________________
[ ईशानशिवगुरुदेवपद्धतौ मन्त्रपादः
कनकवसनां चन्द्रापीडां स्मरञ्जुहुयाज्जले
सलिलकुसुमैर्गन्धैर्विन्देदसौ हरिणीं श्रियम् ॥ ३६ ॥ हरिणी । स्फटिकधवलां शुक्लाकल्यां महौघजले स्थिता___ मभयवरदे चाबिभ्राणां सपाशमथाङ्कुशम् ।
मधुरमिलितै हद् वृष्टिं स्मरन् नवतण्डुलै
र्जपतु च जले स्थित्वा नाभेर्मिते लभतेऽयुतम् ॥ ३७॥ अयोमुष्टिगदाहस्ता पीता पीताम्बरादिका । माहिषाक्तपुलाकाक्षैः स्तम्भयेत् संस्मृताहुतैः ।। ३८ ॥
सशूलमुसला धूम्रा ह्येषा राजीघृताप्लुतैः ।
निम्बपत्रैः सकार्पासबीजैर्षिद्वेषयेद्धुतात् ॥ ३९ ॥
सैव तर्जनिकाशूलहस्ता मरिचमाहिषैः । विषपत्रैश्च राजीभिर्होमादुच्चाटयेदरीन् ॥ ४० ॥ शूलहस्ताग्निसङ्काशा मरीचोन्मत्तराजिभिः । तीक्ष्णतैलान्वितैर्होमाद् दुर्गेषा मोहयेत् परान् ॥ ४१ ॥
असिगुणकरां कृष्णां ध्यायन्नरुष्करजार्दिता ___
रिपुहसमिधा हुत्वा शत्रून् नयेद् यमसादनम् । मरिचभसमिद्राजीराजीघृताप्लुतहिङ्गुभि
र्विषतरुभवैः काष्ठैश्चैत्यैर्निशास्वरिमारणम् ॥ ४२ ॥
विषाक्षशितिमत्तजा महिषराजितैलोक्षिता
जुहोतु समिधः पृथग् दशशतं तु कालाष्टमीम् ।
प्रभृत्यपि दिनान्ततः परिलुठन् स पृथ्वीतले
विलापपरमो बजेद् यमपुरं तु पक्षादरिः ॥ ४३ ॥ पृथ्वी । प्रतीच्य कुसुमान्विते मरिचचूर्णमिश्रे जले रिपोरुडुतरूद्भवां प्रतिकृतिं रुषा कथयेत् । 1. णात्रि' क., 'जीवधि' ख. पा. २. 'न' क. स. पाठ:. . 'रि' क. न. पा. ४. 'जिष्णु' ग. पार.. ५. 'भ' ख. पाठः,