राघववचनप्रकारः-गतेत्यादि । तरामः-तरणं कुर्मः । शुभमास्तीर्णं-आस्तरणं यस्यास्सा तथा । ऋषीणां नौस्त्वरितमागतेति योजना ॥ ७ ॥
तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ॥ ८ ॥
संतारं कारयामास [१]सर्षिसङ्घः सराघवः ।
कारयामासेति । स्वार्थे णिः । अकरोदिति यावत् [२] ॥ ८ ॥
उत्तरं तीरमासाद्य सम्पूज्यर्षिगणं तदा ॥ ९ ॥
गङ्गाकूले निविष्टास्ते विशालां ददृशुः पुरीम् ।
सम्पूज्यर्षिगणमिति । नावानायकमिति शेषः ॥ ९ ॥
ततो मुनिवरस्तूर्णं जगाम सह राघवः ॥ १० ॥
विशालां नगरीं रम्यां दिव्यां स्वर्गोपमां तदा ।
दृष्ट्वा विशालां जगामेति योजना ॥ १० ॥
अथ रामो महाप्राज्ञो विश्वामित्रं महामुनिम् ॥ ११ ॥
पप्रच्छ प्राञ्जलिर्भूत्वा विशालामुत्तमां पुरीम् ।
विशालां पप्रच्छेति । विशालाविषयं प्रश्नं कृतवानित्यर्थः ॥
कतरो राजवंशोऽयं विशालायां महामुने !
श्रोतुमिच्छामि, भद्रं ते, परं कौतूहलं हि मे ॥ १२ ॥
तस्य तद्वचनं श्रुत्वा रामस्य मुनिपुङ्गवः ।
आख्यातुं तत्समारेभे विशालस्य पुरातनम् ॥ १३ ॥