तत्-तस्मात् गच्छतेत्यादि । अनुगच्छत । अन्विष्यध्वमिति यावत् ॥ १३ ॥
यावत्तुरगसन्दर्शः तावत् खनत मेदिनीम् ।
तं चैव हयहर्तारं मार्गमाणा ममाज्ञया ॥ १४ ॥
भूमेरुपर्यन्वेषणे[१] न लब्धं चेत्तदा-यावत्तुरगेत्यादि ॥ १४ ॥
दीक्षितः पौत्रसहितः सोपाध्यायगणो ह्यहम् ।
इह स्थास्यामि, भद्रं वः, यावत्तरगदर्शनम् ॥ १५ ॥
स्वस्य तुरगानुगमनमयुक्तमित्याह-दीक्षित इत्यादि । यस्माद्दीक्षितः, तस्मात् 'गर्भो वा एष यद्दीक्षितो योनिर्दीक्षितविमितम्' इत्यादिना 'न प्रवस्तव्यम्' इति निषेधात् अहमिह स्थास्यामि, पौत्रस्य [२]बालत्वतः तत्सहित एव तिष्ठामि ॥ १५ ॥
इत्युक्ता हृष्टमनसो राजपुत्रा महाबलाः ।
[३]जग्मुर्महीतलं राम ! पितुर्वचनयन्त्रिताः ॥ १६ ॥
यन्त्रिताः-नियुक्ताः ॥ १६ ॥
योजनायामविस्तारमैकैको धरणीतलम् ।
बिभिदुः पुरुषव्याघ्र ! वज्रस्पर्शसमैर्नखैः ॥ १७ ॥
आयामः-दैर्ध्यं । विस्तारः-विशालता च । एकैको धरणीतलं सर्वमपि सस्नेहात्-समुदं बिभिदुरित्यर्थः ॥ १७ ॥