इक्ष्वाकोः-दशरथस्य, तद्वंशजत्वात्ताच्छन्द्यम् । मन्त्रः-कार्यविचारः । इङ्गितं-पौराभिप्रायः, तत् मुखसङ्कोचव्यङ्ग्यवचनादिभिः जानन्तीति तथा ॥ १ ॥
अष्टौ बभूवुर्वीरस्य तस्यामात्या यशस्स्विनः ।
शुचयश्चानुरक्ताश्च राजकृत्येषु नित्यशः ॥ २ ॥
शुचयः-असत्यस्वामिद्रोहादिरूपवाङ्मनसाशुचिरहिताः । नित्यशो राजकृत्येषु-तदनुष्ठानेषु अनुरक्ताः-तत्पराः ॥ २ ॥
धृष्टिर्जयन्तो विजयः [१]सिद्धार्थो ह्यर्थसाधकः ।
अशोको मन्त्रपालश्च सुमन्त्रश्चाष्टमोऽभवत् ॥ ३ ॥
के च तेऽष्टावित्यत आह-धृष्टिरित्यादि ॥ ३ ॥
ऋत्विजौ द्वावभिमतौ तस्याऽऽस्तामृषिसत्तमौ ।
[२]वसिष्ठो वामदेवश्च मन्त्रिणश्च तथापरे ॥ ४ ॥
ऋत्विजौ-पुरोहिताविति यावत् । अपर इति । उक्ताष्टप्रधानमन्त्रिव्यतिरिक्ता इति यावत् । कश्चिदपरः-"मन्त्रिणः मन्त्रविदः-ऋत्विजः आसन्" इत्याह । तदसत् । उत्तरत्र मन्त्रिगुणवर्णने" प्राप्तकालं च ते दण्डान् धारयेयुस्सुतेष्वपि "इत्यादीनां ब्राह्मणेष्वसम्भावितत्वात् ॥ ४ ॥
विद्याविनीता ह्रीमन्तः कुशला नियतेन्द्रियाः ।
परस्परानुरक्ताश्च नीतिमन्तो बहुश्रुताः ॥ ५ ॥
विद्याविनीता इति । विद्यायाः विनयः किल फलम् ॥ ५ ॥