पावकी द्वौ कुमारौ सुब्रह्मण्याविवेत्यभूतोपमान्तः । पावकित्वविशेषणं तेजोविशेषवत्त्वद्योतनाय ॥ १० ॥
अध्यर्धयोजनं गत्वा सरय्वा दक्षिणे तटे ।
रामेति मधुरां वाणीं विश्वामित्रोऽभ्यभाषत ॥ ११ ॥
अध्यारूढमर्धं यस्मिन् तत् अध्यर्धम्, ततः कर्मधारयः, सार्धयोजनमिति यावत् । तावद्दूरगमने बालकयोः क्षुत्तृड्पीडाप्रादुर्भावस्यावश्यकत्वात् महावैभव ऋषिर्विनाऽप्यन्नं परमतृप्तये दिव्यविद्ये उपदिशति—रामेत्यादि ॥ ११ ॥
गृहाण वत्स! सलिलं मा भूत् [१]कालस्य पर्ययः ।
मन्त्रग्रामं गृहाण त्वं बलामतिबलां तथा ॥ १२ ॥
सलिलं गृहाणेति । शुद्धाचमनं कुर्विति यावत् । पर्ययः-अतिक्रमः । मन्त्रग्रामं-मन्त्रसमूहम्- [२]प्रागुक्तजयासुतादिव्यास्त्रशतम्, तथा प्रकृतोपयोगिन्यौ बलामतिबलां च विशिष्य गृहाण । अत्र त्वमिस्याद्येकवचनेन रामस्यैव विद्योपदेश इति प्रतिभाति । इदं तु रामस्य विद्योपदेशप्राधान्यद्योतनमात्रम्, उपलक्षणं च लक्ष्मणविद्योपदेशस्यापीति द्रष्टव्यम् । प्रत्यक्षक्षुत्पिपासाशान्तिभावीन्द्रजिज्जयादिगुरुकार्याणां च दिव्यानुग्रहाभावे असाध्यत्वात् ॥ १२ ॥
न श्रमो न ज्वरो वा ते न रूपस्य विपर्ययः ।
न च सुप्तं प्रमत्तं वा धर्षयिष्यन्ति नैर्ऋताः ॥ १३ ॥