पश्य लक्ष्मण ! यक्षिण्या भैरवं दारुणं वपुः ।
[१]भिन्देरन् दर्शनादस्या भीरूणां हृदयानि च ॥ १० ॥
एनां पश्य दुराधर्षां मायाबलसमन्विताम् ।
विनिवृत्तां करोम्यद्य हृतकर्णाग्रनासिकाम् ॥ ११ ॥
विनिवृत्तामिति । अस्मदभियानादिति शेषः ॥ ११ ॥
न ह्येनामुत्सहे हन्तुं स्त्रीस्वभावेन रक्षिताम् ।
वीर्यं चास्या गतिं चापि हनिष्यामीति मे मतिः ॥ १२ ॥
कुत एवं निवर्तनमात्रमित्यतः-नहीत्यादि । कथमेवं वक्ति ? ताटकावधं करिष्यामीत्युक्त्वा पुनः 'हन्तुं नोत्सहे' इति । प्राणवियोजनेनापि तत्कृतपीडाभावस्यैव साध्यत्वात् पाणिपादादिछेदनेन वीर्यगतिमाया[२]संहारेणाकिंञ्चित्करत्वस्य [३]सिद्धत्वात्तावता गुरुवचनानुष्ठानस्य च सिद्धत्वात् शूरविगर्हितो माऽस्तु स्त्रीवध इति यावत् ॥ १२ ॥
एवं ब्रुवाणे रामे तु ताटका क्रोधमूर्च्छिता ।
उद्यम्य बाहू गर्जन्ती राममेवाभ्यधावत ॥ १३ ॥
'धावुञ् गतिशुद्ध्योः' इति, उभयपदित्वादस्य-अभ्यधावत इति ॥ १३ ॥
विश्वामित्रस्तु ब्रह्मर्षिः हुङ्कारेणाभितर्ज्य ताम् ।
स्वस्ति राघवयोरस्तु जयं चैवाभ्यभाषत ॥ १४ ॥
विश्वामित्रस्य दुर्घर्षतेजस्त्वेन तं विसृज्य राममेव मानुषबुद्ध्या धावन्तीं तां ताटकां विश्वामित्रो हुङ्कारेण सामान्यतः अभितर्ज्य,