यस्य देवस्य यद्रूपं वेषो यश्च पराक्रमः ॥ १९ ॥
अजायत समस्तेन तस्य तस्य सुतः पृथक् ।
रूपं-नीलपीतादि । वेषो-वृत्तचतुरश्रादि संस्थानविशेषः ॥ १९ ॥
गोलाङ्गूलिषु चोत्पन्नाः केचित् संमतविक्रमाः ॥ २० ॥
ऋक्षीषु च तथा जाता वानराः किन्नरीषु च ।
देवा महर्षिगन्धर्वाः तार्क्ष्या यक्षा यशस्विनः ॥ २१ ॥
नागाः किम्पुरुषाश्चैव सिद्धविद्याधरोरगाः ।
[१]वहवो जनयामासुः हृष्टास्तत्र सहस्रशः ॥ २२ ॥
वानरान् सुमहाकायान् सर्वान् वै वनचारिणः ।
अप्सरस्सु च मुख्यासु तथा विद्याधरीषु च ॥ २३ ॥
नागकन्यासु च तथा गन्धर्वीणां तनूषु च ।
कामरूपबलोपेता यथाकामं विचारिणः ॥ २४ ॥
सिंहशार्दूलसदृशा दर्पेण च बलेन च ।
शिलाप्रहरणाः सर्वे सर्वे पादपयोधिनः ॥ २५ ॥
नखदंष्ट्रायुधाः सर्वे सर्वे सर्वास्त्रकोविदाः ।
सर्वास्त्रकोविदा इति । देवांशत्वात् स्वयं प्रतिभातसर्वास्त्रपरिहारोपाया इत्यर्थः । नैव तेऽस्त्रप्रयोक्तारः । शिलादिप्रहरणा इत्युक्तत्वात् ॥ २५ ॥
विचालयेयुश्शैलेन्द्रान् भेदयेयुः स्थिरान् दुमान् ॥ २६ ॥
क्षोभयेयुश्च वेगेन समुद्रं सरितां पतिम् ।
विचालयेयुरित्यादौ 'शकि लिङ् च' इति लिङ् | 'कम्पने चलिः' इति मित्वेपि ह्रस्वाभावश्छान्दसः ॥ २६ ॥
- ↑ एतदनन्तरं-चारणाश्च सुतान् वीरान् ससृजुर्वनचारिणः ॥ इदमधिकं-ङ.