सामग्री पर जाएँ

पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नवमः सर्गः ५५३
चतुर्विषाणैर्द्विरदैस्त्रिविषाणैस्तथैव च। परिक्षिप्तमसंबाधं रक्ष्यमाणमुदायुधैः॥ ५
राक्षसीभिश्च पत्नीभी रावणस्य निवेशनम्। आहृताभिश्च विक्रम्य राजकन्याभिरावृतम्॥ ६
तन्नक्रमकराकीर्णं तिमिङ्गिलझषाकुलम्। वायुवेगसमाधूतं पन्नगैरिव सागरम्॥ ७
या हि वैश्रवणे लक्ष्मीर्या चेन्द्रे हरिवाहने। सा रावणगृहे सर्वा नित्यमेवानपायिनी॥ ८
या च राज्ञः कुबेरस्य यमस्य वरुणस्य च। तादृशी तद्विशिष्टा वा ऋद्धी रक्षोगृहेष्विह॥ ९
तस्य हर्म्यस्य मध्यस्थं वेश्म चान्यत् सुनिर्मितम्। बहुनिर्यूहसंकीर्णं ददर्श पवनात्मजः॥ १०
ब्रह्मणोऽर्थे कृतं दिव्यं दिवि यद्विश्वकर्मणा। विमानं पुष्पकं नाम सर्वरत्नविभूषितम्॥ ११
परेण तपसा लेभे यत् कुबेरः पितामहात्। कुबेरमोजसा जित्वा लेभे तद्राक्षसेश्वरः॥ १२
ईहामृगसमायुक्तैः कार्तस्वरहिरण्मयैः। सुकृतैराचितं स्तम्भैः प्रदीप्तमिव च श्रिया॥ १३
मेरुमन्दरसंकाशैरालिखद्भिरिवाम्बरम्। कूटागारैः शुभाकारैः सर्वतः समलंकृतम्॥ १४
ज्वलनार्कप्रतीकाशं सुकृतं विश्वकर्मणा। हेमसोपानसंयुक्तं चारुप्रवरवेदिकम्॥ १५
जालवातायनैर्युक्तं काञ्चनैः स्फाटिकैरपि। इन्द्रनीलमहानीलमणिप्रवरवेदिकम्॥ १६
विद्रुमेण विचित्रेण मणिभिश्च महाधनैः। निस्तुलाभिश्च मुक्ताभिस्तलेनाभिविराजितम्॥ १७
चन्दनेन च रक्तेन तपनीयनिभेन च। सुपुण्यगन्धिना युक्तमादित्यतरुणोपमम्॥ १८
विमानं पुष्पकं दिव्यमारुरोह महाकपिः। तत्रस्थः स तदा गन्धं पानभक्ष्यान्नसंभवम्॥ १९
दिव्यं संमूर्छितं जिघ्रद्रूपवन्तमिवानिलम्। स गन्धस्तं महासत्त्वं बन्धुर्बन्धुमिवोत्तमम्॥ २०
इत एहीत्युवाचेव तत्र यत्र स रावणः। ततस्तां प्रस्थितः शालां ददर्श महतीं शुभाम्॥ २१
रावणस्य मनःकान्तां कान्तामिव वरस्त्रियम्। मणिसोपानविकृतां हेमजालविराजिताम्॥ २२
स्फाटिकैरावृततलां दन्तान्तरितरूपिकाम्। मुक्ताभिश्च प्रवालैश्च रूप्यचामीकरैरपि॥ २३
विभूषितां मणिस्तम्भैः सुबहुस्तम्भभूषिताम्। समैर्ऋजुभिरत्युच्चैः समन्तात् सुविभूषितैः॥ २४
स्तम्भैः पक्षैरिवात्युच्चैर्दिवं संप्रस्थितामिव। महत्या कुथयास्तीर्णां पृथिवीलक्षणाङ्कया॥ २५
पृथिवीमिव विस्तीर्णां सराष्ट्रगृहमालिनीम्। नादितां मत्तविहगैर्दिव्यगन्धाधिवासिताम्॥ २६
परार्घ्यास्तरणोपेतां रक्षोऽधिपनिषेविताम्। धूम्रामगरुधूपेन विमलां हंसपाण्डराम्॥ २७
चित्रां पुष्पोहारेण कल्माषीमिव सुप्रभाम्। मनःसंह्लादजननीं वर्णस्यापि प्रसादिनीम्॥ २८
तां शोकनाशिनीं दिव्यां श्रियः संजननीिव। इन्द्रियाणीन्द्रियार्थैश्च पञ्च पञ्चभिरुत्तमैः॥ २९
तर्पयामास मातेव तदा रावणपालिता। स्वर्गोऽयं देवलोकोऽयमिन्द्रस्येयं पुरी भवेत्॥ ३०

१. इदमर्थम् ग. नास्ति ३. तरुणादित्यसंनिम क. अस्यानन्तरम्
२. कामग कामदीपनं क. अस्यानन्तरम् कूटागारैर्वराकारैर्विविधै समलंकृतम् - इति च. छ.
त्रिलोकजनसेव्यं तत् सर्वरत्नविभूषितम् - इति क. ४. २५, २३ - तमे पद्ये घ. न स्तः।