पुटमेतत् सुपुष्टितम्
218
[अयोध्याकाण्डः
कौसल्याऽऽक्रन्दनम्
[१]यदि ह्यकाले मरणं स्वयेच्छया
लभेत कश्चिद्गुरुदुःखकर्शितः
गताऽहमद्यैव परेतसंसदं
विना त्वया धेनुरिवात्मजेन वै ॥ ५३ ॥
यदीत्यादि । गुरुदुःखकर्शितः कश्चिदपि स्वेच्छया अकाले-उक्तार्थः, [२] मरणं लभेत यदि ; तदा ह्यहमद्यैव त्वया विनाभूता परेतसंसद-यमसभां गता स्यां, तत्तु न लभ्यत इति शेषः ॥ ५३
अथापि किं जीवितमद्य मे वृथा
त्वया विना चन्द्रनिभाननप्रभ ! |
अनुव्रजिष्यामि वनं त्वयैव गौः
सुदुर्बला वत्समिवानुकाङ्क्षया ॥ ५४ ॥
अथापि किं जीवितं-कुत्सितं जीवितं वृथा व्यर्थम् । अतः- अनुव्रजिष्यामीत्यादि । अनुकाङ्क्षया-स्नेहेन ॥ ५४ ॥
भृशमसुखममर्षिता तदा
बहु विललाप समीक्ष्य राघवम् ।
व्यसनमुपनिशाम्य सा महत्
[३]सुतमिव बद्धमवेक्ष्य किन्नरी ॥ ५५ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे विंशः सर्गः