भ्यामप्यनावरणापत्तेः । शाखाचन्द्रमसोः समसमयवेदनाच्च [१] ।
न च तद् भ्रान्तं, यौगपद्यमात्रप्रतिक्षेपापत्तेः । तत्र बाधकाभावादिति चेन, तुल्यत्वात् । एतेन रसनादिकमप्यपास्तम् [२] ।
त्वगपि देहव्यापी उद्भूतस्पर्श: पवन एवास्तामिति नातीन्द्रियतासिद्धिरिति[३] चेन्न, का देशस्य योग्यता, रूपभेदो वा इन्द्रियप्राप्तिर्वा । नाद्यः । दिगन्तरस्थेन सत्यावरणे तदनुपलब्धेः । पुरुषान्तरं प्रति तदावृतमिति चेन्न, एकस्यावृतानावृत
न्वायलीलावतीकण्ठावरणम्
कृष्टविप्रकृष्टयोरतुल्यकालग्रहणं न स्यादित्याह - शाखेति । तदिति । वेदनयोः समकालीनत्ववेदन मित्यर्थः । तत्रेति । योगपद्यमात्र इत्यर्थः । रसनादिकमिति । अधिष्ठानातिरिक्तमित्यर्थः ।
पवन एवेति । वाह्य एवेत्यर्थः । नेन्दियसिद्धिरिति । अतीन्द्रियसिद्धिरित्यर्थः । यद्वा सिद्धान्त्यमतेन्द्रियसिद्धिरित्यर्थः । रूपभेद इति । स्वरूपभेद इत्यर्थः । दिगन्तरस्थेनेति । ब्यवहित घटनिकटस्थेनेत्यर्थः । पुरुषान्तरमिति । व्यवहित-
न्यायलीलावतीप्रकाशः
तथापि वेगमान्द्यस्यावश्यकतया यावद्दूरं निर्वाते याति काण्डादि न तावदूदूरं वायावित्यस्ति । चक्षुस्तु वातनिर्वातयोरुभयत्र तुल्यगास्येव । तथा च करप्रतिवद्धगतिकं वाते मन्दं गच्छतीति नियम इति भावः । रसनादिकमिति । अधिष्ठान सम्बद्धजलादिभिन्नमिति शेषः ।
पवन एव प्रत्यक्षस्पर्शाश्रय इति शेषः । दिगन्तरस्थेनेति । सन्निधानवद् व्यवधानेऽपि पर्वतवत्केशस्यापि ग्रहापत्तेर्दुरसाक्षात्कारे
न्यायलीलावतीप्रकाशविवृतिः
स्वभावत्वादित्यर्थः । वेगेति । अन्यथा वातनिर्वातयोः काण्डस्य [४] तुल्यतापत्तेरिति भावः । सन्निधानवदिति । देशस्वरूपभेदात्मकयोग्बताया नियामकत्वे आवृतस्यापि ग्रहणापत्तिरिति मूलोक्तमुपलक्षणम्। दूरस्थकेशस्थापि ग्रहणापत्तिः पर्वतसाक्षात्कारानुरोधेन तद्देशस्य योग्यत्वादित्यर्थः । अत्रेष्टापत्तिमाशङ्कयाह- दूरेति । स चात्र