पुटमेतत् सुपुष्टितम्
308
[अयोध्याकाण्डः
सीतावनानुगमनाभ्यनुज्ञा है
कुशकाशशरेषीका ये च कण्टकिनो द्रुमाः ।
[१] तूलाजिनसमस्पर्शा मार्गे मम सह त्वया ॥ १२ ॥
तुलैः, [२]अजिनविशेषैः शीतमृदुस्पर्शवद्भिस्समास्तथा ॥ १२ ॥
यदा शिश्य इति । त्वया सहति शेषः । कुथाः- चित्रकम्बलविशेषाः। [५]आस्तरणं-कटादितल्पं मञ्चः ॥ १४ ॥
पत्रं मूलं फलं यत्त्वमल्पं वा यदि वा बहु ।
दास्यसे स्वयमाहृत्य तन्मेऽमृतरसोपमम् ॥ १५ ॥
न मातुर्न पितुस्तत्र मरिष्यामि न वेश्मनः ।
आर्तवान्युपभुञ्जाना पुष्पाणि च फलानि च ॥ १६ ॥
न मातुरित्यादौ 'अधीगर्थ...' इति कर्मणि षष्ठी । आर्तवानितत्तदृतौ भवानि ॥ १६ ॥
- ↑ तूलः-पर्यङ्कनिर्माणोपयोगी मृदुतमः कार्पासविशेषः
- ↑ अजिनं-कन्दल्याद्यजिनं- 'कदली कन्दली च नचमूरुप्रियकावपि । समूरुश्चेति हरिणा अमी अजिनयोनयः 'इत्यभिधानात्-गो.
- ↑ मपकरिष्यति-ङ.
- ↑ कुशा-ङ.
- ↑ आस्तरणानि-कौसुंभोत्तरच्छदाः-गो.
- ↑ मत्कृते विप्रियं न द्रष्टुमर्हसीति योजना न च ते शोक: मत्कृते । नापि दुर्भरा भविष्यामि ।
- ↑ त्वत्कृते-ङ.
- ↑ दुर्मनाः-ङ.