सामग्री पर जाएँ

पृष्ठम्:अन्योक्तिमुक्तावली.djvu/११९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१११
अन्योक्तिमुक्तावली ।

छायां संततशीतलां विरचयंश्चण्डांशुतप्ताङ्गिनां
 सौजन्यं तरुराज भो प्रथय यत्ते रत्नगर्भा प्रसूः ॥ ३३ ॥
छायासुप्तमृगः शकुन्तनिवहैर्विष्ठाविलिप्तच्छदः
 कीटैरावृतकोटरः कपिकुलैः स्कन्धे कृतप्रश्रयः ।
विश्रब्धं मधुपैर्निपीतकुसुमः श्लाघ्यः स एकस्तरु-
 र्यत्राङ्गीकृतसत्त्वसंप्लवभरे भग्नापदोऽन्ये द्रुमाः ॥ ३४ ॥
 गतास्ते विस्तीर्णस्तवकभरसौरभ्यलहरी-
  परीतव्योमानः प्रकृतिगुरवः केऽपि तरवः ।
 इहोद्याने संप्रत्यहह परिशिष्टाः क्रमवशा-
  दमी वल्मीकाद्या भुजगकुललीलावसतयः ॥ ३५ ॥
हंहो पान्थ किमाकुलः श्रमवशादत्युन्नतं धावसि
 प्रायेणास्य महाद्रुमस्य भवता वार्तापि नाकर्णिता ।
मूलं सिंहसमाकुलं तु शिखरं प्रोद्दण्डतुण्डाः खगा
 मध्ये कोटरभाजि भीषणफणाः फूत्कुर्वते पन्नगाः ॥ ३६ ॥
शाखाभिर्विततीभविष्यति दलैस्तेजांसि तिग्मद्युते-
 रन्तर्धास्यति यास्यतीह मधुपश्रेणी रसं कौसुमम् ।
अध्वन्यान्सुखिनः करिष्यति फलैर्यत्रेयमाशाभव-
 त्सोऽयं मार्गतरुर्हहा विधिवशाद्दग्धो दवार्चिष्मता ॥ ३७ ॥
तीव्रो निदाघसमयो बहुपथिकजनश्च मारवः पन्थाः ।
मार्गस्थस्तरुरेकः कियतां संतापमपनयति ॥ ३८ ॥
 मार्गं विहाय गिरिकन्दरगह्वरेषु
  वृक्षाः फलन्ति यदि नाम फलन्तु किं तैः ।
 शाखाग्रजानि कुसुमानि फलानि मार्गे
  गृह्णन्ति यस्य पथिकास्तरुरेष धन्यः ॥ ३९ ॥
आयान्ति त्वरितं गभीरसरितां कूलेषु भूमीरुहा
 मूलेषु व्यथिता निदाघपथिकाः कृत्यं तदेषां परम् ।