कश्मलोपहताः-दुःखोपहताः ॥९॥
बहुभिः कारणै[३]र्देव विश्वामित्रो महामुनिः ॥ १० ॥
लोभितः क्रोधितश्चैव तपसा चाभिवर्धते ।
न ह्यस्य वृजिनं किञ्चिद्दृश्यते सूक्ष्ममप्यथ ॥ ११ ॥
लोभितः क्रोधितश्चैवेति । अथापि निर्विघ्न इति शेषः । वृजिनंपापं । सूक्ष्मं वृजिनं रागद्वेषरहितेन स्वतस्तत्त्वप्रतिष्ठालक्षणं सर्वभुवि साधारणं नीरागद्वेषनिजचित्तनिजतत्त्वब्रह्मप्रतिष्ठानमेव ब्रह्मलोकाधिकारिब्रह्मर्षिमुख्यलक्षणं, तदस्य संपन्नं; अतो ब्रह्मर्षितानुमतिः कर्तव्या; अन्यथा लोकनाश इत्याहुः ॥ ११ ॥
न दीयते यदि त्वस्य तपसा यदभीप्सितम् ।
[४]विनाशयति त्रैलोक्यं तपसा सचराचरम् ॥१२॥
न दीयत इत्यादि । विनाशयति त्रैलोक्यमिति वृत्तभङ्ग आर्षः ॥१२॥
व्याकुलाश्च दिशस्सर्वा न च किश्चित्प्रकाशते ।
सागराः क्षुभिताः सर्वे विशीर्यन्ते च पर्वताः ॥ १३ ॥
प्रकम्पते च पृथिवी वायुर्वाति भृशाकुलः ।
ब्रह्मन् ! न प्रतिजानिमो [५]नास्तिको जायते जनः ॥१४॥