सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/९४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती ज्वभासानुपपत्तेः । तदनपेक्षत्वे त्वनवस्थेति चेत् । न, अनुव्यव सायप्रतीतिसामग्रीप्रतिबन्धक सुखादिविरहविशिष्टस्यैव ज्ञानमनः- संनिकर्षस्य प्रतीतिहेतुत्वात् ॥ इति बुद्धिः || संस्कारच वेगात्मा आपतनादेको न भवति, उत्तर संयो गविरोधित्वात् कर्मवत् । न चैतदसिद्धम्, अन्यथाऽनाशप्र सङ्गात् । दूरसंयोगस्तद्धेतुरिति चेन्न । अन्तिकेऽपि घनसंयोगेन नाशात् । सोऽपीति चेन्न | अनियतहेतुकतापतेः । संयोगभेद इति चेत् | न, संयोगिजातिवैचित्र्ययोरनुपपत्तेः । ८६२ न्यायललिावतकिण्ठाभरणम् मानोल्लेखानुपपत्तेरिति शङ्कते जिज्ञासेति । अनुव्यवसायप्रतीतिरि त्यत्र षष्ठीसमासेन कर्म्मधारयेण वा ( १ ) | सुखादिविरत | तीव्रलंवे- गिसुखदुःखाद्यभावविशिष्टस्तत्सामग्य भावविशिष्टो वा मनःसन्नि- +कर्षो वा हेतुरित्यर्थः । इष्वादिक+र्मणा जनितो वेगः पतनपर्थ्यन्तमेक एवानुगत इति मतमास्कन्दति संस्कार इति । न चैतदिति । उत्तरसंयोगनाइयत्व मित्यर्थः । स्रोऽपीति । बन्दिरेव घनसंयोगो दूरसंयोगो (१) नुगम: स्यादित्यर्थः । संयोगभेदक्कतः संयोगद्वाराजातिभेद्कृतो वा न संयोगभेदोऽस्ति सं स्कारनाशकोऽनुगत इत्याह संयोगीति । न्यायलीलावतीप्रकाशः शानस्य म स्यादित्याह जिज्ञासेति । वस्तुतो ज्ञानस्य जिज्ञासापेक्षाया. मध्यनवस्थैव, जिलासा हि धर्मिज्ञानपूर्विका तज्ज्ञानमपि जिज्ञासा. जन्य सापि ज्ञानजन्यैव । अनुव्यवसायेति । तीव्रसंवेगिमनोग्राह्यगुणा. न्तराभावो ज्ञानग्रहणकारणमित्यर्थः । इष्वादावुत्तर संयोगेनाद्य कर्मनाशे तज्जनितो वेग आपतनमेक एवोत्तरोत्तरकर्मजनक इति मतमाक्षिपति संस्कारश्चेति । अन्यथेति । य सुन्तरसंयोगनाइयो न वेगः स्यात् तदा तन्नाशकान्तराभावात् तेन कर्मपरम्परा जन्येतेत्यर्थः । संयोगीति । संयोगविशेषो न संयोगिकृतो न वा जातिकृत इत्यर्थः । न्यायलीलावतीप्रकाशविवृतिः तीब्रसंवेगीति | फलबलेन सुखादिग्रहसामग्रथा ज्ञानप्रहप्रतिबन्धक. ( १ ) भाग्यमिति शेषः ।