ननु मृत्पाषाणमणिवज्रसरित्समुद्रकरकादीनि द्रव्यान्तराणि [भवन्तु] विलक्षणबुद्धिवेघत्वाज्जलवत्। अन्यथा तदप्येकजातीयं स्यादिति चेन्न, भुजगमृगादिषु[१] शरीरबाधवदुपपत्तेः न च
म्यायलीलावतीकण्डाभरणम्
पृथिव्यादीनां वायुपयेन्तानां शरीरेन्द्रियविषमभावेनाकारत्रैविध्यमुक्तं तत्र शरीरेन्द्रिययोरन्तमोवमुत्का विषयान्तमावमाह-- नन्विति । द्रव्यान्तराणीति। यन्न यद्न्तर्भावः सिद्धान्तिनोऽभिमतस्तद्भिन्नानीत्यर्थः । विरक्षणेति । यद्यतो विलक्षणवुद्धिवेद्यं तत्ततो भिद्यत इति सामान्यव्याप्तेरिति भावः। तथा च पाषाणादीनि भिन्नानि तद्विलक्षणवुद्धिवेद्यत्वादिति साध्ये परस्पराधिकरणद्रव्यत्वसाक्षाब्द्याप्यजात्यभावे सिद्धे सरित्पाषाणयोरंशतः सिद्धसाधनमपास्तम् । तदपीति । सरितूपाषाणाद्यपीत्यर्थः । एकजातीयमिति । दव्यत्वव्याप्यजातिरिति शेषः । विखक्षणधीवेद्यत्वं यदि पृथिवीत्वात्यन्ताभाववत्त्वेन वेदनं तदा स्वरूपासिद्धिरथ यथाकथञ्चिद्विलक्षणधीवेघत्वं तदाऽनेकान्तिकमित्याह-युजगेति । करचरणादिमत्त्वबोधापेक्षया सुज्ञगादौ विलक्षणधीसत्वेपि न शारीरभिन्नस्वभित्यनेकान्तिकःत्वमित्यर्थः । ननु विलक्षणशरीरवेघस्यापि पाषाणादेः पृथिवीत्वे जलमपि पृथिवी स्यादित्याह -न चेति स्त्रेसरमवायिकारणतया जलस्य पृथिवीविजा-
न्यायलीलावतीप्रकाशः
विषयरूपपृथिव्याः पथिवीत्वमाक्षिपति [२]-- नन्विति । बिलक्षणेति । यद्यतो बिलक्षणघीवेद्यं तत्ततो भिन्ने यथा पृथिवीतो जलम्। पृथिव्यादिनवकविलक्षण धीवेघं च मृदादीति मृदादेः पृथिव्यादिनवकभेदसिद्धिरिति भावः । एतेन पृथिव्यादिनवकभेदे साध्य जस्याद्दष्टा-
स्यायङलावतीभ्रकाश्चविवृतिः
विषयेति । ज्ञायमानतया भोगसाधनं विषयः । पृथिव्याः पृथिब्यादेः । पृथिवीत्वं पृथिवीत्वादिकम् । तेन न मूले सरिदादिविरोधः । तत्ततो भिन्नमिति। द्रव्यविभाज्कधर्मेण विजातीयमित्यथैः। तेन न सिद्धसाधनम् । एतेनेति । सामान्यव्याप्त्यानुमानप्रवर्त्तनेनेत्यथैः ।