५६८ श्रीमद्वाल्मीकिरामायणे सुन्दरकाण्डे
प्रवालकृतसोपानं तप्तकाञ्चनवेदिकम्। मुष्णन्तमिव चक्षूंषि द्योतमानमिव श्रिया॥ १७
विमलं प्रांशुभावत्वादुल्लिखन्तमिवाम्बरम्। ततो मलिनसंवीतां राक्षसीभिः समावृताम्॥ १८
उपवासकृशां दीनां निःश्वसन्तीं पुनःपुनः। ददर्श शुक्लपक्षादौ चन्द्ररेखामिवामलाम्॥ १९
मन्दं प्रख्यायमानेन रूपेण रुचिरप्रभाम्। पिनद्धां धूमजालेन शिलामिव विभावसोः॥ २०
पीतेनैकेन संवीतां क्लिष्टेनोत्तमवाससा। सपङ्कामनलंकारां विपद्मामिव पद्मिनीम्॥ २१
व्रीडितां दुःखसंतप्तां मरिम्लानां तपस्विनीम्। ग्रहेणाङ्गारकेणेव पीडितामिव रोहिणीम्॥ २२
अश्रुपूर्णमुखीं दीनां कृशामनशनेन च। शोकध्यानपरां दीनां नित्यं दुःखपरायणाम्॥ २३
प्रियं जनमपश्यन्तीं पश्यन्तीं राक्षसीगणम्। स्वगणेन मृगीं हीनां श्वगणाभिवृतामिव॥ २४
नीलनागाभया वेण्या जघनं गतयैकया। नीलया नीरदापाये वनराज्या महीमिव॥ २५
सुखार्हां दुःखसंतप्तां व्यसनानामकोविदाम्। तां समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम्॥ २६
तर्कयामास सीतेति कारणैरुपपादिभिः। ह्रियमाणा तदा तेन रक्षसा कामरूपिणा॥ २७
यथारूपा हि दृष्टा वै तथारूपेयमङ्गना। पूर्णचन्द्रानानां सुभ्रूं चारुवृत्तपयोधराम्॥ २८
कुर्वतीं प्रभया देवीं सर्वा वितिमिरा दिशः। तां नीलकेशीं बिम्बोष्ठीं सुमध्यां सुप्रष्ठिताम्॥ २९
सीतां पद्मपलाशाक्षीं मन्मथस्य रतिं यथा। इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभामिव॥ ३०
भूमौ सुतनुमासीनां नियतामिव तापसीम्। निःश्वासबहुलां भीरुं भुजगेन्द्रवधूमिव॥ ३१
शोकजालेन महता विततेन न रजातीम्। संसक्तां धूमजालेन शिखामिव विभावसोः॥ ३२
तां स्मृतीमिव संदिग्धामृद्धिं निपतितामिव। विहतामिव च श्रद्धामाशां प्रतिहतामिव॥ ३३
सोपसर्गां यथा सिद्धिं बुद्धिं सकलुषामिव। अभूतेनापवादेन कीर्तिं निपतितामिव॥ ३४
रामोपरोधव्यथितां रक्षोहरणकर्शिताम्। अबलां मृगशाबाक्षीं वीक्षमाणां समन्ततः॥ ३५
बाष्पाम्बुपरिपूर्णेन कृष्णवक्राक्षिपक्ष्मणा। वदनेनाप्रसन्नेन निःश्वसन्तीं पुनःपुनः॥ ३६
मलपङ्कधरां दीनां मण्डनार्हाममण्डिताम्। प्रभां नक्षत्रराजस्य कालमेघैरिवावृताम्॥ ३७
तस्य संदिदिहे बुद्धिर्मुहुः सीतां निरीक्ष्य तु। आम्नायानामयोगेन विद्यां प्रशिथिलामिव॥ ३८
दुःखेन बुबुधे सीतां हनुमानलंकृताम्। संस्कारेण यथा हीनां वाचमर्थान्तरं गताम्॥ ३९
तां समीक्ष्य विशालाक्षीं राजपुत्रीमनन्दिताम्। तर्कयामास सीतेति कारणैरुपपादिभिः॥ ४०
वैदेह्या यानि चाङ्गेषु तदा रामोऽन्वकीर्तयत्। तान्याभरणजालानि गात्रशोभीन्यलक्षयत्॥ ४१
सुकृतौ कर्णवेष्टौ च श्वदंष्ट्रौ च सुसंस्थितौ। मणिविद्रुमचित्राणि हस्तेष्वाभरणानि च॥ ४२
श्यामानि चिरयुक्तत्वात्तथा संस्थानवन्ति च। तान्येवैतानि मन्येऽहं यानि रामोऽन्वकीर्तयत्॥ ४३
पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६२५
एतत् पृष्ठम् परिष्कृतम् अस्ति
![](http://upload.wikimedia.org/wikipedia/commons/thumb/5/5b/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%AE%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%B2%E0%A5%8D%E0%A4%AE%E0%A5%80%E0%A4%95%E0%A4%BF%E0%A4%B0%E0%A4%BE%E0%A4%AE%E0%A4%BE%E0%A4%AF%E0%A4%A3%E0%A4%AE%E0%A5%8D.pdf/page625-941px-%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%AE%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%B2%E0%A5%8D%E0%A4%AE%E0%A5%80%E0%A4%95%E0%A4%BF%E0%A4%B0%E0%A4%BE%E0%A4%AE%E0%A4%BE%E0%A4%AF%E0%A4%A3%E0%A4%AE%E0%A5%8D.pdf.jpg)