इति तस्य वचः श्रुत्वा सूतपुत्रो महात्मनः ।
स्तुवन्नृपतिशार्दूलं प्रविवेश निवेशनम् ॥ ४३ ॥
तं तु पूर्वोदितं वृद्धं द्वारस्था राज[१]सम्मतम् ।
न शेकुरभिसंरोद्धुं राज्ञः प्रियचिकीर्षवः ॥ ४४ ॥
पूर्वोदितं-पूर्वमेव राज्ञा कस्मिन्नप्यवसरे अकर्तव्यनिरोधतया उदितं-कृताज्ञम् । एवमाज्ञाप्रदाने हेतुः-वृद्धमिति । वयसा तपसा मन्त्रादिना च वृद्धमित्यर्थः ॥ ४४ ॥
स समीपस्थितो राज्ञस्तामवस्थामजज्ञिवान् ।
वाग्भिः परम[२]तुष्टाभिरभिष्टोतुं प्रचक्रमे ॥ ४५ ॥
एवमनुरोधतः स्त्र्यगारस्य समीपं गत्वा तत्समीपे स्थितः स सुमन्त्रो राज्ञस्तामवस्थां-यथोक्तरूपामतिधोरां अजज्ञिवान्-अज्ञातवान् । "वस्वेकाजात्" इति घसेरिट् । अत एव यथापूर्वं स्तोतुमुपचक्रमे ॥ ४५ ॥
सगरो यथा भास्करोदयकाले प्रत्यूर्मिप्रतिफलितसूर्यतेजसा तेजस्वीभूत्वा नन्दति-तथा प्रीतेन मनसा प्रतिफलितसूर्यस्थानीयेन प्रीतः, तत एव हेतोरानन्दघनः-आनन्दपूर्ण[५]स्सन् नन्द-नन्दय ।