यथा वा पुण्डरीकस्य महाश्वेतां प्रति प्रवृत्तनिर्भरानुरागस्य द्विती- यमुनिकुमारोपदेशवर्णने । स्वाभाविक्यामङ्गभावप्राप्तावदोषो यथा-
भ्रमिमरतिमलसहृदयतां प्रलयं मृर्च्छां तमः शरीरसादम् । |
लोचनम्
वितर्क औत्सुक्येन मतिः स्मृत्या शङ्का दैन्येन धृतिश्चिन्तया च बाध्यते । एतच्च द्विती- योद्दयोतारम्भ एवोक्तमस्माभिः । द्वितीयेति । विपक्षीभूतवैराग्यविभावाद्यवधारणेऽपि ह्यशक्यविच्छेदत्वेन दाढर्यमेवानुरागस्योक्तं भवतीति भावः । समारोपितायामि- ति । अङ्गभावप्राप्ताविति शेषः ।
पाण्डुक्षामं वक्त्रं हृदयं सरसं तवालसं च वपुः । |
अत्र करुणोचितो व्याधिः श्लेषभङ्गया स्थापितः । कोपादिति बध्वेति हन्यत इति च रौद्रानुभावानां रूपकबलादारोपितानां तदनिर्वाहादेवाङ्गत्वम् । तच्च पूर्वमेवोक्तं 'ना-
बालप्रिया
'अन्तरा' मध्ये । 'प्रवाहविच्छेदः' अनुसन्धानधाराया विच्छेद इत्यर्थः ।
लोचने-विपक्षीभूतेति । अनुरागस्य विरोधिभूतेत्यर्थः । अनुरागस्येति । पुण्डरीकगतानुरागस्येत्यर्थः । वृत्तौ 'भ्रमिमिति । इदं पाण्ड्वित्यादि च काव्यप्रका- शेऽप्युदाहृतम् । भ्रमिर्नाम दिशां भ्रमणमिव दर्शयन्नान्तरः कश्चिद्विकारः। प्रलयो नष्टचेष्टता, मूर्छा बाह्याभ्यन्तरेन्द्रियवृत्तिनिरोधः। तमः आन्ध्यम् । जलद एव भुज- गस्तज्जम् । विषं जलमेव गरलम् । अत्र करुणोचितव्याधेरनुभावानां भ्रम्यादीनां विप्रलम्भेऽपि सम्भवान्नैसर्गिकी अङ्गता ।
पाण्डुक्षाममिति । हृदयं उरः। सरसं अन्नरससहितं, यद्वा-चन्दनादि. रससहितम् । अलसं बाह्यक्रियायामक्षमम् । क्षेत्रियो देहान्तरे चिकित्स्योऽसाध्य इति यावत् । रोगः गदः । क्षेत्रियो रोगः क्षयरोग इति केचित् तम् । आवेदय- तीति। वक्त्रादीनां प्रत्येकमन्वयाभिप्रायेणैकवचनान्ततया निर्देशः ।
अत्र करुणोचितव्याधेः विप्रलम्भे समारोपादनतेत्याह लोचने-अत्रेत्यादि । श्ले- षभङ्गयेति। उभयसाधारणानुभावप्रदर्शनेनेत्यर्थः । स्थापित इति । आरोपेणाङ्गतया प्रदर्शित इत्यर्थः । बध्वेतीत्यादि । बन्धनादीनामित्यर्थः । तदनिर्वाहादिति । रूप- कानिर्वाहादित्यर्थः । अङ्गत्वमिति। शृङ्गाराङ्गत्वमित्यर्थः । वृत्तौ अङ्गभावगमनं यदियं