पुटमेतत् सुपुष्टितम्
१२ सर्गः]
113
चिरेण संज्ञां स प्राप्य कैकेयीमब्रवीद्वचः
यदा-यस्मात् ते-तव विषये जननीतुल्यां वृत्तिमावहति; [३]तस्मात् अनर्थचिन्तार्हस्य तस्यैवानर्थाय किंनिमित्तं इह-इदानीं उद्यता ॥ ८ ॥
त्वं मयाऽऽत्मविनाशाय भवनं स्वं निवेशिता ॥ ९ ॥
[४]अविज्ञानान्नृपसुता व्याली तीक्ष्णविषा यथा ।
अयं स्वयंकृतानर्थमूल एवेत्याह-त्वमित्यादि । अविज्ञानादिति इष्टसाधनत्वभ्रान्त्येत्यर्थः ॥ ९ ॥
[५]जीवलोको यदा सर्वो रामस्याह गुणस्तवम् ॥ १० ॥
अपराधं कमुद्दिश्य त्यक्ष्यामष्टिमहं सुतम् ।
यदा-यस्मात् । उद्दिश्य-व्याजीकृत्य । न त्वेव त्यजेयमित्यनुकर्षः ॥ १० ॥
कौसल्यां च सुमित्रां च त्यजेयमपि वा श्रियम् ॥ ११ ॥
जीवितं वाऽऽत्मनो रामं न त्वेव पितृवत्सलम् ।
परा भवति मे प्रीतिः दृष्ट्वा तनयमग्रजम् ॥ १२ ॥
अपश्यतस्तु मे रामं नष्टा भवति चेतना ।
- ↑ सदा-ङ.
- ↑ यदैव जननीतुल्यां वृत्तिं वहति तदैव तस्यैवानर्थाय किन्निमित्तमुद्यता-गो.
- ↑ यस्मात्-क.
- ↑ अत्र नृपसुतेत्यनन्तरमितिकरणं द्रष्टव्यमिति गोविन्दराजीयम् ॥ भवत्स्वभावमविज्ञाय नृपसुतेति मत्वा स्वं भवनं निवेशितेत्यर्थः
- ↑ जीवलोकः सर्वोऽपि यदा रामं स्तौति-तदा तस्य विवासने मम को वाधिकार इति भावः ॥ यदेत्यनेन रामगुणस्तवस्य भूतपूर्वत्वं नास्तीत्युच्यते ॥