सामग्री पर जाएँ

पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

मातृकाधिकारः ] उत्तरार्धे प्रथमः पटल: । हरत्वाच्च हरित्वाच्च शिवशक्त्योस्तु युक्तयोः ॥ १२२ ॥ श्लिष्टोच्चारितयोः शाब्दं रूपं तद् बीजमीरितम् । हारस्तु भवेद् ब्रह्मा ईकारो विष्णुरिष्यते ॥ १२३ ॥ रेफो रुद्रोऽभिरेव स्याद् बिन्दुरीश्वर उच्यते । नादः सदाशिवो ज्ञेयो नादान्तस्तु शिवः स्वयम् ॥ १२४ ॥ हकारो व्यक्तिमापन्नो हार्दघोषविवर्जितः । अकारतां गतस्तस्य भेदो अक्षरसन्ततिः ॥ १२५ ॥ ऊकारान्तान्यकारादीन्यक्षराणि षडस्य तु । विकृतिः स्याद् विशेषेण रेफस्य तु ऋ ॠ ऌ ॡ ॥ १२६ ॥ ईकारभेदतस्त्वासन्नेकाराद्यक्षराणि षट् । इत्थं षोडशधोत्पन्नाः स्वराख्याः शक्तिबीजतः ।। १२७ ॥ ऋऋलृलृवियुक्तास्ते द्वादशेत्यपरे जगुः । ह्रस्वस्वरा बिन्दुयुताः पुमांसो ह्यर्करूपिणः ।। १२८ ॥ दीर्घस्वरा विसर्गान्ताः स्त्रीलिङ्गाः सोमरूपिणः । ऋऋलृलृचतुष्कं तु सौम्याग्नेयं नपुंसकम् ॥ १२९ ॥ हकारः शब्दगुणवानाकाशमसृजत् पुरः । व्योम्नः स्पर्शगुणो वायुः स्पर्शाख्याः कादयोऽभवन् ॥ १३० ॥ पञ्चपञ्चाक्षरास्ते तु पञ्चवर्गास्त्विनात्मकाः । याद्यक्षरचतुष्कं तु वाय्वमिक्ष्माम्भसां तनुः ॥ १३१ ॥ स्पर्शो रूपं तथा गन्धो रसाख्यस्तद्गुणाः क्रमात् । शेषास्तु व्यापकाः शाद्याः साग्नीषोमाः स्वरस्पृशः ॥ १३२ ॥ इत्थं पञ्चाशदुत्पन्ना वर्णाः शक्तिप्रभेदतः । कादयः पञ्चविंशार्णा यादयः शादयस्तथा ॥ १३३ ॥ स्थानप्रयत्नभेदेन जायन्ते खल्वकारतः । अकारादिस्वरैर्युक्तहलां योगान्मिथोऽपि च ॥ १३४ ॥ शब्दप्रपञ्चः सर्वोऽपि विचित्रं जायते स्फुटम् | इयं हि मातृका ख्याता पञ्चाशद्वर्णसंहतिः ॥ १३५ ॥ D