च प्रस्थानं कविव्युत्पत्ये विषमवाणलीलायां सप्रपञ्चं दर्शितम् । चेत..
नानां च बाल्याद्यवस्थाभिरन्यत्वं सत्कवीनां प्रसिद्धमेव । चेतनानामव.
स्थाभेदेऽप्यवान्तरावस्थाभेदान्नानात्वम् । यथा कुमारीणां कुसुमशर-
भिन्नहृदयानामन्यासां च । तत्रापि विनीतानामविनीतानां च । अचेत
नानां च भाषानामारम्भाद्यवस्थाभेदभिन्नानामेकैकशः स्वरूपमुपनिबध्य.
मानमानन्त्यमेवोपयाति । यथा--
हंसानां निनदेषु यैः कवलितैरासज्यते कूजता- |
ते सम्प्रत्यकठोरवारणवधूदन्ताङ्कुरस्पर्धिनो |
एवमन्यत्रापि दिशानयानुसर्तव्यम् ।
लोचनम्
क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयताया इति । |
प्रियाणामिति चासंसारं प्रबहद्र्पो योऽयं कान्तानां विभ्रमविशेषः स नवनव एव दृश्यते । न ह्यसावग्निचयनादिवदन्यतश्शिक्षितः, येन तत्सादृश्यात्पुनरुक्ततां गच्छेत् । अपि तु निसर्गोंद्भियमानमदनाङ्कुरविकासमात्रन्तदिति नवनवत्वम् । तद्व- त्परकीयशिक्षानपेक्षनिजप्रतिभागुणनिष्यन्दभूतः काव्यार्थ इति भावः ।
बालप्रिया
प्रियाणां विभ्रमा इत्यनेन गम्यमर्थमाह-प्रियाणामिति चेत्यादि । न ही-
त्यादि । असो विभ्रमविशेषः। यथा अग्निचयनमन्यतश्शिक्ष्यते तथा शिक्षितो
नेत्यर्थः । येनेति । अन्यतश्शिक्षितत्वेनेत्यर्थः । तदिति । विभ्रमविशेष इत्यर्थः ।
नवनवत्वमिति । तस्येति शेषः । अर्था वा सुकविवाणीनामिति प्रकृतं विवृणोति-
तादित्यादि । तद्वदिति । तेन तुल्यो भवति नवनवो भवतीत्यर्थः । वृत्तौ चेतन-
तत्स्वरूपापेक्षयेति । हिमवतो वर्णनमित्यनुषज्यते । 'प्रदर्शित तदिति
। वर्णितंतदित्यर्थः । 'अवस्थाऽभेदेऽपीति । कौमारादिशरीरावस्थाया भेदाभावेऽपीत्यर्थः ।
'आन्तरेति । मानसिकेत्यर्थः । 'हंसानामिति । कवलितः भक्षितः। यैः कूजतां
हंसानां निनदेषु कषायकण्ठलुण्ठनादाघर्घरः अन्यः कोऽपि विभ्रमः आसज्यते आसक्तः
क्रियत इत्यायन्ययः।
तच्च यथाऽवस्थितमपि तावदुपनिबध्यमानमित्यत्र तावत्पदं लोचने विवृणोति-