सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/४८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०७
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता ४


न्यायलीलावतीप्रकाशः

वृत्तिगुणत्वव्याप्य जातिशून्य संयोगासमवायि कारण कैकवृत्तिगुणवान् मूर्त्तत्वात् पार्थिवपरमाणुवत् । तादृशो गुणो दृष्टान्तं गन्धादिरुभयसि-

न्यायलीलावती प्रकाशविवृतिः

स्थ्यमित्यसमवायीति । घटरूपं तु न पाकजमिति भावः । एवमध्यन्यतरसिघ्घाऽर्थान्तरमिति शून्यान्तं गुणविशेषणम् । तत्रापि नानापरत्वैरर्थान्तरमिति गुणत्वव्याप्यजातिगर्भता । गुणत्वव्याप्यजातिपदं च गुणविभाजकोपाधिपरमन्यथा दैशिक कालिकपरत्वयोः परम्परविजातीयतया परत्वापरत्वासिद्धिः वस्तुतोऽग्रे विस्तुव्यकालाप्रतियोगिकत्वादिविशेषणादेवैत होषानवकाशः । रूपादिव्यात्तैनाय संयोगासमवायिकारण केति । तत्राप्यदृष्टवदात्मसंयोगमादाय बाध इत्यसमवायीति । संयोगव्यावर्त्तनाय एकवृत्तीति । परमाणुरूपादिव्यावर्त्तनाय समानाधिकरणेति । प्रचयाख्य संयोगजन्यं परिमाणं घंटे बाधितमेवेतिन तेनार्थान्तरम् । गुणत्वव्याप्यपदं तु सत्तादिना बाधवारणाय । प्रथमगुणपदं तु सम्पातायातम् । न च दैशिकसाधने कालिकाभ्यां कालिकसाधने च दैशिकाभ्यां परवापरत्वाभ्यामथांन्तरमिति वाच्यम्, दैशिकसाधने कालाप्रतियोगित्वस्य कालिकसाधने दिगप्रतियोगित्वस्याभयदले संयोगविशेषणत्वात् । क्कचि०त्तु समानाधिकरणपदोत्तरं द्विष्ठपदमग्रिमप्रतीके चैकवृत्तिपदहीन एव पाठस्तत्र समानाधिकरणपदानन्तरं गुणपदं विजातीयपदं च प्रवेश्यमतो नाभिघातजकर्मसामानाधिकरण्येन सजातीयव्यक्ति विशेष सामानाधिकरण्येन वाऽर्थान्तरम् । तादृशस्वसमानाधिकरणगुणविजातीयद्वष्ठगुणवृत्तिगुणत्वव्याव्यजातिशून्यश्च यस्तादृशो गुणस्तद्वत्त्वमिति च साध्यनिरुक्तिरिति दिक् ।

 मृतत्वादिति । न च परिमाणवत्त्वादित्येव साधु दिक्कालयोर्व्यवच्छेद्ययोः परत्वाद्यसिद्धिदशायामसिद्धेरिति वाच्यम्, प्रकारान्तरेणापि तयोः सिद्धेरसिद्धावण्याकाशे निरुक्तसाध्याभावेन व्यभिचारात् । क्षणद्वयावस्थायित्वं च हेतुविशेषणमतो न तृतीयक्षणनष्टघंटे व्यभिचारः । तत्र द्वितीयक्षणेऽसमवायि संयोगोत्पत्या परत्वाद्यनुत्पत्तेः । कालिकपरत्वसाधने च गन्धवत्वं विशेषणमतो न मनसि न वा जलादिपरमाणौ व्यभिचारः । न च विशेष्यदलं तथा सति व्यर्थमिति