तदा विष्णुतपःकाले अयं सिद्धाश्रम इति ख्यातः | हि यस्मात्, महातपाः-विष्णुरत्र तपस्सिद्धः, तस्मादेव । [१]तदाख्या ॥ ३ ॥
एतस्मिन्नेव काले तु राजा वैरोचनिर्बलिः ॥ ४ ॥
निर्जित्य दैवतगणान् सेन्द्रांश्च समरुद्गणान् ।
[२]कारयामास तद्राज्यं त्रिषु लोकेषु विश्रुतः ॥ ५ ॥
एतस्मिन्नेव काले विष्णोविराजस्तपश्चरणकाल एव तद्राज्यं कारयामास, स्वार्थे णिः, इन्द्रादिदेवराज्यं स्वयमेवाभुङ्क्तेति यावत् ॥ ५ ॥
बलेस्तु यजमानस्य देवाः साग्निपुरोगमाः ।
समागम्य स्वयं चैव विष्णुमूचुरिहाश्रमे ॥ ६ ॥
बलेरित्यादि । भावलक्षणे षष्ठी, बलौ यजमाने यागं कुर्वाणे सति, पुरोगमेनाग्निना सहिताः साग्निपुरोगमाः देवाः, अग्निमुखत्वादेव देवानां तत्पुरोगमत्वम् इहाश्रमे तपश्चरन्तं विष्णुं स्वयमेव समागत्योचुः ॥ ६ ॥
बलिर्वैरोचनिर्विष्णो ! यजते यज्ञमुत्तमम् ।
असमाप्ते क्रतौ तस्मिन् स्वकार्यमभिपद्यताम् ॥ ७ ॥
किमूचुरित्यतः–बलिरित्यादि । यजत इति । कर्त्रभिप्रायत्वादात्मनेपदम् । ननु कथं असुरस्य यागः ? काऽनुपपत्तिः ? उच्यते--'यस्यै देवतायै हविर्गृहीतं स्यात् तां ध्यायेत् वषट्करिष्यन् साक्षादेव तद्देवतां प्रीणाति' इति श्रुतेस्तत्तद्देवताध्यानपूर्वं तत्तन्मन्त्रेण तत्तदुद्देशेन