एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४१४ श्रीमद्वाल्मीकिरामायणे अरण्यकाण्डे
इत्येवमुक्त्वा मदनाभिपीडितः स लक्ष्मणं वाक्यमनन्यचेतसम् ।
विवेश पम्पा नलिनी मनोहरां रघूत्तमः शोकविषादयन्त्रितः ॥
ततो महद्वम॑ सुदूरसंक्रमः क्रमेण गत्वा प्रतिकूलधन्वनम् ।
ददर्श पम्पां शुभदर्शकाननामनेकनानाविधपक्षिजालकाम् ॥
हत्याचे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहसिकायां संहितायाम् अरण्यकाण्डे पम्पादर्शनं नाम पञ्चसप्ततितमः सर्गः
श्रीमद्वाल्मीकिरामायणे अरण्यकाण्डः संपूर्णः