वात् । अन्यस्य चाननुभवात् । चक्षुरपि न तैजसम् । तस्य
क्रोशादिव्यापिनो रूपस्पर्शयोरन्यतरोद्भवनियमात् । अन्यथा
जलजातीयतापि कल्प्येत ।
त्वगपि न वायवीयमिन्द्रियम् । वायोः स्पर्शशब्दधृतिकम्पलिङ्गस्य [१] तदभाव एवाभावावधारणात् । घ्राणस्येव पाणाविति हेतुसम्भवात् । उद्भूतस्पर्श स्यैवमिति चेन्न, घ्राणेऽपि तत्त्वप्रसङ्गात् ।
न्यायलीलावतीकण्ठाभरणम्
ननु जलेन शरावे शीतस्पर्शोऽपि व्यज्यत इत्याह - शीतेति । पार्थिवस्य शीतस्पर्शेऽनाश्रयत्वादित्यर्थः । क्रोशादिव्या पित्वं महत्त्वमात्रोपलक्षकम् । जठरानलेऽपि यदि तेजस्स्वमभ्युपेतं तदा तद्व्यवच्छेदार्थं रूपानुद्भवेऽपि उष्मण: स्पर्शानुभवऽपि चन्द्रमहसम्तैजसत्वमिस्युक्तमन्यतरेति । अन्यथोत । यज्जातयिस्य या गुणोद्भवव्यवस्था तामतिक्रम्यापि चेत्तज्जातीयत्वमित्यर्थः । तदेकप्रमाणगम्यस्य तन्निवृत्तौ प्रमेयस्यापि निवृत्तेरित्यर्थः । घ्राणस्येति । गन्धोपलब्धिमात्रपरिचेयं घ्राणं हस्तावच्छेदेन गन्धानुपलब्ध्या यथा निवर्त्तत इत्यर्थः । हेतुसम्भवादिति । त्वगिन्द्रियं न वायुत्वाधिकरणं वायुत्वाभिव्यञ्जकरहितत्वात्, यद्यदभिव्यञ्जकरहितं न तत्तद्वत्, यथा प्राणाभिव्यञ्जकगन्धोपलब्धिरहितो हस्तो न घ्राणवदित्यर्थः । ननूभूतस्पर्शस्यैष वायोः स्पर्शादिचतुष्कं लिङ्गं न तु वायुमात्रस्येति शङ्कते - उद्भूतेति । व्यापकानुपलब्धेर्विशेषपरत्वे पाणावपि गन्धोपलब्धिनिवृत्त्या गन्धो-
न्यायलीलावती प्रकाशः
पार्थिवं जलमुत्पादयतीति नियमः। क्रोशादिव्यापिन इति जठरानलव्यवच्छेदार्थम् । रूपग्रहण चान्द्रकरसङ्गहार्थम् । स्पर्श ग्रहणं उष्मसङ्ग्रहार्थम्।
घ्राणस्येवेति । यथा गन्धानुपलब्धिलक्षणव्यापकाभावः पाणौ घ्राणाभावसाधकः, तथा स्पर्शशब्दाद्यभावः प्रकृतेऽपीत्यर्थः । तत्वेति । व्यापकानुपलब्धेर्विशेषपरत्वप्रसङ्गादित्यर्थः । तथा च गन्धोपलब्धिलक्षण-
न्यायलीलावतीप्रकाशविवृतिः
व्यतिरेके दृष्टान्तः । विशेषपरत्वप्रसङ्गादिति । गन्धोपलम्भकघ्राणपरत्व.
- ↑ लिङ्कैकस्वभावस्य तदभाव ।