गोब्राह्मणहितार्थाय देशस्यास्य सुखाय च ।
तव चैवाप्रमेयस्य वचनं कर्तुमुद्यतः ॥ ५ ॥
कुत एवमित्यतः-तव चेत्यादि । चो हेतौ, च-यस्मात्, अप्रमेयस्य तव वचनं कर्तुमेव पितृनियोगः तं कर्तुमुद्यतः, अतो न विचिकित्साप्रसङ्गः ॥ ५ ॥
एवमुक्त्वा धनुर्मध्ये बध्वा मुष्टिमरिन्दमः ।
ज्याघोषमकरोत्तीव्रं दिशः शब्देन नादयन् ॥ ६ ॥
तीव्रं-परुषश्रवणम् ॥ ६॥
[१]तेन शब्देन वित्रस्ता ताटकावनवासिनः ।
वित्रस्ताः-भीताः ॥ ७ ॥
ताटका च सुसङ्क्रुद्धा तेन शब्देन मोहिता ॥ ७ ॥
तं शब्दमभिनिध्याय राक्षसी क्रोधमूर्च्छिता ।
श्रुत्वा चाभ्यद्रवद्वेगात् यतः शब्दो विनिस्सृतः ॥ ८ ॥
मोहिता-किमिदानीं कर्तव्यमिति सम्भ्रान्तचित्ता यतश्शब्दो विनिस्सृतः, तं शब्दं श्रुत्वा तमेव अभिनिध्याय-आलक्ष्य अभ्यद्रवदिति योजना ॥ ८ ॥
तां दृष्ट्वा राघवः क्रुद्धां विकृतां विकृताननाम् ।
प्रमाणेनाति [२]वृत्तां च, लक्ष्मणं सोऽभ्यभाषत ॥ ९ ॥
प्रमाणेन-शरीरप्रमाणेन । अतिवृत्तां-अतिप्रवृद्धाम् ॥ ९ ॥