ब्राह्मण्यं प्राप्तवानसीति देवोक्त्यचनन्तरमायुः प्रयच्छति भगवान्-दीर्घमायुरित्यादि । यथासुखमिति । तपस उपरत इति शेषः ॥ २० ॥
पितामहवचः श्रुत्वा सर्वेषां च दिवौकसाम् ।
कृत्वा प्रणामं मुदितो व्याजहार महामुनिः ॥ २१ ॥
[३]ब्राह्मण्यं यदि मे प्राप्तं दीर्घमायुस्तथैव च ।
ओङ्कारश्च वषट्कारो वेदाश्च वरयन्तु माम् ॥ २२ ॥
ओङ्कारः–ब्रह्मविद्यासाधनम् । वषट्कारः-यज्ञरूपब्रह्मकृत्यसाधनम् । वेदास्तु पूर्वापरविभागेन ब्रह्मकृत्यज्ञानापेक्षिताङ्गोपाङ्गसमस्तपरिकरप्रतिपादकाः । ते सर्वे यथा भगवन्मुखजं वसिष्ठवामदेवादिसहजब्रह्मकुलं वरयन्ति; वृञ् श्नौ, श्नायां वृञ्, णौ वृञ् आवरणे, श्नायां वृङ् संभक्तौ, अतो वरतेः स्वार्थे णिः । वृण्वन्तु एवं स्वप्रतिष्ठात्वेनाङ्गीकुर्वन्तु– स्वेषामुपदेशाध्यापनयाजनेऽनुमतिं कुर्वन्त्वित्यर्थः ॥
[४]क्षत्रवेदविदां श्रेष्ठो ब्रह्मवेदविदामपि ।
ब्रह्मपुत्रो वसिष्ठो मामेवं वदतु देवताः ! ॥ २३ ॥
यद्ययं परमः कामः कृतो यान्तु सुरर्षभाः ।
- ↑ भवता एकेनैव अङ्गीकारे किं फलमित्यत्राह-समरुद्गण इति । अत एव उत्तरत्र 'देवताः' इत्युक्तिः सङ्गच्छते ।
- ↑ यथाऽऽगतम्-ङ.
- ↑ ब्राह्मणशब्दयोगार्थपौष्कल्येपि न हि मुख्यं ब्राह्मण्यं संभवेदित्यर्थः ।
- ↑ ब्रह्मवेदविदां-ब्राह्मणैकवेद्यब्रह्मदण्डाभिधवेदाभिज्ञानामपि - शि. ब्रह्मवेदाः-ब्रह्मप्रतिपादका वेदाः वेदान्ताः । यद्वा ब्राह्मणमात्रप्रवचनार्हावेदाः त्रयीरूपाः -गो.