गोपिकाचोरत्बम्बोधितम् । अखिलेति सम्बोधनेन पूरिपूर्णत्वं
बोधयता भवतोऽप्राप्यं किमपि नास्ति तथापि चौर्य करोति,
अहो!तव लीला। अहो! तव कामाग्निरपि, एकापि गोपिका तव
कामाय नालमतो बह्वयीरचूचुरत्,अतिकामी चोरश्च भवान्।भवता
गोपिकाः कुत्र नीताःता देहीति प्रघट्टकार्थः। अखिलदेहिनामन्त-
रात्मदगिति पदेनेश्वरलक्षणं तार्किकपातञ्जलवेदान्तिभिर्लक्षितं
दर्शितम्भवति, तथाहि "आत्मेन्द्रियाद्यधिष्ठाते"-त्यादिना इन्द्रिय-
वर्गधर्म ईशे निराकृतं सर्वान्तर्यामित्वञ्चदर्शितम्। "क्लेशकर्मवि-
पाकाशयैरपरामृष्टः पुरुषविशेष ईश्वर” इति पातञ्जलसूत्र ईश्वर-
जीवलक्षणपरे लक्षणगुणविशिष्टत्वम्भगवतो बोधितम्। क्लेशा-
दयो हि जीवधर्मा यद्यप्यन्तःकरणवृत्तयस्तथापि तत्स्वामि-
त्वात्तत्रोपचर्यन्ते, यथा जयपराजयौ भृत्यगतावपि तत्फलभोक्तृ-
स्वात्स्वामिन्युपचर्यन्ते। एवं जीवेऽपि जीवा हि देहिनो नान्तर्या-
मिणः, ईश्वरस्तु क्लेशादिफलयोःसुखदुःखयोरभोक्तृत्वादन्तर्यामी
तस्मान्निरतिशयज्ञान ईश्वर इति तल्लक्षणम्। ज्ञानं क्वचित्प्राप्त-
काष्ठम्. सातिशयत्वात् परिमाणवदित्यनुमानेन जीवेश्वरयोर्भेद-
सिद्धिः। एवमेव कापिलनयेऽपि*बुद्धिचैतन्यसम्पादकत्वेन पुरुष-
*कापिलं साङ्ख्यं निरीश्वरम् तच्च दूषितम्, वेदवाह्यत्वात्, सम्य गात्मप्रतिपादकत्वाभावात्। तदुक्तं वाराहे पार्वत्या हिमवन्तं प्रति, "का- पिलं पररात्रं च डामरं मोहनात्मकम्। एवं विधानी"-त्यादिना (पूर्वभागे अ. १२ श्लोक २५८)।