सामग्री पर जाएँ

पृष्ठम्:Laghu paniniyam vol2.djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वरस्वरूपम् ।
प्याचार्यस्य कालेऽपि संस्कृते स्वरोच्चारणसंप्रदायः शिथिलो जात इत्येव
वक्तव्यं वर्तते । तथाहि - सर्वाधारभूतायां मन्त्रवदभ्यर्हितायां चतुर्दश-
सूत्र्यां स्वरनिर्णयः कथम् ? अनेकपदवटितेष्वधिकारसूत्रेषु सर्वेषामचां
स्वरितेनोच्चारणं किं सुकरम् ? धातुघटकानामचां तदनुबन्धानां च
पदव्यवस्थार्थमेव्यवस्थायै च स्वरभेदकल्पनाद्धातुपाठे
न्याय्यस्य
HD
अन्तोदात्तस्य सञ्चारो दुर्घटः । किञ्च हलन्तधातूनामन्तेष्वायोजिता अच
इत्संज्ञासिद्ध्यर्थमानुनासिक्येन, पदभेदद्योतनार्थमुदात्तादिभेदेन चोच्चारणीया
इति महान् भारः । इदानीमुपलभ्यमानेषु ग्रन्थेषु 'एधादय उदात्ता
अनुदात्तेत' इति स्वरनियमः प्रतिज्ञयैव कृतो दृश्यते । अपिच प्रतिज्ञानु-
नासिक्याः पाणिनीया' इतिवत् 'स्वरितेनाधिकारः' इति सूत्रे 'प्रतिज्ञा
स्वरिताः पाणिनीया' इति व्याख्यातारः समामनन्ति । अन्यच्च, 'इत्थं
व्याख्यास्यामः,' 'एवं व्याख्यास्यामः,' 'अन्यथा व्याख्यास्याम' इति
विचित्रकल्पनाकोलाहलेषु समासस्वरादिभिः सूत्राणामर्थनियन्त्रणाशङ्का-
मपि न करोति भगवान् भाष्यकारः । तथा च स्वररहितामेवाष्टाध्यायी-
मुपलब्धवान् पतञ्जलिरित्यनुमीयते । अपरं च, आचार्य एव वेदेऽपि
क्वचित् 'यज्ञकर्मण्यजपन्यूह्वसामसु' इत्येकश्रुतिं विदधाति । एवं स्थिते
पाणिनेः काल एवं स्वरप्रयोग ऐच्छिकः संवृत्तः स्यादिति कल्पनैव
न्याय्या दृश्यते । लोके स्वरभेदोपदेशस्त्वाचारपरिपालनमात्रं स्यात् ।
सर्वथा स्वयमेव विविधैः कारणकलापैः क्षयोन्मुख्याः स्वरव्यवस्थायाः
कण्ठे कुठारं श्लेषलोलुपाः कवयः प्रायुञ्जतेति तु सुव्यक्तम् ।
'अहं च त्वं च राजेन्द्र लोकनाथावुभावपि ।
बहुव्रीहिरहं राजन् षष्ठीतत्पुरुषो भवान् ।
,
इत्यादीनां कल्पनावैचित्र्याणां बाधकं स्वरं कथं ते सहेरन् ? ऐतिहासि-
कास्तु 'यथेन्द्रशत्रुः स्वरतोऽपराधात्' इति स्वरव्यभिचारेण यज्वनामनि-
प्राप्तिमपि समामनन्ति । दृश्यते च संस्कृतस्य सगोत्रासु यवन - रोमक-
भाषा - (Greek, Latin) प्रभृतिषु आर्यभाषासु प्रारम्भकाले स्वरनिर्बन्धः ।
6.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol2.djvu/५२&oldid=347291" इत्यस्माद् प्रतिप्राप्तम्