पुटमेतत् सुपुष्टितम्
६७ सर्गः]
459
कौशिकप्रेरितो रामः पूरयामास तद्धनुः
प्रपूरणं-प्रसज्य धनुष आकर्णाकर्षणम् । इदं पूर्णबलम् । एतदधः-यत् आरोपणादि । आरोपणं-सज्यकरणं । समायोगः-शरेण संयोजनं । वेपनं-ज्यास्फालनं । तोलनं वर्णितचरम् । तोलनादिकृत्ये मानुषाणां क्व गतिः-क्व सामर्थ्यम्। अथापि त्वदाज्ञया आनीतं एतत् धनू राजपुत्रयोः [३]प्रदर्शनाय ॥ ११ ॥
विश्वामित्रः स धर्मात्मा श्रुत्वा जनकभाषितम् ।
वत्स ! राम ! धनुः पश्य इति राघवमब्रवीत् ॥ १२ ॥
महर्षेर्वचनाद्रामो यत्र तिष्ठति तद्धनुः।
मञ्जूषां तामपावृत्य दृष्ट्वा धनुरथाब्रवीत् ॥ १३ ॥
अपावृत्य-अपगतावरणां कृत्वा ॥ १३ ॥
इदं धनुर्वरं ब्रह्मन् ! संस्पृशामीह पाणिना ।
यत्नवांश्च भविष्यामि [४]तोलने पूरणेपि वा ॥ १४ ॥