स बद्धो वाग्भिरग्रयाभिरभितुष्टाव वै सुरौ ।
इन्द्रमिन्द्रानुजं चैव यथावन्मुनिपुत्रकः ॥ २५ ॥
इन्द्रानुजो विष्णुर्यूपदेवः । इन्द्रः पशुभोक्ता ॥ २५ ॥
ततः प्रीतः सहस्राक्षो रहस्यस्तुतितर्पितः ।
दीर्घमायुस्तदा प्रादात् शुनश्शेफाय राघव ! ॥ २६ ॥
रहस्यस्तुतिः वैश्वामित्री ॥ २६ ॥
स च राजा नरश्रेष्ठ ! [१]यज्ञस्य च समाप्तवान् ।
फलं बहुगुणं राम ! सहस्राक्षप्रसादजम् ॥ २७ ॥
सम्यक् आप्तवान्-समाप्तवान् । 'हरिश्चन्द्रो ह वैधस ऐक्ष्वाको राजाऽपुत्र आस' इत्यादि [२]बह्वृचब्राह्मणे, हरिश्चन्द्रनरमेधे शुनःशेफस्याजीगर्तसुतस्य पशुत्वं, 'कस्य नूनं कतमस्य' इत्यादिना मन्त्रेण प्रजापत्याद्यनेकदेवतास्तुत्यादिकं च प्रतिप्राद्यते । कथमिदमुच्यते-अम्बरीषयागे ऋचीकपुत्रः शुनश्शेफ इन्द्राविष्णू स्तुत्वा मुक्त इति ? सत्यम्-अम्बरीष एवैक्ष्वाकः । स एव हरिरिव चन्द्र इव च इति हरिश्चन्द्रः । ऋचीकः, स एवाजीर्गतः । तत्र प्रजापतिस्तुतिरिति यदुक्तं सैवेहोच्यमानविष्णुस्तुतिः । विश्वामित्रसम्बन्धः तेनैतत्पुत्रशापादिः श्रुतावप्यविशिष्टः[३] ॥ २७ ॥