इन्द्रियाणि न भौतिकानि इन्द्रियत्वात् मनोवत् [१]। अन्यथा
मनोऽपि भूतात्मकमेव स्यात् । अनारम्भकत्वं तत्र बाधकमिति
चेन्न, तस्याप्यसिद्धेः । यदा मनः पुरीनति वर्तते तदाल्पमवयविन
न्यायलीलावतीकण्ठाभरणम्
इदानीं बहिरिन्द्रियत्वावच्छेदेनाभौतिकत्वं साधयति परः- इन्द्रियाणीति । अन्यथेति । यदि इन्द्रियन्वं भूतत्वनियतं स्यादित्यर्थः । तत्रेति । मनसो भौतिकत्व इत्यर्थः । तस्यापीति । मनसो नारम्भकत्वस्याप्यसिद्धेरित्यर्थः । तर्हि मनसा यदारभ्यते द्रव्यं तदुपलभ्येतेत्यत आह—यदेति । 'पुरीतत्' नाडीविशेषः । तर्हि नाडीवदेव तदपि स्पा र्शनप्रत्यक्षं स्यादित्यत आह - अल्पमिति । ह्यणुकादिरूपमित्यर्थः ।
न्यालालावतीप्रकाशः
तस्याभूताजन्यत्वात् । इन्द्रियाणीति । पूर्वमसाधारणभूतभेदः साधितोऽ धुना भूतमात्राद्भेद इत्यपौनरुक्त्यम् [२] । पुरीततीति । यद्यदा विभुविशेष
न्यायलीलावतीप्रकाशविवृतिः
सम्भवेन दृष्टान्तासिद्धिप्रसङ्गेन तदर्थनिराकरणात्। पूर्वमिति। पूर्व घ्राणादिषु प्रत्येकं पृथिव्यादिप्रत्येकभेदः साधितोऽधुना त्विन्द्रियत्वावच्छिन्ने भूतत्वावच्छिन्नभेदः साध्यत इत्यपौन रुकन्यमित्यर्थः । एतेन बाहिरिन्द्रियाणीत्यादिना भूतत्वावच्छिन्नभेद एव साधिनः । इतरेत्यो भूतेभ्य इति स्वयमेव व्याख्यानादिति तेन पौनरुक्त्यमित्यपास्तम् । तत्र बाहरिन्द्रियत्वावच्छेदेन साधनादिह त्विन्द्रियत्वावच्छेदनेति भेदसम्भवात् । न चात्रापि पक्षस्थेन्द्रियपदं वहिरिद्रियपर मेवान्यथा दृष्टान्तासम्भवात् पक्षतावच्छेदकहेत्वोरभेदप्रसङ्गाश्चेति वाच्यम्, पक्षस्यापि दृष्टान्तत्वमभेदानुमानवत् पक्षतावच्छेदकहेत्वारभेदो न दूषणमेव सामानाधिकरण्यमात्रप्रतीतावपि तदवच्छेदेन प्रतीते रुद्देश्याया असिद्धेरेवेतिमतावष्टम्भेनैवैतत्प्रयोगकरणादिति भावः ।
मूले पुरीनतीत्यादेरुपादानप्रयोजनमाह—यथदेति । चक्षुषः संसर्गिद्र-