[१]अवध्यातस्य रुद्रेण चक्षुषा रघुनन्दन !
व्यशीर्यन्त शरीरात् स्वात् सर्वगात्राणि दुर्मतेः ॥ १२ ॥
ततो देवेशेन महात्मना रुद्रेणावध्यातः-कुत एवमिति ध्यानम्, ज्ञातापराधः, ततो हुङ्कृतः, चक्षुषा दग्धश्च । अयं व्यापारः कस्मिंश्चिदहनि रुद्रमूर्तिभेदेन काममूर्तिभेदस्येति द्रष्टव्यम् । ततः किं इत्यतः-व्यशीर्यन्तेत्यादि । शृ हिंसने । ततश्च कर्तरि श्यन् ॥ १२ ॥
[२]तत्र गात्रं हतं तस्य निर्दग्धस्य महात्मना ।
अशरीरः कृतः कामः क्रोधाद्देवेश्वरेण हि ॥ १३ ॥
तत्र हतमिति । तस्मिन् काले देशे चेत्यर्थः । हिशब्दः प्रसिद्धौ ॥ १३ ॥
अनङ्ग इति विख्यातः तदाप्रभृति राघव !
स चाङ्गविषयः श्रीमान् यत्राङ्गं प्रमुमोच ह ॥ १४ ॥
स चाङ्गविषय इत्यादि । यत्र देशे स कामोऽङ्गं मुमोच ह, तत एवान्वर्थनिर्वचनः श्रीमान् सोऽसौ अङ्गविषयः ॥ १४ ॥
तस्यायमाश्रमः पुण्यः तस्येमे मुनयः पुरा ।
शिष्या धर्मपरा नित्यं तेषां पापं न विद्यते ॥ १५ ॥
[३]तस्मिन्-अस्मिन् देशे वर्तमानः पुण्योऽयमाश्रमः तस्य-स्थाणोः । इमे हि मुनयः इदानीमिह तपस्यन्तस्तस्य दक्षिणामूर्तिरुद्रस्य पुरा-पूर्वकालमारभ्य सन्तानपरम्परया च शिष्याः । यदेवमतः-धर्मपराः-धर्मैकतत्पराः । अतः तेषां कदापि पापं न विद्यते । एतेन प्रश्नद्वयं तत् प्राप्तोत्तरम् ॥ १५ ॥