ब्रह्मन्न प्रतिजानीम इति । प्रतिक्रियामिह न जानीम इत्यर्थः । नास्तिको जायत इति । उक्तरूपजगत्क्षोभवशान्नास्तिक इव कर्मानुष्ठानशून्यो जायत इत्यर्थः ॥ १४ ॥
संमूढमिव त्रैलोक्यं संप्रक्षुभितमानसम् ।
भास्करो निष्प्रभश्चैव महर्षेस्तस्य तेजसा ॥ १५ ॥
उक्तार्थस्यैव अनुवादपूर्वकमनुष्ठेयांशमाह-संमूढमिवेति । संमूढमिवत्रैलोक्यमिति वृत्तभङ्गः [१]प्राग्वत् ॥ १५॥
बुद्धिं न कुरुते यावन्नाशे देव ! महामुनिः।
तावत्प्रसाद्यो [२]भगवान् अग्निरूपो महाद्युतिः॥ १६ ॥
हे देव ! अतः परं विश्वामित्रो जगत्क्षये यावत् बुद्धिं न कुरुते तावत् प्रसाद्यः-अनुग्राह्यः ॥१६॥
पूर्वमिति । युगान्तकाल इत्यर्थः । देवराज्यं चिकीर्षेतापि, हिरण्यादिवत् , तदप्यस्य मतं-अभीष्टं दीयताम् ॥ १७ ॥
ततः सुरगणाः सर्वे पितामहपुरोगमाः ।
विश्वामित्रं महात्मानं वाक्यं मधुरमब्रुवन् ॥१८॥
ब्रह्मर्षे ! स्वागतं तेऽस्तु तपसा स्म सुतोषिताः ।
स्वागतमिति । भद्रमित्यर्थः । स्मेति । [५]सकारलोपश्छान्दसः ॥