम् ॥ ४ ॥ सौमित्रे योऽभिषेकार्थे मम संभारसंभ्रमः || अभिषेकनिवृत्त्यर्थे सोस्तु संभारसंभ्रमः ॥ ५ ॥ यस्या मैदभिषेकार्थे मानसं परितप्यते ॥ माता मे सौ यथा न स्यात्सविशङ्का तथा कुरु ॥ ६ ॥ तस्याः शङ्कामयं दुःखं मुहूर्तमपि नोत्सहे | मनसि प्रतिसंजातं सौमित्रेऽह॑मुपेक्षितुम् ॥ ७ ॥ ने बुद्धिपूर्व नाबुद्धं सरामीह कदाचन ॥ मातृणां वा पितुर्वाऽहं कृतमल्पं च विप्रियम् ॥ ८ ॥ सत्यस्सत्याभिसन्धश्च नित्यं सत्यपराक्रमः || परलोकभयाद्भीतो निर्भयोस्तु पिता मम ॥ ९ ॥ १०६ [ अयोध्याकाण्डम् २ श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे पीतां- | मनं | निरस्य निजदौर्बल्यकृतत्वाभावान्निवार्य । उत्तमं- बराख्याने अयोध्याकाण्डव्याख्याने एकविंशः हर्ष सत्यपरिपालनेनपितरंतारयिष्याम इतिबुद्धिजन्यं । सर्गः ॥ २१ ॥ मेऽभिषेकार्थमुपकृतं सम्पादितं । यत्किञ्चिदलङ्कारा- दिकं तत्सर्वेविसर्जय । निरत्ययं निरपायं । सत्यप- अथरामःसौमित्रेःकैकेयीविषयंरोषमुपशमयति । रिपालनोपयुक्तं । कार्य वल्कलधारणादिकं । कुरु अथेत्यादिश्लोकद्वयमेकंवाक्यम् । सविशेषं अन्तरङ्गज- ||॥३–४|| संभारसंभ्रम : संभारसंपादनविषयउत्सा- नापेक्षयासातिशयम् । अमर्षितं प्राप्तासहनं । रोषवि- हः । अभिषेकनिवृत्त्यर्थे अभिषेकनिवृत्तिरूपवनवासा- स्फारितेक्षणं क्रोधविस्तारितनयनम् | आसाद्य अभि- र्थे । ससंभारसंभ्रमोस्तु वनवासोचितसाधनसंपादन- मुखीकृत्य । सुहृत्त्वादिविशेषणंकोपेप्यनुपेक्षणीयत्वाय | विषयोभवत्वित्यर्थः ||५|| मदभिषेकार्थे मदभिषेकप्र- सत्वं सर्वविषयकंस्वंबलं। धैर्येण धारयन् अप्रकटयन् । योजनविषये | माता कैकेयी । सविशङ्कालक्ष्मणेनसंम आत्मवान् प्रशस्तमनाः । वश्यमनस्कइत्यर्थः ॥ १- त्र्यराज्यंपुनः किंरामोग्रहीष्यतीतिशङ्कावती ॥ ६॥ त- २ ॥ निगृह्येत्युपक्लृप्तमितिचश्लोकद्वयमेकान्वयम् । स्याः कैकेय्याः । शङ्कामयं शङ्कारूपं । स्वार्थेमयट् । प्रा- रोषं पित्रादिविषयं । शोकं मद्विषयं । रोषशोकयोर्नि- चुर्येवा ॥७॥ मातॄणांपितुर्वाविषये कदाचनकृतं बुद्धि- ग्रहेहेतुमाह - धैर्यमाश्रित्येति । केवलमितिधैर्यनैरन्त- पूर्वमपिविप्रियंनस्मरामि । अबुद्धं अबुद्धिपूर्वकमपि । र्यमुच्यते । अवमानम् आरब्धाभिषेकत्यागपूर्वकवनग- | विप्रियंनस्मरामि ॥ ८ ॥ सत्यः सत्यवचनः | सत्या- ती० सत्वं चित्ताविकृतिं ॥ २ ॥ सत्य० निरव्ययं नितरामव्ययं ॥ ४ ॥ ती० मदभिषेकार्थे मदभिषेक निवृत्तिनिमित्तं । मानसंपरितप्यते सामेमाता कौसल्यायथासविशङ्कान स्यात्तथाकुरु | पितृवाक्यपरिपालनस्यराम कर्तव्यस्यअल्पकालसाध्यत्वात्त- द्विषयेत्वयानविषेत्तव्यमित्युपदेशेनेत्यर्थः ॥ ६ ॥ स० तस्याः कौसल्यायाः | मनसिप्रतिसंजातंशङ्कामयं जीवन्पुनरागमिष्यतिन वे- तिशङ्कात्मक । दुःखं उदीक्षितुं उपेक्षितुं ॥ ७ ॥ ति० समारब्धंचविप्रियमितिपाठे नारब्धवानस्मीत्यर्थः ॥ ८ ॥ सत्य० परलो- कभयाद्भीतः परलोकभयंआतयतिप्रापयतीतिपरलोकभयात् पापं तस्माद्भीतः ॥ ९ ॥ [ पा० ] १ छ. झ. ञ. ट. सरोषमिव. २ क. क्रोध. ३ ङ. छ. झ. ट. धैर्यमाक्रम्य. क. धर्ममाश्रित्य • ४ छ. झ. ट. निरस्यैनं. ङ. निरस्यैवं. ख. निरस्यैव. ५ ङ. च. छ. झ ञ ट . यदेतन्मेअभि. क. तुयत्किंचित् ६ ङ. छ. झ. ज. ट. मुत्त- ममू. ७ ङ. च. छ. झ. ञ. ट. निवर्तय. ८ ङ. छ. झ ट . निरव्ययम् ९ सौमित्रे उपक्लृप्तहि इति ५ ४ श्लोकयोः पौर्वापर्य ख. ङ. पुस्तकयोदृश्यते १० ख. ङ. योभिषेकार्थः ११ क ख मदभिषेकार्थ. १२ झ तप्यति. १३ कट. नस्सा. १४ ङ. च, ञ. मुदीक्षितुम् १५ ज. सबुद्धिपूर्वनाबुद्धि,